Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १७ जुलाईमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा गुरुवासरस्य रात्रौ फेसबुक-प्रत्यक्षप्रसारणमाध्यमेन धर्मः, भूमिसुधारः, रोजगारः, नगरविकासः तथा चायोद्योगः इत्यादिभिः सम्बद्धाः अनेकाः महत्त्वपूर्णाः घोषणाः अकुरुत।
मुख्यमन्त्री अवदत् यत् काशीविश्वनाथ-परिसरपरियोजनायाः आदर्शमनुसृत्य कामाख्या-परिसरपरियोजनायाः निर्माणं भविष्यति, यस्मिन् प्रायः ५०० कोटि-रूप्यकाणां व्ययः भविष्यति।
तेन उक्तं यत् अभियानन-बसुन्धरा-योजनया अद्यावधि दशलक्षाधिकानि परिवाराणि लाभान्वितानि सन्ति। अपि च अग्रिमे २५ डिसम्बर-मासात् अभियानन-बसुन्धरा ४.० आरभ्यते। भूमिसम्बद्धानां सूचनानां विचाराणां च ग्रहणार्थं शीघ्रमेव विशेषम् अन्तर्जालपटलम् अपि प्रारभ्यते।मुख्यमन्त्री अवदत् यत् गुवाहाटीनगरस्य उड्डयनसेतुषु ऊर्ध्वोद्याननिर्माणस्य कार्यम् आरब्धम् अस्ति तथा राज्यस्य अन्येषु नगरेषु स्थितेषु उड्डयनसेतुष्वपि एवंविधः प्रयत्नः करिष्यते।
तेन उक्तं यत् द्विलक्ष-राजकीय-नियुक्तीनां प्रदाने यः सङ्कल्पः कृतः, तस्य पूर्त्यर्थं प्रक्रिया तीव्रगत्या प्रचलति। अग्रिमौ ६ तथा ७ अगस्त-दिनाङ्कौ निजुत् मोइना तथा निजुत् बाबू-योजनयोः प्रमाणपत्राणि वितरितानि भविष्यन्ति।
डॉ. शर्मा लाचित-बरफूकनस्य जीवन-चरित्रम् आधृत्य हिन्दी-चलच्चित्र-निर्माणस्य योजनामपि घोषितवान्।
मुख्यमन्त्री अवदत् यत् असमराज्यस्य माचा चायं वैश्विकविपण्यां प्राप्यते। अपि च सी.टी.सी.-चायस्य निर्यातवृद्ध्यर्थं निर्यातकेभ्यः सर्वकारेण प्रोत्साहनधनम् प्रदास्यते।
Hindusthan Samachar / Divya Ranjan