नारी शक्ति वंदन अधिनियमेन अर्दजनतायाः राजनीतौ सशक्तीभविष्यति सहभागिता - मुख्यमंत्री भजनलाल शर्मा
डेगाना/ जयपुरम्, 17 जुलाईमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः सङ्कल्पः चतसृषां प्रमुखवर्गाणां—महिलानां, युवानां, कृषकाणां, श्रमिकाणां च—सशक्तीकरणेन विकसितभारतनिर्माणे तेषां सक्रियभागीदारीं सुनिश्चितुं व
मुख्यमंत्री भजनलाल शर्मा


मुख्यमंत्री भजनलाल शर्मा


डेगाना/ जयपुरम्, 17 जुलाईमासः (हि.स.)।

मुख्यमन्त्री भजनलालशर्मा उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः सङ्कल्पः चतसृषां प्रमुखवर्गाणां—महिलानां, युवानां, कृषकाणां, श्रमिकाणां च—सशक्तीकरणेन विकसितभारतनिर्माणे तेषां सक्रियभागीदारीं सुनिश्चितुं वर्तते। तस्यैव सङ्कल्पस्य पूर्त्यर्थं महिलानां सामाजिकार्थिकराजनीतिकसशक्तीकरणाय अनेकाः महत्त्वपूर्णाः योजनाः सञ्चाल्यन्ते, याभिः महिलाः स्वपरिवारस्यापि समुन्नतौ महत्त्वपूर्णां भूमिकां निर्वहन्ति।

सः शुक्रवासरे डेगाना क्षेत्रस्य तिलानेशग्रामे आयोजितायां ग्रामविकासचौपालायां महिलाभिः सह संवादम् अकरोत्। अस्मिन् अवसरे सः विभिन्नयोजनाभिः तासां जीवने समागतपरिवर्तनविषये जानकारीम् अलभत तथा तासां सुझावानपि अशृणोत्। मुख्यमन्त्री महिलाः आहूतवान् यत् सर्वाः शासकीययोजनानां अधिकतमं लाभं गृह्णीयुः, अन्याः महिलाः अपि ताभिः सह सम्बद्धाः कुर्युः।

सः अवदत् यत् प्रधानमन्त्रीणः नेतृत्वे महिलासम्मानाय अनेकानि ऐतिहासिकानि पदानि स्वीकृतानि। ‘बेटी बचाओ बेटी पढ़ाओ’ अभियानेन कन्यारक्षणं शिक्षाप्रवर्धनं च प्रोत्साहितम्। ‘स्वच्छभारतमिशनस्य’ अन्तर्गतं गृहे गृहे शौचालयनिर्माणेन महिलानां सम्मानः गरिमा च सुरक्षितौ। ‘उज्ज्वलायोजनया’ कोटिशः महिलाभ्यः धूमरहितजीवनाय पाकगैससंयोजनानि प्रदत्तानि, येन तासां स्वास्थ्ये जीवनस्तरे च सुधारः अभवत्। ‘प्रधानमन्त्रीआवासयोजनायां’ महिलाभ्यः प्राधान्येन आवासाः प्रदीयन्ते।

पशुपालनदुग्धोत्पादने संलग्नानां महिलानां विषये सः अवदत् यत् राज्यसर्वकारः दुग्धोत्पादकेभ्यः प्रतिलीटरं पञ्चरूप्यकाणां अनुदानं ददाति। ‘राजीविका’ योजनया स्वसहायतासमूहैः सह महिलाः सम्बध्य स्वरोजगारस्य आत्मनिर्भरतायाश्च दिशि प्रेर्यन्ते। ‘लखपतिदिदीयोजनायाः’ अन्तर्गतं सार्धैकप्रतिशतव्याजदरेण सार्धलक्षरूप्यकपर्यन्तं ऋणं प्रदाय महिलानां उद्यमशीलता प्रोत्साह्यते।

मुख्यमन्त्री अवदत् यत् महिलानाम् आर्थिकसशक्तीकरणेन सह सामाजिकराजनीतिकसशक्तीकरणार्थमपि महत्त्वपूर्णाः निर्णयाः स्वीकृताः। ‘नारीशक्तिवन्दनाधिनियमस्य’ माध्यमेन विधानसभासु संसदि च महिलाभ्यः त्रयस्त्रिंशत्प्रतिशतारक्षणस्य मार्गः प्रशस्तः, येन शासनस्य योजनासु निर्णयप्रक्रियायां च तासां सहभागिता अधिकं दृढा भविष्यति। ‘मा वाउचर योजना’ इत्यस्याः माध्यमेन गर्भवतीमहिलाभ्यः सोनोग्राफीसेवा निःशुल्करूपेण प्रदीयते। आङ्गनवाडीकेन्द्रेषु लघुबालकानां पोषणार्थं नियमितरूपेण दुग्धमपि प्रदीयते।

सः पुनरवदत् यत् राज्यसर्वकारेण वरिष्ठनागरिकेभ्यः सामाजिकसुरक्षापेन्शनयोजनानां लाभः प्रत्यक्षं तेषां वित्तकोषेषु प्रेष्यते। श्रद्धायाः सम्मानार्थं वरिष्ठनागरिकतीर्थयात्रायोजनाः अपि सफलतया सञ्चाल्यन्ते।

अस्मिन्नवसरे जनस्वास्थ्याभियांत्रिकीमन्त्री कन्हैयालालचौधरी, महिला-बालविकासराज्यमन्त्री मञ्जूबाघमार, राज्यकृषकआयोगाध्यक्षः सी. आर. चौधरी, देवनारायणबोर्ड इयस्य अध्यक्षः ओमप्रकाशभडाना, विधायकौ अजयसिंहकिलकः, लक्ष्मणरामकलरू, रेवन्तरामडाङ्गा तथा अन्ये जनप्रतिनिधयः, बहुसंख्यकाः महिलाश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani