Enter your Email Address to subscribe to our newsletters


–सप्तदशवर्षीय-कठिन-भूगर्भीय-समस्यान्तरं ११.९५२ कि.मी. दीर्घ: सुरङ्ग: अन्तिमचरणे; नर्मदाजलं गुरुत्वाकर्षणेन विंध्यस्य क्षेत्राणि प्राप्स्यति।
भोपालम्, १७ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य सिञ्चन-इतिहासे सर्वाधिक-महत्त्वाकाङ्क्षिषु परियोजनासु गण्यमाना स्लीमनाबाद-जलसुरङ्ग: अधुना पूर्णतायाः अन्तिमचरणं प्राप्तवती। मुख्यमन्त्री डॉ. मोहनयादवः अद्य शुक्रवासरे कटनी-जनपदे देशस्य दीर्घतमं तथा प्राविधिकदृष्ट्या अत्यन्त-जटिलं जलसुरङ्गं निरीक्षिष्यति।
जनसम्पर्क-अधिकारी बिन्दु-सुनील इत्यनया उक्तं यत् प्रायः द्वादश-किलोमीटर-दीर्घा एषा सुरङ्गा विंध्य-पर्वतमालायाः अन्तः नर्मदाजलं केवलं गुरुत्वाकर्षण-शक्तेः आधारेण सोन-नद्याः कछार-प्रदेशं नयति। अस्याः परियोजनायाः सम्पन्नतया जबलपुर, कटनी, मैहर, सतना, रीवा तथा पन्ना-जनपदानां प्रायः १४५० ग्रामेषु स्थितायाः २.४५-लक्ष-हेक्टेयर-भूमेः स्थायिनी सिञ्चन-सुविधा भविष्यति, येन विंध्य-महाकौशल-प्रदेशयोः कृष्यर्थव्यवस्थायां ऐतिहासिकः परिवर्तनमार्गः प्रशस्तो भविष्यति।
तया उक्तं यत् विंध्यस्य चिरकालात् तृषितां भूमिं सिञ्चयितुं कटनी-जनपदे नर्मदा-घाटी-विकास-प्राधिकरणेन निर्मीयमाणा देशस्य दीर्घतमा तथा जटिलतम: जलसुरङ्ग: स्लीमनाबाद-सुरङ्ग: अधुना पूर्णतामुपगच्छति। अस्याः स्थल-निरीक्षणार्थं मुख्यमन्त्री डॉ. मोहनयादवः स्लीमनाबादम् आगच्छति।
एषा जलसुरङ्गा केवलं शिलाभिः कङ्क्रीट-माध्यमेन च निर्मिता यान्त्रिकी संरचना नास्ति, अपितु शताब्दीप्राचीनस्य पौराणिक-विरहस्य समापनं कुर्वती पवित्रा सेतुरूपा परियोजना अस्ति। लोकविश्वासानुसारम् अमरकण्टकस्य मैकल-पर्वतात् निर्गता माता नर्मदा तथा सोनभद्रः विपरीत-दिशयोः प्रवहन्त्यौ परस्परात् सदा वियुक्ते अभवताम्। मुख्यमन्त्री डॉ. मोहनयादवेन अस्य प्राचीन-विरहस्य निवारणार्थं तथा विंध्यस्य शुष्क-क्षेत्राणां जलसिञ्चनार्थम् एषा परियोजना स्वस्य स्वप्न-परियोजनारूपेण स्वीकृता। अधुना तस्य भागीरथ-प्रयत्नैः नर्मदायाः अमृतधारा सोन-नद्याः कछारं प्रति प्रवाहितुं सज्जा वर्तते।
अस्याः महापरियोजनायाः सफलतायाः श्रेयः मुख्यमन्त्रिणः डॉ. मोहनयादवस्य दूरदर्शिनः नेतृत्वस्य तथा अद्वितीय-प्रशासनिक-निर्णयान् प्रति गच्छति। पदग्रहणानन्तरं सः अस्याः परियोजनायाः महत्त्वं ज्ञात्वा निरन्तर-समीक्षाभिः, त्वरित-निर्णयैः तथा आवश्यक-वित्तीय-सहयोगेन अस्य दुष्करकार्यस्य गतिं तीव्रतां नीतवान्। अधुना ११.९५२ किलोमीटर-दीर्घस्य अस्य महा-सुरङ्गस्य कार्यं प्रायः सम्पन्नम् अस्ति, केवलम् अन्तिमः एकः मीटर-दीर्घः ‘ब्रेक-थ्रू’ चरणः अवशिष्टः अस्ति।
असम्भवं सम्भवं कृतम्
प्राविधिक-दृष्ट्या विंध्यस्य ४०-मीटर-उन्नतां पर्वत-रेखां भित्त्वा सुरङ्गं निर्मातुं विश्वस्य अभियन्तृणां कृते महत् आव्हानम् आसीत्। भूमेः अधः प्रायः ३०-मीटर-गम्भीरतायां सञ्चालिते अस्मिन् अभियाने मार्बल-शिलाः, लाइमस्टोन-शिलाः, डोलोमाइट-शिलाः, चूर्णित-चूनेन निर्मिताः विशालाः भूमिगत-गुहाश्च सर्वदा विघ्नान् अकुर्वन्। सुरङ्गान्तः प्रतिनिमेषं २५ सहस्र-लीटर-परिमितस्य जलस्य प्रवाहः तथा आकस्मिक-भूमिधंसनम् इत्यादयः विकट-परिस्थितयः अपि अभवन्। पूर्वं प्रयुक्ता अमेरिकी-यन्त्रणा भग्ना अभवत्। तदा मुख्यमन्त्रिणः दृढसंकल्पेन त्वरितनिर्णयं स्वीकृत्य अत्याधुनिकी जर्मनी-निर्मिता हेरेनकनेक्ट-यन्त्रणा तथा विशेषा ग्राउटिंग-प्रविधिः युद्धस्तरेण प्रयुक्ता।
विंध्य-महाकौशलयोः पञ्च-जनपदेषु समृद्धिः
एष: विशाल-जलसुरङ्ग: देशस्य प्रथमा अभियान्त्रिकी-सिद्धिः भविष्यति, यत्र १०.१४-मीटर-व्यासयुक्तेन सुरङ्गेन नर्मदाजलं विद्युत् अथवा महत्-पम्प-यन्त्र-विना केवलं प्राकृतिक-गुरुत्वाकर्षण-प्रवाहेन वहिष्यति। बरगी-दक्षिण-तट-प्रधान-नहर्या माध्यमेन जबलपुर, कटनी, सतना, मैहर, रीवा तथा पन्ना-जनपदानां प्रायः १४५० ग्रामाणां २.४५-लक्ष-हेक्टेयर-भूमिः स्थायिरूपेण सिञ्चिता भविष्यति। सुरङ्गायाः कार्यारम्भे कटनी-जनपदे २१,८२३ हेक्टेयर, मैहर-जिले ५४,२२७ हेक्टेयर, सतना-जनपदे १,०४,९७० हेक्टेयर, रीवाजनपदे ३,०८४ हेक्टेयर तथा पन्नाजनपदे ४४८ हेक्टेयर भूमेः सिञ्चन-सुविधा सुनिश्चिता भविष्यति।
समयबद्ध-कार्ययोजना
मुख्यमन्त्रिणः डॉ. मोहनयादवस्य मार्गदर्शने सुरङ्गात् अनन्तरवर्ती अष्ट-समूहानां कार्याणि अपि तीव्रगत्या प्रचलन्ति। अस्याः सतर्क-पर्यवेक्षणस्य फलस्वरूपं मार्च २०२६ पर्यन्तं ४४,१६० हेक्टेयर-भूमेः सिञ्चन-क्षमता कार्यरूपेण परिणता, कृषकाः तस्य लाभमपि प्राप्नुवन्ति। राज्यसर्वकारेण अग्रिम-कार्ययोजना अपि सिद्धा कृता, यस्यानुसारं दिसम्बर २०२६ पर्यन्तं ८७,४३३ हेक्टेयर तथा दिसम्बर २०२७ पर्यन्तं १,५४,६९३ हेक्टेयर-क्षेत्रे पूर्ण-सिञ्चन-व्यवस्था सुनिश्चिता भविष्यति।
मुख्यमन्त्रिणः डॉ. मोहनयादवस्य स्लीमनाबाद-सुरङ्ग-निरीक्षणम् विंध्यप्रदेशस्य शाश्वत-समृद्धेः तथा कृषक-कल्याणस्य ऐतिहासिक-क्षणरूपेण परिगण्यते।
Hindusthan Samachar / Divya Ranjan