मध्यप्रदेशे 'अन्ताराष्ट्रियनिर्वाचनागन्तुककार्यक्रमः' इत्यस्य विषये अद्य भविष्यति अन्ताराष्ट्रियसम्मेलनम्
भोपालनगरम्, १७ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपालनगरे स्थिते निर्वाचनसदने अद्य शुक्रवासरे ''अन्ताराष्ट्रियनिर्वाचनागन्तुककार्यक्रमः'' इत्यस्य विषये अन्ताराष्ट्रियसम्मेलनं भविष्यति। अस्य सम्मेलनस्य आयोजनं भारतीय-अन्ताराष्ट्रिय-लोकतन
निर्वाचन सदन मध्य प्रदेश


भोपालनगरम्, १७ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपालनगरे स्थिते निर्वाचनसदने अद्य शुक्रवासरे 'अन्ताराष्ट्रियनिर्वाचनागन्तुककार्यक्रमः' इत्यस्य विषये अन्ताराष्ट्रियसम्मेलनं भविष्यति। अस्य सम्मेलनस्य आयोजनं भारतीय-अन्ताराष्ट्रिय-लोकतन्त्र-निर्वाचन-प्रबन्धन-संस्थानम् तथा भारतीय-प्रबन्धन-संस्थानम्, इन्दौरनगरम् इत्येतयोः सहयोगेन क्रियते।जनसम्पर्काधिकारी आर. आर. पटेलः अवदत् यत् अस्मिन् सम्मेलने अनेकदेशानां निर्वाचन-प्रबन्धनसम्बद्धाः प्रतिनिधयः, विशेषज्ञाः, अधिकारिणश्च अन्तर्जाल-माध्यमेन सहभागं करिष्यन्ति। कार्यक्रमे लोकतान्त्रिकप्रक्रियाणां सुदृढीकरणम्, निर्वाचन-प्रबन्धने नवाचाराः, मतदातृ-सहभागः, प्रौद्योगिक्याः प्रभावी-उपयोगः तथा निर्वाचनसम्बद्धाः वैश्विकाः श्रेष्ठकार्यपद्धतयः इत्यादिषु विषयेषु विचारविमर्शः भविष्यति।

तेन उक्तं यत् अस्य सम्मेलनस्य उद्देश्यं भारतस्य निर्वाचनव्यवस्थायाः तथा लोकतान्त्रिकपरम्पराणां विषये अन्ताराष्ट्रियप्रतिनिधीन् परिचाययितुम्, निर्वाचन-प्रबन्धनक्षेत्रे ज्ञानानुभवयोः आदानप्रदानं कर्तुम्, वैश्विकसहयोगं च प्रोत्साहयितुम् अस्ति। एतत् सम्मेलनं निर्वाचन-प्रबन्धनक्षेत्रे अन्ताराष्ट्रिय-सहयोगाय नूतनां दिशां प्रदास्यति तथा लोकतान्त्रिकसंस्थानां सुदृढीकरणाय अपि महत्त्वपूर्णः प्रयत्नः भविष्यति।

Hindusthan Samachar / Divya Ranjan