Enter your Email Address to subscribe to our newsletters

चंडीगढ़म्, 17 जुलाईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी हरियाणाप्रवासस्य समये राज्यसर्वकारस्य पारदर्शिनीं नियुक्तिव्यवस्थां, क्रीडकानां प्रदत्तं प्रोत्साहनं कृषकहिताय सञ्चाल्यमानानां योजनानां च प्रशंसामकरोत्। तेन उक्तं यत् हरियाणाराज्येन विना व्ययं, विना अनुशंसापत्रम् इत्याधारेण शासकीयनियुक्तयः प्रदाय नूतना परिचयः निर्मितः। प्रधानमन्त्री मोदी अवदत् यत् हरियाणायां कदाचित् कालः आसीत् यदा नियुक्तीनां मूल्यनिर्धारणं भवति स्म तथा क्षेत्रवादस्य प्रभुत्वमपि आसीत्, किन्तु भाजपासर्वकारेण सत्तां प्राप्त्वा एषा व्यवस्था परिवर्तिता। एतत् कार्यम् अत्यन्तं दुष्करम् आसीत्। अद्य हरियाणाराज्यस्य परिचयः पारदर्शिन्या पद्धत्या शासकीयनियुक्तीनां प्रदायकत्वेन स्थापितः अस्ति। एतत् गतद्वादशवर्षेषु सम्भवितम्।
प्रधानमन्त्रिणा हरियाणायाः क्रीडकानाम् उपलब्धीनां उल्लेखः कृतः। तेन उक्तं यत् अद्य हरियाणासर्वकारः क्रीडकानां सज्जीकरणात् आरभ्य उत्कृष्टप्रदर्शनपर्यन्तं सम्पूर्णं संरक्षणं प्रददाति। अभ्यासस्य कृते अपि तेषां साहाय्यं प्रदीयते। तेन उक्तं यत् आस्ट्रेलियादेशेन न्यूज़ीलैण्डदेशेन च सह क्रीडकानां आधुनिकप्रशिक्षणाय तथा क्रीडोपकरणोद्योगानां प्रोत्साहनाय वार्तालापः कृतः। अस्य प्रत्यक्षलाभः हरियाणाराज्याय भविष्यति। गतकेषु कालेषु क्रीडा रोजगारस्य व्यापारस्य च प्रमुखमाध्यमं जाता अस्ति। प्रधानमन्त्री अवदत् यत् वर्षे २०३० तमे भारते राष्ट्रकुलक्रीडानां आयोजनं भविष्यति। एतदतिरिक्तं वर्षे २०३६ तमे ओलम्पिकक्रीडानाम् आयोजनमपि भारते भवेदिति केन्द्रसर्वकारः प्रयत्नशीलः अस्ति। हरियाणाराज्येन अधुनैव २०३६ तमवर्षस्य सिद्धता प्रारब्धा अस्ति। एतत् सर्वकारस्य दूरदर्शितायाः परिणामः अस्ति। प्रधानमन्त्री आशां प्रकटितवान् यत् हरियाणायाः क्रीडकाः राष्ट्रकुलक्रीडासु ओलम्पिकक्रीडासु च स्वप्रतिभायाः उत्कृष्टं प्रदर्शनं करिष्यन्ति।
प्रधानमन्त्रिणा केन्द्रसर्वकारेण हरियाणासर्वकारेण च कृषकान् समृद्धान् कर्तुं प्रारब्धानां योजनानाम् उल्लेखः कृतः। तेन उक्तं यत् हरियाणा देशस्य प्रथमं राज्यं अस्ति यत्र चतुर्विंशतिः सस्यानि न्यूनतमसमर्थनमूल्येन क्रय्यन्ते। तेन उक्तं यत् केन्द्रसर्वकारेण प्रारब्धायाः प्रधानमन्त्रीकिसानसम्माननिधेः माध्यमेन हरियाणायाः कृषकाः अधुना यावत् अष्टसहस्रकोटिरूप्यकाणि प्राप्तवन्तः। तेषु केवलं जीन्दजनपदस्य कृषकैः षट्शतकोटिरूप्यकाणि प्राप्तानि। प्रधानमन्त्री कृषकहिताय प्रवर्तितानां योजनानां कृते नायबसिंहसर्वकारस्य प्रशंसामकरोत्। तेन उक्तं यत् अद्य हरियाणासर्वकारः प्रदेशस्य सर्वेषां वर्गाणां केवलं वर्तमानावश्यकतानां न, अपितु भविष्यावश्यकतानामपि ध्यानं निधाय कार्यं करोति।
---------------
Hindusthan Samachar / Dheeraj Maithani