राष्ट्रपतिः मुर्मुः 19 तः 25 जुलाई यावत् मोल्दोवा, उत्तरी मैसेडोनियायाः अथ रोमानियायाः राजकीययात्रायां गमिष्यति
नवदिल्ली, 17 जुलाईमासः (हि.स.)।राष्ट्रपतिः द्रौपदीमुर्मुः जुलाईमासस्य उन्नविंशतितः पञ्चविंशतितमदिनपर्यन्तं मोल्दोवा, उत्तरी मैसेडोनिया तथा रोमानिया देशयोः राजकीययात्रां करिष्यति। अस्यां यात्रायां सा त्रयाणामपि राष्ट्राणां शीर्षनेतृभिः सह द्विपक्षीय
राष्ट्रपति द्रोपदी मुर्मु (फाइल फोटो)


नवदिल्ली, 17 जुलाईमासः (हि.स.)।राष्ट्रपतिः द्रौपदीमुर्मुः जुलाईमासस्य उन्नविंशतितः पञ्चविंशतितमदिनपर्यन्तं मोल्दोवा, उत्तरी मैसेडोनिया तथा रोमानिया देशयोः राजकीययात्रां करिष्यति। अस्यां यात्रायां सा त्रयाणामपि राष्ट्राणां शीर्षनेतृभिः सह द्विपक्षीयवार्तां करिष्यति तथा वाणिज्ये, निवेशे, विविधक्षेत्रेषु च सहयोगविस्तारविषये विचारविमर्शं करिष्यति।

विदेशमन्त्रालयेन शुक्रवासरे सूचितं यत् राष्ट्रपतिः मुर्मु जुलाईमासस्य विंशतितमे दिने राष्ट्रपतिः मैया सैंडू इत्यस्याः आमन्त्रणेन मोल्दोवादेशं गमिष्यति। कस्यापि भारतीयराष्ट्रपतेः एषा मोल्दोवादेशस्य प्रथमा यात्रा भविष्यति। यात्राकाले राष्ट्रपतिः स्वसमकक्षया मैया सैंडू इत्यनया सह प्रतिनिधिमण्डलस्तरीयवार्तां करिष्यति। सा मोल्दोवासंसदः अध्यक्षं इगोर ग्रोसु इत्येनमपि मिलिष्यति। राष्ट्रपतिः मोल्दोवा भारत संसदीयमैत्रीसमूहस्य सदस्यैः सह संवादं करिष्यति। एतदतिरिक्तं सा भारत मोल्दोवा वाणिज्यमञ्चं सम्बोधयिष्यति तथा भारतीयसमुदायस्य सदस्यैः सहापि मिलिष्यति।

मन्त्रालयस्य अनुसारं भारतस्य मोल्दोवादेशेन सह मैत्रीपूर्णाः सम्बन्धाः सन्ति। एषा यात्रा उभयदेशयोः सम्बन्धान् व्यापकसहभागितायाः स्तरं प्रति नेतुं ऐतिहासिकं पदक्षेपं भविष्यति। कृषिः, स्वास्थ्यं, औषधनिर्माणम्, सूचनाप्रौद्योगिकी तथा शिक्षाक्षेत्रेषु सहयोगस्य व्यापकाः सम्भावनाः सन्ति।

राष्ट्रपतिः मुर्मुः जुलाईमासस्य एकविंशतितमे द्वाविंशतितमे च दिने राष्ट्रपतिः गोर्डाना सिलजानोव्स्का दावकोवा इत्यस्याः आमन्त्रणेन उत्तरी मैसेडोनियादेशस्य राजकीययात्रां करिष्यति। कस्यापि भारतीयराष्ट्रपतेः एषा उत्तरी मैसेडोनियादेशस्यापि प्रथमा यात्रा भविष्यति। अस्यां यात्रायां सा राष्ट्रपतिं गोर्डाना सिलजानोव्स्का दावकोवा, प्रधानमन्त्रिणं क्रिस्टिजन मिकोस्की, असेम्बली अध्यक्षं च मिलिष्यति तथा उत्तरी मैसेडोनियादेशस्य असेम्बलीं सम्बोधयिष्यति। सा भारत उत्तरी मैसेडोनिया वाणिज्यमञ्चे अपि सहभागिता करिष्यति। उभयदेशयोः कृषिः, औषधनिर्माणम्, विज्ञानम्, प्रौद्योगिकी, सूचनाप्रौद्योगिकी तथा आईटीईएस इति प्राथमिकक्षेत्रेषु आर्थिकसहयोगविस्तारे विशेषरुचिः अस्ति।

ततः परं राष्ट्रपतिः मुर्मु जुलाईमासस्य त्रयोविंशतितः पञ्चविंशतितमदिनपर्यन्तं राष्ट्रपतिः निकुशोर डैन इत्यस्य आमन्त्रणेन रोमानियादेशस्य राजकीययात्रां करिष्यति। त्रिदशकाधिककालानन्तरं कस्यापि भारतीयराष्ट्रपतेः एषा प्रथमा रोमानियायात्रा भविष्यति। स्वयात्राकाले सा राष्ट्रपतिं निकुशोर डैन, अन्तरिमप्रधानमन्त्रिणं इली बोलोजान, सीनेट अध्यक्षं मिर्सिया अब्रुडियन, चेम्बर आफ डेप्युटीज अध्यक्षं सोरिन ग्रिंडियानु तथा रोमानिया भारत संसदीयमैत्रीसमूहस्य सदस्यांश्च मिलिष्यति। एतदतिरिक्तं सा भारत रोमानिया वाणिज्यमञ्चं सम्बोधयिष्यति तथा भारतीयसमुदायस्य सदस्यैः सह संवादमपि करिष्यति।

विदेशमन्त्रालयेन उक्तं यत् रोमानिया यूरोपीयसङ्घे भारतस्य महत्त्वपूर्णः सहभागीराष्ट्रम् अस्ति तथा भारत यूरोपीयसङ्घ मुक्तवाणिज्यसहमतस्य सम्पन्नतायाः अनन्तरं उभयदेशयोः आर्थिकसम्बन्धाः अधिकं सुदृढाः भविष्यन्ति।

मन्त्रालयस्य अनुसारं राष्ट्रपतेः एताः त्रयाणां राष्ट्राणां राजकीययात्राः पूर्वीययूरोपप्रदेशेन सह भारतस्य वर्धमानं सम्बद्धत्वं तथा एतेषां राष्ट्राणां सह द्विपक्षीयसम्बन्धान् अधिकं सुदृढान् कर्तुं भारतस्य दृढप्रतिबद्धतां प्रकाशयन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani