हरजीतसिंह-ग्रेवालः राष्ट्रियाल्पसंख्यक-आयोगस्य अध्यक्षरूपेण नियुक्तः
नवदेहली, १७ जुलाईमासः (हि.स.)। केन्द्र-सर्वकारेण भारतीय-जनता-पक्षस्य वरिष्ठ-नेता हरजीतसिंह-ग्रेवालः राष्ट्रीय-अल्पसंख्यक-आयोगस्य अध्यक्षरूपेण नियुक्तः। तथा च एस्. मुनावरी-बेगमः उपाध्यक्षरूपेण, ग्लेन् ई. सूज-टिकलो आयोगस्य सदस्यरूपेण च नियुक्तौ। एतेष
राष्ट्रीय अल्पसंख्यक आयोग


नवदेहली, १७ जुलाईमासः (हि.स.)। केन्द्र-सर्वकारेण भारतीय-जनता-पक्षस्य वरिष्ठ-नेता हरजीतसिंह-ग्रेवालः राष्ट्रीय-अल्पसंख्यक-आयोगस्य अध्यक्षरूपेण नियुक्तः। तथा च एस्. मुनावरी-बेगमः उपाध्यक्षरूपेण, ग्लेन् ई. सूज-टिकलो आयोगस्य सदस्यरूपेण च नियुक्तौ। एतेषां कार्यकालः त्रिवर्षात्मकः भविष्यति।

मन्त्रालयस्य अधिसूचनायां एतस्य सूचना प्रदत्ता। तदनुसारं केन्द्र-सर्वकारः राष्ट्रीय-अल्पसंख्यक-आयोग-अधिनियमः, १९९२ (१९९२ तमे वर्षे १९ सङ्ख्यकः अधिनियमः) इत्यस्य धारा ३ उपधारा (१) तथा उपधारा (२) इत्यनयोः प्रावधानानुसारं हरजीतसिंह-ग्रेवालं राष्ट्रीय-अल्पसंख्यक-आयोगस्य अध्यक्षरूपेण, एस्. मुनावरी-बेगमं उपाध्यक्षरूपेण, ग्लेन् ई. सूज-टिकलो इत्येनं सदस्यरूपेण च तेषां पदभारग्रहण-दिनाङ्कात् आरभ्य त्रिवर्षपर्यन्तं अथवा अग्रिमादेशपर्यन्तं, यत् पूर्वं भविष्यति तावत्कालाय नियुक्तवान्।

ग्रेवालः पञ्जाब-राज्यस्य वरिष्ठः भाजपा-नेता अस्ति। अस्मात् पूर्वं सः पञ्जाब-खादी-मण्डलस्य अध्यक्षः आसीत्। सः वर्षे २०१७ तमे विधानसभानिर्वाचनम् अपि प्रतिस्पर्धितवान्। कृषक-विरोध-प्रदर्शनस्य समये केन्द्र-सर्वकारस्य वरिष्ठ-नेतृभिः सह संवादेषु तेन महत्त्वपूर्णा भूमिका निर्वहिता।

Hindusthan Samachar / Divya Ranjan