हाइड्रोजन ट्रेनयानम् ...आत्मनिर्भर भारताय अद्य महत् दिनम्- प्रधानमंत्री मोदी
नवदिल्ली, 17 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य राष्ट्राय प्रथमां हाइड्रोजनचालितां रेलयानसेवां समर्पयितुं पूर्वम् स्वस्य एक्स्-सञ्चारमाध्यमे शुभकामनाः प्रेषितवान्। सः अलिखत्, ''''अद्य भारतस्य प्रथमं हाइड्रोजनचालितं रेलयानं प्राप
12587edd3e3f3ecc5172e21c3ae8cb2b_717926270.jpg


नवदिल्ली, 17 जुलाईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी अद्य राष्ट्राय प्रथमां हाइड्रोजनचालितां रेलयानसेवां समर्पयितुं पूर्वम् स्वस्य एक्स्-सञ्चारमाध्यमे शुभकामनाः प्रेषितवान्। सः अलिखत्, ''अद्य भारतस्य प्रथमं हाइड्रोजनचालितं रेलयानं प्राप्तुं स्वप्नं साकारं भवति। एतत् आत्मनिर्भरभारतस्य तथा च सततविकासस्य दिशि अत्यन्तं महत्त्वपूर्णः दिवसः अस्ति। अस्य कार्यस्य सम्पादने संलग्नान् सर्वान् जनान् अहं हार्दिक्येन अभिनन्दामि।''

तेन सुभाषितमपि समं प्रकाशितं यत्

प्रभूतं कार्यमल्पं वा यन्नरः कर्तुमिच्छति।

सर्वारम्भेण तत् कार्यं सिंहादेकं प्रचक्षते।।

एषः श्लोकः चाणक्यनीतेः षष्ठाध्यायस्य षोडशः श्लोकः अस्ति। अत्र चाणक्यः सिंहात् अधिगन्तव्यं परमं महत्त्वपूर्णं गुणमेकं निरूपयति। अस्य तात्पर्यम् अस्ति यत् मनुष्येण यत्किमपि कार्यं कर्तुमभिलष्यते, तत् महत् वा लघु वा भवतु, तत् सम्पूर्णशक्त्या पूर्णसमर्पणेन च आरब्धव्यम्। सिंहात् अस्माभिः अयमेव गुणः शिक्षितव्यः।

उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री अद्य प्रातः प्रायः एकादशवादने हरियाणाराज्यस्य जीन्द-रेलस्थानके जीन्द-सोनीपतयोः मध्ये सञ्चरन्तीं देशस्य प्रथमां हाइड्रोजनचालितां रेलयानसेवां ध्वजप्रदर्शनेन प्रस्थापयिष्यति। एषः उपक्रमः भारतीयरेलक्षेत्रे स्वच्छस्य स्थायिपरिवहनस्य स्वीकरणे महत्त्वपूर्णं सोपानं भविष्यति। एतत् रेलयानं भारते एव अभिकल्पितम्, अभियन्त्रितम्, समन्वितं च अस्ति। स्वदेशीयप्रौद्योगिक्याः उपयोगेन अस्य विकासः कृतः। अनेन सह अद्य भारतम् अपि तेषां कतिपयानां राष्ट्राणां वर्गे समावेशं प्राप्स्यति, येषां समीपे हाइड्रोजनचालितानि रेलयानानि नियमितरूपेण सञ्चरन्ति।

एतत् रेलयानं हाइड्रोजन-ईन्धनकोष-प्रौद्योगिक्या सञ्चलति, या हाइड्रोजनं विद्युत्शक्तौ परिवर्त्य रेलयानं सञ्चालयति। अस्मिन् प्रक्रियायां केवलं जलवाष्पः उपोत्पादरूपेण निष्पद्यते, अतः रेलयानसञ्चालने कार्बन-उत्सर्जनं शून्यमेव भवति। डीजलचालितरेलयानानामपेक्षया एतानि रेलयानानि टेलपाइप-उत्सर्जनं पूर्णतया निराकुर्वन्ति। जीवाश्म-ईन्धनस्य तथा जीवाश्म-ईन्धन-आयातस्य उपरि निर्भरता न्यूनां कुर्वन्ति, शब्दप्रदूषणमपि पर्याप्तरूपेण न्यूनीकरोति। अतः एतानि रेलयानानि पर्यावरणसंरक्षणदृष्ट्या स्वच्छं कार्यक्षमं च समाधानं भवन्ति।

अस्मिन् रेलयाने दश यात्रिकयानकोष्ठाः सन्ति। अनेन एतत् अधुना यावत् विकसितानां हाइड्रोजनचालितानां यात्रिरेलयानानां मध्ये दीर्घतमेषु अन्यतमं जातम्।

---------------

Hindusthan Samachar / Dheeraj Maithani