प्राकृतिककृषेः कृष्युत्पादानां मूल्य संवर्धनेन कृषकाः वर्धेरन् स्वीयम् आयम् : मुख्यमंत्री डॉ. यादवः
- मुख्यमंत्री बलराम कृषि महोत्सवे वर्चुअल माध्यमेन कृषकान् संबोधितवान् भोपालम्, 17 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् आत्मनिर्भरसमृद्धा च कृषिरेव विकसितमध्यप्रदेशस्य दृढाधारशिला अस्ति। कृषकाः उन्नतकृषिप्रौ
- मुख्यमंत्री ने बलराम कृषि महोत्सव में वर्चुअल माध्यम से किसानों को किया संबोधित


- मुख्यमंत्री बलराम कृषि महोत्सवे वर्चुअल माध्यमेन कृषकान् संबोधितवान्

भोपालम्, 17 जुलाईमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् आत्मनिर्भरसमृद्धा च कृषिरेव विकसितमध्यप्रदेशस्य दृढाधारशिला अस्ति। कृषकाः उन्नतकृषिप्रौद्योगिकीम् अपनयन्तु, प्राकृतिककृषेः प्रोत्साहनं कुर्वन्तु, कृष्युत्पादानां मूल्यसंवर्धनं च कृत्वा स्वीयाम् आयं वर्धयन्तु।

मुख्यमन्त्री डॉ. मोहनयादवः शुक्रवासरे कृषककल्याणवर्ष–२०२६ अन्तर्गतं धारजनपदे आयोजितं ‘बलरामकृषिमहोत्सवम्’ आभासीयमाध्यमेन सम्बोधयन् कृषकेभ्यः महोत्सवस्य शुभकामनाः प्रदत्तवान्। सः आधुनिककृषितन्त्रज्ञानस्य ग्रहणाय, कृषिक्षेत्रे नवाचारस्य संवर्धनाय तथा शासकीययोजनानाम् अधिकतमलाभग्रहणाय कृषकान् प्रेरितवान्।

मुख्यमन्त्री अवदत् यत् प्रदेशे समाननागरिकसंहितायाः (यूसीसी) कार्यान्वयनदिशि व्यापकः जनसंवादः सम्पन्नः। विभिन्नराजनीतिदलानां तथा विविधधर्मसमुदायानां प्रतिनिधिभिः सह विचारविमर्शानन्तरम् आगामिनि विधानसभायाः वर्षाकालीनसत्रे आवश्यकविधायिकाप्रक्रियां सम्पन्न्य अस्यां दिशि महत्त्वपूर्णं पदं स्थापयिष्यते। सर्वेषां नागरिकाणां कृते समानः नियमः समानाधिकाराश्च लोकतान्त्रिकव्यवस्थां अधिकं सुदृढां करिष्यन्ति।

‘बलरामकृषिमहोत्सवस्य’ प्रमुखोद्देश्यः कृषकेभ्यः आधुनिककृषिप्रौद्योगिकी, प्राकृतिककृषिः, मूल्यसंवर्धनम्, कृषियन्त्रीकरणम् तथा कृषि-सम्बद्धविभागानां योजनानां विषये सूचनां प्रदातुम् आसीत्। कार्यक्रमे कृषिविषयकाः देशभक्तिप्रेरिताश्च सांस्कृतिककार्यक्रमाः प्रस्तुताः। नशामुक्त्यभियानस्य अन्तर्गतं उपस्थितेभ्यः कृषकेभ्यः नागरिकेभ्यश्च नशामुक्तसमाजनिर्माणस्य सन्देशः प्रदत्तः। प्राकृतिककृषेः, कृष्युत्पादमूल्यसंवर्धनस्य तथा प्रधानमन्त्री-कुसुम-बी-योजनायाः अन्तर्गतं सौरऊर्जाचालितसिञ्चनपम्पस्थापनस्य माध्यमेन आत्मनिर्भरकृषेः दिशि अग्रे सरितुं कृषकाः प्रेरिताः।

महोत्सवे कृषिविभागेन, कृषिविज्ञानकेन्द्रेण, प्राकृतिककृषिविभागेन, बलरामतालाबयोजनया, सूक्ष्मसिञ्चनविभागेन, जलसंरक्षणविभागेन, श्रीअन्न-प्रदर्शनेन, पशुपालनविभागेन, मत्स्यविभागेन, इफको, कृभको तथा अन्याभिः कृषिसहयोगिसंस्थाभिः प्रदर्शनीः आयोजिताः। कृषकाः तासां प्रदर्शनीनां अवलोकनं कृत्वा विविधयोजनानां प्रौद्योगिकीनां च विषये जानकारीम् अलभन्त।

**अस्मिन् ‘बलरामकृषिमहोत्सवे’ जनपदस्य विभिन्नभागेभ्यः प्रायः द्विसहस्राधिकाः कृषकाः सहभागी अभवन्। तदतिरिक्तं कृषकउत्पादकसङ्घानां (एफपीओ), कृषकसङ्गठनानां प्रतिनिधयः, कृषिआदानविक्रेतारः तथा कृषि-सम्बद्धविभागानाम् अधिकारिणः कर्मचारीणश्च उल्लेखनीयरूपेण उपस्थिताः आसन्। एषः महोत्सवः कृषकेभ्यः कृषिनवाचाराणां, वैज्ञानिकप्रौद्योगिकीनां तथा शासकीययोजनानां सम्यग्ज्ञानप्राप्तये प्रभावीमञ्चः अभवत्। अस्मिन्नवसरे सङ्ग्राहकः राजीवरञ्जनमीना तथा पुलिस-अधीक्षकः सचिनशर्मा अपि उपस्थितौ आस्ताम्।

---------------

Hindusthan Samachar / Dheeraj Maithani