अमृत भारत स्थानकं निर्मीयते आधुनिक विकासस्य प्रवेशद्वारम् : राज्यपाल पटेलः
- प्रधानमंत्रिणा अमृत भारत स्टेशन योजनान्तर्गते पुनर्विकसित सांची रेलवेस्थानकस्य कृतम् आभाषिकं लोकार्पणम् भोपालम्, 17 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य राज्यपालः मङ्गुभाईपटेलः अवदत् यत् ‘अमृतभारतरेलस्थानकयोजना’ भारतीयरेलव्यवस्थायाः आधारभूतसंरचना
पुनर्विकसित सांची रेलवे स्टेशन के शुभारंभ कार्यक्रम को संबोधित करते हुए राज्यपाल


- प्रधानमंत्रिणा अमृत भारत स्टेशन योजनान्तर्गते पुनर्विकसित सांची रेलवेस्थानकस्य कृतम् आभाषिकं लोकार्पणम्

भोपालम्, 17 जुलाईमासः (हि.स.)।

मध्यप्रदेशस्य राज्यपालः मङ्गुभाईपटेलः अवदत् यत् ‘अमृतभारतरेलस्थानकयोजना’ भारतीयरेलव्यवस्थायाः आधारभूतसंरचनाया आधुनिकीकरणदिशि महत्त्वपूर्णा पहल अस्ति। एषा योजना केवलम् अवसंरचनानिर्माणपर्यन्तं सीमिता नास्ति, अपितु रेलस्थानकान् सांस्कृतिकदृष्ट्या समृद्धान्, प्रौद्योगिकीदृष्ट्या उन्नतान् तथा भविष्यस्य आवश्यकतानुरूपान् विकसितुं दूरदर्शिनः प्रयासस्य प्रतिरूपम् अस्ति।

राज्यपालः शुक्रवासरे ‘अमृतभारतरेलस्थानकयोजना’ अन्तर्गतं पुनर्विकसितानां रेलस्थानकानां आभासीयलोकार्पणसम्बद्धे साँचीनगरे आयोजिते स्थानीयकार्यक्रमे मुख्यातिथिरूपेण सम्बोधयन् उक्तवान् यत् अमृतभारतयोजनायाः अन्तर्गतं रेलस्थानकानि आधुनिकानि, स्वच्छानि, यात्रिकहितकराणि तथा सांस्कृतिकपरिचययुक्तानि रूपेण विकसितानि भवन्ति। पुनर्विकसितेषु रेलस्थानकेषु नवीनप्रौद्योगिकी, उत्तमा यातायातव्यवस्था, सुगमप्रवेशः, स्वच्छता तथा यात्रिकसुविधानां विशेषव्यवस्था कृता अस्ति।

प्रधानमन्त्री नरेन्द्रमोदिना हरियाणाराज्यस्य जीन्दनगरे आयोजिते कार्यक्रमे ‘अमृतभारतरेलस्थानकयोजना’ अन्तर्गतं पुनर्विकसितानां रेलस्थानकानां आभासीयलोकार्पणस्य प्रसङ्गे मध्यप्रदेशस्य रायसेनजनपदस्थितस्य साँचीरेलस्थानकस्यापि शुभारम्भः कृतः।

राज्यपालः मङ्गुभाईपटेलः अवदत् यत् साँचीरेलस्थानकस्य पुनर्विकासे विश्वप्रसिद्धस्य बौद्धस्तूपस्य सह क्षेत्रस्य ऐतिहासिक-सांस्कृतिक-स्थापत्यसम्पदः आकर्षकरूपेण प्रदर्शिता, एतत् अत्यन्तं प्रशंसनीयम्। सः उक्तवान् यत् अमृतभारतरेलस्थानकयोजनायाः अन्तर्गतं साँचीरेलस्थानकं आगामिनां चत्वारिंशत्–पञ्चाशद्वर्षाणाम् आवश्यकतानां दृष्ट्या विकसितम्। अत्र विशालप्रतीक्षालयः, उन्नतपरिभ्रमणक्षेत्रम्, आधुनिकयानसूचनाप्रणाली, कोचमार्गदर्शनव्यवस्था, दिव्याङ्गानुकूलसुविधाः तथा विस्तीर्णः पदातिसेतुः इत्यादयः उपबन्धाः उपलब्धाः सन्ति।

राज्यपालः अवदत् यत् एते आधुनिकरेलस्थानकाः विकसितभारतस्य आत्मविश्वासस्य, प्रगतेः तथा नूतनसम्भावनानां प्रतीकानि भवन्ति। कार्यक्रमे तेन साँचीरेलस्थानकस्य लोकार्पणपट्टिकायाः अनावरणं कृतम् तथा सांस्कृतिककार्यक्रमं प्रस्तुतवन्तः विद्यार्थिनः प्रमाणपत्रैः ट्रॉफीभिश्च सम्मान्य प्रोत्साहिताः।

केन्द्रीयमहिला-बालविकासराज्यमन्त्री (स्वतन्त्रप्रभारः) सावित्रीठाकुरः अवदत् यत् साँची विश्वधरोहररूपेण प्रसिद्धा अस्ति। अमृतभारतरेलस्थानकयोजनायाः अन्तर्गतं पुनर्विकासेन अत्र रेलयानानां आवागमनं पर्यटनविकासश्च अधिकं प्रवर्धिष्यते।

क्षेत्रीयविधायकः डॉ. प्रभुरामचौधरी उक्तवान् यत् साँचीरेलस्थानकं नगरवासिनां गौरवस्य विषयः अस्ति। तेन उक्तं यत् एतत् रेलस्थानकं क्षेत्रस्य समग्रविकासे पर्यटनवृद्धौ च महत्त्वपूर्णं योगदानं दास्यति तथा स्थानीयार्थव्यवस्थायै नूतनगतिं प्रदास्यति।

अस्मिन् कार्यक्रमे विधायकः सुरेन्द्रपटवा, जिलापञ्चायताध्यक्षः यशवन्तमीणा, सङ्ग्राहकः अरुणकुमारविश्वकर्मा, पुलिस-अधीक्षकः आशुतोषगुप्तः, अन्ये जनप्रतिनिधयः, अधिकारिणः कर्मचारिऐणश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani