प्रधानमंत्री अद्य अमृत भारतस्थानकयोजनान्तर्गते पुनर्विकसित रेलवे स्थानकानां करिष्यति आभाषिकम् उद्घाटनम्
- भोपाल मंडलस्य सांची, विदिशा, अशोकनगरं एवं शिवपुरी समेत्य मध्यप्रदेशस्य 13 रेलवे स्थानकानां भविष्यति शुभारंभः भोपालम्, 17 जुलाईमासः (हि.स.)। अद्य भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अमृतभारतस्थानकयोजनायाः अन्तर्गतं पुनर्विकसितानां रेलस्थानकाना
पुनर्विकसित विदिशा रेलवे स्टेशनों


- भोपाल मंडलस्य सांची, विदिशा, अशोकनगरं एवं शिवपुरी समेत्य मध्यप्रदेशस्य 13 रेलवे स्थानकानां भविष्यति शुभारंभः

भोपालम्, 17 जुलाईमासः (हि.स.)।

अद्य भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अमृतभारतस्थानकयोजनायाः अन्तर्गतं पुनर्विकसितानां रेलस्थानकानां लोकार्पणं दूरदृश्यसम्मेलनमाध्यमेन करिष्यति। मध्यप्रदेशस्य त्रयोदश रेलस्थानकानि अपि अस्मिन् कार्यक्रमे समाविष्टानि सन्ति। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः टीकमगढ-रेलस्थानके आयोजिते कार्यक्रमे सहभागिता करिष्यति।

अमृतभारतस्थानकयोजनायाः अन्तर्गतं पुनर्विकसितेषु एतेषु रेलस्थानकेषु आधुनिकवास्तुशिल्पम्, उन्नतयात्रिसुविधाः, दिव्याङ्गजनानुकूलव्यवस्थाश्च समन्विताः सन्ति। पुनर्विकासे स्थानीयसंस्कृतेः, वास्तुशिल्पस्य च विशेषप्रतिबिम्बनं कृतम् अस्ति, येन स्थानकानि विशिष्टां सांस्कृतिकपरिचयं वहन्ति।

अद्य अपराह्णे प्रधानमन्त्री नरेन्द्रमोदी देशस्य विंशति-राज्येषु स्थितानां पञ्चसप्ततिः पुनर्निर्मितरेलस्थानकानां लोकार्पणं करिष्यति। एतानि स्थानकानि प्रायः १५७० कोटिरूप्यकव्ययेन विकसितानि सन्ति तथा आधुनिकयात्रिसुविधाभिः सुसज्जितानि कृतानि सन्ति।

पुनर्विकासस्य अन्तर्गतं विस्तृतच्छदव्यवस्था, आधुनिकोपवेशनव्यवस्था, डिजिटलयात्रिसूचनातन्त्रं, कोचस्थानप्रदर्शनफलकानि, उन्नतसार्वजनिकघोषणातन्त्रं, स्वच्छशौचालयाः, प्रतीक्षालयाः, शुद्धपेयजलव्यवस्था, सुव्यवस्थितवाहनस्थापनक्षेत्रं, उन्नतप्रकाशव्यवस्था च निर्मिताः। दिव्याङ्गजनानां सुगमगमनार्थं रैम्पाः, स्पर्शमार्गाः तथा अन्याः आवश्यकसुविधाः अपि विकसिताः। ऊर्जा-संरक्षणार्थम् एलईडी-दीपव्यवस्था अपि स्थापिता।

मुख्यमन्त्री डॉ. मोहनयादवः टीकमगढजनपदे प्रायः १८९ कोटिरूप्यकव्ययेन विविधविकासकार्याणां लोकार्पणं भूमिपूजनं च करिष्यति। तेषु सान्दीपनिविद्यालययोः लोकार्पणम्, नवीनसान्दीपनिविद्यालयस्य भूमिपूजनम्, अन्येषां जनहितकारीणां विकासकार्याणां शुभारम्भश्च अन्तर्भवति। कार्यक्रमे विभिन्नशासकीययोजनानां हितग्राहिभ्यः हितलाभवितरणमपि भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani