नारनौल-नगरे प्रधानमन्त्रिणा कृतं राजकीय-चिकित्सा-महाविद्यालयस्य लोकार्पणम्, स्वास्थ्य-सेवासु नूतना सुदृढता
— स्वास्थ्यमन्त्री आरतीसिंह-राव: उक्तवती— दक्षिण-हरियाणाप्रदेशस्य लक्षशः रोगिणः लाभं प्राप्स्यन्ति। नारनौलः, १७ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे आभासीय-माध्यमेन नारनौल-नगरस्य कोरियावास-स्थितस्य महर्षि-च्यवन-राजकीय-चिकित्सा-
कार्यक्रम में मौजूद स्वास्थ्य मंत्री आरती सिंह राव व अन्य।


— स्वास्थ्यमन्त्री आरतीसिंह-राव: उक्तवती— दक्षिण-हरियाणाप्रदेशस्य लक्षशः रोगिणः लाभं प्राप्स्यन्ति।

नारनौलः, १७ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे आभासीय-माध्यमेन नारनौल-नगरस्य कोरियावास-स्थितस्य महर्षि-च्यवन-राजकीय-चिकित्सा-महाविद्यालयस्य तथा राव-तुलाराम-चिकित्सालयस्य लोकार्पणम् अकरोत्। जीन्द-नगरस्य एकलव्य-क्रीडाङ्गणे आयोजिते राज्यस्तरीय-कार्यक्रमे मुख्यमन्त्री नायबसिंह-सैनी अपि उपस्थितः आसीत्। स्थानीय-स्तरे चिकित्सा-महाविद्यालय-परिसरे आयोजिते कार्यक्रमे हरियाणा-राज्यस्य स्वास्थ्यमन्त्री आरतीसिंह-राव: मुख्यातिथिरूपेण सहभागी अभवत्। महाविद्यालय-परिसरे विशालं एलईडी-पटलं स्थापितम्, येन माध्यमेन प्रधानमन्त्रिणः मुख्यमन्त्रिणश्च सम्बोधनयोः प्रत्यक्ष-प्रसारणं प्रदर्शितम्।

स्वास्थ्यमन्त्री आरतीसिंह-राव: उक्तवती यत् प्रायः ७६ एकर-परिमिते आधुनिक-चिकित्सा-महाविद्यालय-परिसरे प्रथमचरणे ६००-शय्या-क्षमतया सह अन्तःरोगी-सेवाः आरभ्यन्ते। तदनन्तरम् अत्याधुनिकाः आपत्कालीन-दुर्घटना-चिकित्सा-सेवाः अपि उपलब्धाः भविष्यन्ति। तया उक्तं यत् चिकित्सा-महाविद्यालयस्य पूर्णरूपेण सञ्चालनानन्तरं महेन्द्रगढ़, रेवाड़ी, चरखी-दादरी तथा समीपवर्ती-क्षेत्राणां रोगिणः गम्भीर-चिकित्सार्थं जयपुरं, रोहतकं वा देहलीं प्रति गन्तुं न विवशाः भविष्यन्ति। अनेन समयस्य धनस्य च उभयोरपि संरक्षणं भविष्यति तथा क्षेत्रवासिनः स्वजनपदे एव उत्तमाः स्वास्थ्य-सुविधाः प्राप्स्यन्ति।

आरतीसिंह-राव: उक्तवती यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः नेतृत्वे हरियाणा-राज्यं स्वास्थ्य-आधारभूत-संरचना-क्षेत्रयोः शीघ्रगत्या प्रगतिं करोति। तया जीन्द-सोनीपत-रेलमार्गे देशस्य प्रथमस्य हाइड्रोजन-ईन्धन-सञ्चालित-रेलयानस्य प्रारम्भः अपि ऐतिहासिकी उपलब्धिरिति कथितः। तया उक्तं यत् एष: प्रयत्न: प्रदूषण-न्यूनीकरणाय हरित-परिवहनस्य संवर्धनाय च महत्त्वपूर्णः पदक्षेपः अस्ति।

तया पुनरुक्तं यत् मार्गाणां सुदृढीकरणेन, रेलजालस्य आधुनिकीकरणेन, चिकित्सा-सुविधानां विस्तारेण च प्रदेशस्य विकासः नूतनां गतिं प्राप्स्यति। अस्मिन् कार्यक्रमे नारनौल-विधायकः ओमप्रकाश-यादवः, महेन्द्रगढ़-विधायकः कँवरसिंहः, चिकित्सा-महाविद्यालयस्य निदेशकः डॉ. बृजेन्द्रसिंहः, भाजपा-जनपदाध्यक्षः यतेन्द्र-रावः तथा अन्ये बहवः जनप्रतिनिधयः गणमान्य-नागरिकाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan