बुंदेलखंडे जलस्य अभावे निर्धनतामसहत, अधुना केन-बेतवा नद्याः योजनेन वयं निर्मास्यामः समृद्धम् : मुख्यमंत्री डॉ. यादवः
- मुख्यमंत्री टीकमगढ़ जनपदाय 189 कोटिरुप्यकाणां विकास कार्याणां कृतं लोकार्पणम् एवं भूमि-पूजनं च भोपालम्, 17 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् बुन्देलखण्डप्रदेशस्य कृषकाः जलाभावात् दारिद्र्यं विविधाः कठिनत
टीकमगढ़ जिले में विकास कार्यों का किया लोकार्पण एवं भूमि-पूजन करते हुए मुख्यमंत्री


- मुख्यमंत्री टीकमगढ़ जनपदाय 189 कोटिरुप्यकाणां विकास कार्याणां कृतं लोकार्पणम् एवं भूमि-पूजनं च

भोपालम्, 17 जुलाईमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् बुन्देलखण्डप्रदेशस्य कृषकाः जलाभावात् दारिद्र्यं विविधाः कठिनताश्च अनुभूतवन्तः। तैः रोजगाराभावस्य क्लेशोऽपि दीर्घकालं सोढः। अधुना तु केन–बेत्वानद्योर्योगपरियोजनया बुन्देलखण्डस्य समृद्ध्यर्थं राज्यसर्वकारः दृढप्रयत्नान् करोति।

मुख्यमन्त्री डॉ. यादवः शुक्रवासरे टीकमगढ़जनपदस्य खरगापुरे आयोजिते विकासकार्याणां लोकार्पण-शिलान्याससमारोहे सम्बोधनं कुर्वन् उक्तवान् यत् बुन्देलखण्डः अधुना परिवर्तनस्य मार्गे अग्रे गच्छति। राज्यसर्वकारः अस्य क्षेत्रस्य समग्रविकासाय निरन्तरं कार्यरतः अस्ति। बुन्देलखण्डः नूतननिवेशकेन्द्ररूपेण उदेति। अत्र शिक्षा, स्वास्थ्यं, क्रीडा तथा आधारभूतसुविधानां विकासकार्याणि क्षेत्रस्य उन्नतिं नूतनगत्या प्रेरयन्ति।

सः अवदत् यत् केन–बेत्वाराष्ट्रीयनदीसंयोजनपरियोजनायाः सम्पन्नतायां सति एषः प्रदेशः कृषिक्षेत्रे पञ्जाबहरियाणाराज्ययोः अपि अग्रे भविष्यति। अस्याः विशालपरियोजनायाः फलस्वरूपं टीकमगढ़जनपदस्य सहस्रशः हेक्टेयरपरिमिता कृषिभूमिः सिंचिता भविष्यति, येन कृषकानां क्षेत्रेषु पर्याप्तं जलं प्राप्स्यति तथा तेषाम् आयः ऐतिहासिकरूपेण वर्धिष्यते।

कार्यक्रमे मुख्यमन्त्री डॉ. मोहनयादवः टीकमगढ़जनपदाय एकोननवतिशतकोटिरूप्यकाधिकमूल्यस्य द्विसप्ततिः (७२) विकासकार्याणि समर्पितवान्। तेषु १०२.४५ कोटिरूप्यकमूल्यानां त्रयस्त्रिंशत् (३३) कार्याणां लोकार्पणं तथा ८६.६६ कोटिरूप्यकमूल्यानां नवत्रिंशत् (३९) कार्याणां भूमिपूजनं समाविष्टम्।

अस्मिन्नवसरे सः महत्त्वपूर्णां घोषणां कृत्वा उक्तवान् यत् टीकमगढ़े सर्वसुविधासम्पन्नः भव्यः चिकित्सामहाविद्यालयः निर्मास्यते, तस्य भूमिपूजनमपि शीघ्रमेव भविष्यति। कार्यक्रमे विविधशासकीययोजनानां पात्रहितग्राहिभ्यः हितलाभाः अपि वितरिताः।

