हाइड्रोजन ट्रेनयानस्य दिल्लीं यावत् भविष्यति विस्तारः, परीक्षणं शुभारब्धम् : अश्वनी वैष्णवः
चंंडीगढ़म्, 17 जुलाईमासः (हि.स.)। रेलमन्त्री अश्विनी वैष्णवः शुक्रवासरे घोषणां कृतवान् यत् देशस्य प्रथमां हाइड्रोजनचालितां रेलयानसेवां निकटभविष्ये विस्तारित्य दिल्लीनगरपर्यन्तं सञ्चालयिष्यते। प्रधानमन्त्री नरेन्द्रमोदिने जीन्दनगर्यां देशस्य प्रथम
जींद में आयाेजित कार्यक्रम काे संबाेधित करते रेल मंत्री अश्वनी वैष्णव


जीद


चंंडीगढ़म्, 17 जुलाईमासः (हि.स.)।

रेलमन्त्री अश्विनी वैष्णवः शुक्रवासरे घोषणां कृतवान् यत् देशस्य प्रथमां हाइड्रोजनचालितां रेलयानसेवां निकटभविष्ये विस्तारित्य दिल्लीनगरपर्यन्तं सञ्चालयिष्यते। प्रधानमन्त्री नरेन्द्रमोदिने जीन्दनगर्यां देशस्य प्रथमं हाइड्रोजनचालितं रेलयानं जनतायै समर्पितस्य अवसरस्य कार्यक्रमे सम्बोधनं कुर्वन् रेलमन्त्री उक्तवान् यत् वर्तमानकाले एतत् रेलयानं जीन्दतः सोनीपतपर्यन्तं सञ्चरिष्यति। रेलमन्त्रालयस्य पक्षतः सोनीपततः दिल्लीनगरपर्यन्तं रेलमार्गे हाइड्रोजनचालितरेलयानस्य परीक्षणं प्रारब्धम् अस्ति। अतीव शीघ्रं परीक्षणकार्यस्य सम्पन्नतायाः अनन्तरं हाइड्रोजनचालितरेलयानसेवा विस्तारित्य जीन्दतः दिल्लीनगरपर्यन्तं सञ्चालयिष्यते। अस्य प्रायोगिकपरियोजनायाः सफलतायाः अनन्तरं देशस्य अन्येष्वपि भागेषु हाइड्रोजनचालितानि रेलयानानि सञ्चालयिष्यन्ते।

रेलमन्त्री उक्तवान् यत् भारतम् अधुना तेषु विश्वस्य कतिपयेषु राष्ट्रेषु समाविष्टम् अस्ति यत्र हाइड्रोजनसम्बद्धा सम्पूर्णा प्रौद्योगिकी उपलब्धा अस्ति। हरियाणाराज्यस्य जनान् सम्बोधयन् रेलमन्त्री उक्तवान् यत् हरियाणा देशस्य तत् राज्यं अस्ति यत्र जलस्य साहाय्येन रेलयानं सञ्चालितम्। तेन उक्तं यत् पूर्वं काङ्ग्रेसशासनकाले रेलविभागेन हरियाणाराज्याय त्रिशतपञ्चदशकोटिरूप्यकाणां विनियोगः क्रियते स्म। वर्तमाने मोदीसर्वकारेण सः एकादशगुणं वर्धितः त्रिसहस्रपञ्चशतकोटिरूप्यकपर्यन्तं कृतः। तेन अपि सूचितं यत् हरियाणाराज्ये सम्प्रति अष्टादशसहस्रकोटिरूप्यकपरिमितासु रेलपरियोजनासु कार्यं प्रवर्तमानम् अस्ति। चतुस्त्रिंशत् रेलस्थानकानां नवनिर्माणकार्यं प्रवर्तते। तेषु पञ्च रेलस्थानकानां पुनर्निर्माणकार्यं सम्पन्नम् अस्ति। अद्य हरियाणाराज्ये षोडश वन्देभारत रेलयानानि तथा अष्ट अमृतभारत रेलयानानि सञ्चरन्ति। हरियाणाराज्यस्य सर्वेषां रेलमार्गाणां शतप्रतिशतं विद्युतीकरणं सम्पन्नम् अस्ति। भविष्ये हरियाणाराज्याय अनेकाः रेलपरियोजनाः प्रदास्यन्ते।

----------