Enter your Email Address to subscribe to our newsletters

धर्मशाला, 17 जुलाईमासः (हि.स.)।विकसितभारतस्य सङ्कल्पं साकारयन् प्रधानमन्त्री नरेन्द्रमोदी अद्य आभासीयमाध्यमेन देशस्य पञ्चसप्ततिः (७५) पुनर्विकसितानाम् अमृतरेलस्थानकानां भव्योद्घाटनम् अकरोत्। अस्मिन् ऐतिहासिके अवसरे हिमाचलप्रदेशस्य अम्ब-अन्दौरारेलस्थानकमपि नूतनां परिचितिं प्राप्तवान्। एतस्याः उपलब्धेः विषये शुक्रवासरे प्रकाशिते पत्रकारवक्तव्ये हिमाचलप्रदेशभाजपामाध्यमसहप्रभारी अधिवक्ता विश्वचक्षुः अवदत् यत् मोदीसर्वकारेण रेलसेवा केवलं यात्रायाः साधनरूपेण न स्थापिता, अपितु विकासस्य प्रेरकशक्तिरूपेण विकसिताऽस्ति। अम्ब-अन्दौरामृतरेलस्थानकस्य उद्घाटनं हिमाचलप्रदेशस्य गौरवस्य विषयः अस्ति।
सः अवदत् यत् अम्ब-अन्दौरारेलस्थानकं सम्प्रति आधुनिकसुविधाभिः सुसज्जितं भूत्वा ऊना-हमीरपुरक्षेत्रस्य प्रमुखप्रवेशद्वारं भविष्यति। अत्र यात्रिकाणां कृते विश्वस्तरीयप्रतीक्षागृहम्, दिव्याङ्गानुकूलसुविधाः, स्वच्छपेयजलव्यवस्था, भोजनकेन्द्रम्, सौरऊर्जाव्यवस्था तथा अत्याधुनिकयात्रिसूचनाप्रणाली स्थापिताः सन्ति।
अधिवक्ता विश्वचक्षुः उक्तवान् यत् पूर्वं रेलस्थानकानि केवलं यात्रामञ्चानि आसन्, किन्तु अधुना मोदीसर्वकारेण तानि नगराणां नूतनपरिचयस्य प्रतीकानि कृतानि। एकस्मिन्नेव दिने पञ्चसप्ततिः अमृतरेलस्थानकानामारम्भेन प्रधानमन्त्रिणा एतत् प्रतिपादितं यत् आधारभूतसंरचनैव विकसितभारतस्य मेरुदण्डः अस्ति।
सः पुनरवदत् यत् हिमाचलप्रदेशसदृशे पर्वतीयराज्ये रेलसम्पर्कस्य विस्तारः पर्यटनेन, रोजगारसृजनेन, स्थानीयवाणिज्येन च प्रत्यक्षतया सम्बद्धः अस्ति। अम्ब-अन्दौरारेलस्थानकस्य पुनर्विकासेन सम्पूर्णप्रदेशस्य आर्थिकगतिविधिषु नवबलस्य सञ्चारः भविष्यति।
भाजपामाध्यमसहप्रभारी हिमाचलप्रदेशवासिनां पक्षतः प्रधानमन्त्री नरेन्द्रमोदिनः प्रति कृतज्ञतां व्यक्तवान् तथा उक्तवान् यत् द्वियन्त्रसर्वकारस्य शासनकाले हिमाचलप्रदेशे विकासस्य गतिः निरन्तरं तीव्रतया वर्धते।
Hindusthan Samachar / Dheeraj Maithani