मुख्यमन्त्री अवदत् यत् अद्य टीकमगढ़जनपदः अमृतभारतरेलस्थानकस्य सुविधां प्राप्तवान्। तत्सह जतारा तथा बड़ागांवधसानस्थयोः सर्वसुविधायुक्तयोः सांदीपनिविद्यालयभवनयोः तथा षोडशविद्यालयेषु विविधनिर्माणकार्याणाम् उपहारः अपि प्रदत्तः। युवजनानां क्रीडकानां च कृते हॉकी-क्रीडायाः कृत्रिम-एस्ट्रोटर्फ-क्रीडाङ्गणस्य तथा बास्केटबॉल-क्रीडाङ्गणस्य लोकार्पणमपि सम्पन्नम्। खरगापुरे चत्वारिंशत्कोटिरूप्यकैः निर्मीयमाणस्य नूतनस्य सांदीपनिविद्यालयभवनस्य भूमिपूजनमपि अभवत्।

सः उक्तवान् यत् वर्तमानकालस्य आवश्यकतानुसारं सांदीपनिविद्यालयेषु बालकेभ्यः संस्कारैः सह गुणवत्तायुक्ता शिक्षा प्रदीयते। एते विद्यालयाः भगवान् श्रीकृष्णस्य सुदाम्नश्च अमरमैत्र्याः प्रतीकरूपेण प्रतिष्ठिताः सन्ति। भावियुवसंततेः अपेक्षानुरूपाणि आधुनिकविद्यालयानि अधुना निर्मीयन्ते।

मुख्यमन्त्री अवदत् यत् वर्षे २००२–०३ पर्यन्तं प्रदेशे सिंचितभूमेः परिमाणं केवलं सप्तलक्षपञ्चाशत्सहस्रहेक्टेयरमात्रम् आसीत्। अधुना राज्यसर्वकारस्य प्रयासैः तत् पञ्चषष्टिलक्षहेक्टेयरपर्यन्तं वर्धितम्। एककोटिहेक्टेयरभूमेः सिंचनलक्ष्यं साधयितुं सरकारः अग्रे प्रसरति।

सः पुनरुक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे मध्यप्रदेशः विवाह-विवाहविच्छेद-वसीयत्सम्बद्धेषु विषयेषु समाननागरिकसंहितायाः कार्यान्वयनदिशि अग्रे गच्छति। राज्यसर्वकारः सर्वदेवस्थानानि भव्यरूपेण विकसितुं प्रयतते तथा सर्वधर्मसमुदायानां जनानां कल्याणाय समानभावेन कार्यं करोति। ‘लाड़लीबहना’ योजनायाः अन्तर्गतं यथा रानी नाम्नी महिलायै प्रतिमासं १५०० रूप्यकाणि प्रदीयन्ते, तथैव रुखसानायै अपि समानलाभः प्रदीयते।

सः अवदत् यत् कृषककल्याणवर्षे राज्यसर्वकारः कृषकसमृद्धये सर्वान् सम्भवान् प्रयत्नान् करोति। दुग्धोत्पादनवृद्ध्यर्थं डॉ. भीमराव-अम्बेडकर-कामधेनुयोजनया तथा अन्याभिः योजनाभिः पशुपालकेभ्यः अनुदानं साहाय्यं च प्रदीयते। गोशालास्थापनाय प्रतिगौमातरं चत्वारिंशद्रूप्यकाणाम् आर्थिकसहायता अपि प्रदीयते।

सः अवदत् यत् राष्ट्रियदुग्धविकासमण्डलस्य माध्यमेन प्रदेशस्य दुग्धोत्पादकानां दुग्धस्य समुचितमूल्यं सुनिश्चितं भवति। मत्स्यजीविनां समृद्ध्यर्थं राज्यसर्वकारः मत्स्योत्पादनस्यापि विशेषं प्रोत्साहनं करोति।

अस्मिन् कार्यक्रमे पूर्वमन्त्री विधायकश्च हरिशङ्करखटीकः अपि सम्बोधितवान्। कार्यक्रमे पिछडावर्ग-अल्पसंख्यककल्याणराज्यमन्त्री (स्वतन्त्रप्रभारः) तथा टीकमगढ़जनपदस्य प्रभारीमन्त्री कृष्णागौर, वनपर्यावरणराज्यमन्त्री दिलीपअहिरवारः, अन्ये जनप्रतिनिधयः तथा बहुसंख्यकाः स्थानीयजनाः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani