प्रधानमन्त्री मोदी अद्य हरियाणा-चण्डीगढ-पञ्जाबराज्ययोः भ्रमणं करिष्यति, राष्ट्रस्य प्रथमां हाइड्रोजन-चालितां रेलयानसेवां जीन्द-सोनीपतयोर्मध्ये प्रवर्तयिष्यति
नवदिल्ली, १७ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य हरियाणा-चण्डीगढ-पञ्जाबराज्यानां भ्रमणं करिष्यति। सः प्रातः प्रायः एकादशवादने हरियाणाराज्यस्य जीन्द-रेलस्थानके जीन्द-सोनीपतयोर्मध्ये सञ्चरन्तीं राष्ट्रस्य प्रथमां हाइड्रोजन-चालितां रेलय
भाजप के एक्स हैंडल पर भी प्रधानमंत्री के आज के दौरे का कार्यक्रम साझा किया गया है।


नवदिल्ली, १७ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य हरियाणा-चण्डीगढ-पञ्जाबराज्यानां भ्रमणं करिष्यति। सः प्रातः प्रायः एकादशवादने हरियाणाराज्यस्य जीन्द-रेलस्थानके जीन्द-सोनीपतयोर्मध्ये सञ्चरन्तीं राष्ट्रस्य प्रथमां हाइड्रोजन-चालितां रेलयानसेवां ध्वजप्रदर्शनेन प्रवर्तयिष्यति। ततः प्रायः सार्धैकादशवादने जीन्दस्य एकलव्य-क्रीडाङ्गणे प्रायः १४,७०० कोटिरूप्यकाणां मूल्येन विविधविकासपरियोजनानां लोकार्पणं शिलान्यासं च करिष्यति। अनन्तरं सः चण्डीगढं गमिष्यति, यत्र अपराह्णे प्रायः पादोनद्विवादने ४,७०० कोटिरूप्यकाधिकमूल्यानां विविध-विकासपरियोजनानां शिलान्यासं लोकार्पणं च करिष्यति। ततः पञ्जाब-राज्यस्य जालन्धरनगरे ५,४७० कोटिरूप्यकाधिकमूल्यानां बहूनां विकासपरियोजनानां लोकार्पणं करिष्यति। एषा सूचना आधिकारिकप्रवक्त्रा प्रदत्ता।

जीन्दकार्यक्रमः

आधिकारिकप्रवक्तुः अनुसारं प्रधानमन्त्री जीन्द-सोनीपतयोर्मध्ये सञ्चरन्तीं राष्ट्रस्य प्रथमां हाइड्रोजन-चालितां रेलयानसेवां प्रवर्तयिष्यति। एषा सेवा रेलपरिवहनक्षेत्रे स्वच्छ-स्थायिपरिवहनस्य दिशि महत्त्वपूर्णः प्रयत्नः भविष्यति। एतत् रेलयानं भारते एव अभिकल्पितम्, अभियान्त्रिकतया विकसितम्, समन्वितं च अस्ति तथा स्वदेशीयप्रौद्योगिक्या निर्मितम्। अनेन भारतस्य उन्नतरैल-अभियान्त्रिकीक्षमताः प्रकाशन्ते। अनेन भारतं तेषां कतिपयानां राष्ट्राणां वर्गे सम्मिलिष्यति येषां हाइड्रोजन-चालितानि रेलयानानि नियमितरूपेण सञ्चरन्ति।

एषा रेलयानसेवा हाइड्रोजन-इन्धन-कोष-प्रौद्योगिक्या सञ्चलति। अस्यां प्रक्रियायां हाइड्रोजनः विद्युत्शक्तौ परिवर्त्यते, उपोत्पादरूपेण केवलं जलवाष्पः उत्पाद्यते। अतः रेलयानस्य सञ्चालने कार्बन-उत्सर्जनं शून्यमेव भवति। डीजल-रेलयानानां तुलनायाम् एतेषां धूमोत्सर्जनं न भवति, जीवाश्म-इन्धनस्य आयातनिर्भरता न्यूना भवति, शब्दः अपि न्यूनः भवति। परम्परागतविद्युत्-रेलयानानामिव एतेषां निरन्तर-विद्युतीकरण-संरचनायाः आवश्यकता नास्ति, यतः विद्युत् रेलयानस्य अन्तःस्थितेन हाइड्रोजन-इन्धन-कोषेणैव उत्पाद्यते। अतः एतत् पर्यावरणहितकरं स्वच्छं कुशलं च समाधानम् अस्ति। हरितहाइड्रोजनस्य उपयोगेन जीवाश्म-इन्धनाधारित-ऊर्जा-निर्माणे निर्भरता अपि न्यूना भवति।

अस्मिन् रेलयाने दश कोष्ठकानि सन्ति। अतः एषा अद्यावधि निर्मितानां दीर्घतमासु हाइड्रोजन-चालितयात्रीरेलयानसेवासु अन्यतमा अस्ति। एषा ३,२०० अश्वशक्ति-प्रणोदनव्यवस्थया सञ्चाल्यते, अतः वर्तमानकाले सञ्चरन्तीनां शक्तिशालिषु हाइड्रोजन-रेलयानेषु अन्यतमा भवति।प्रधानमन्त्री हरियाणाराज्ये १२,४७० कोटिरूप्यकाधिकमूल्यानां राष्ट्रीयराजमार्ग-परियोजनानां शिलान्यासं करिष्यति तथा कतिपयान् मार्गान् राष्ट्राय समर्पयिष्यति। तेषु प्रमुखः ९,६८० कोटिरूप्यकैः विकसितः १५७.९२ किलोमीटरदीर्घः चतुर्मार्गीयः पूर्णसुलभः दिल्ली-अमृतसर-कटरा-द्रुतमार्गस्य प्रथम-पञ्चपुटानां लोकार्पणम् अस्ति। अनेन दिल्ली-कटरयोः यात्राकालः प्रायः चतुर्दशहोराभ्यः षड्होरापर्यन्तं न्यूनी-भविष्यति, दिल्ली-अमृतसरयोः यात्राकालः अपि अष्टहोराभ्यः चतुर्होरा-पर्यन्तं भविष्यति।

प्रधानमन्त्री ३३.८१ किलोमीटरदीर्घस्य अम्बाला-कालाअम्ब-चतुर्मार्गीय-राजमार्गस्य उद्घाटनं करिष्यति, येन हरियाणा-हिमाचलप्रदेशयोः सम्पर्कः सुदृढो भविष्यति। सः ४०.६० किलोमीटरदीर्घस्य जीन्द-गोहाना-ग्रीनफील्ड-राजमार्गस्य अपि उद्घाटनं करिष्यति, येन यात्राकालः द्विहोराभ्यः केवलं चत्वारिंशत्निमेषपर्यन्तं न्यूनी-भविष्यति। हांसी-बरवाला-राजमार्ग-परियोजनायाः अपि शिलान्यासः करिष्यते।

प्रधानमन्त्री कुरुक्षेत्रे उन्नत-रेलपथस्य लोकार्पणं करिष्यति, येन नगरस्य दीर्घकालीन-यातायातसमस्या निवारिता भविष्यति। सः पण्डित-नेकीराम-शर्मा-राजकीय-चिकित्सामहाविद्यालयं, महर्षि-च्यवन-चिकित्सामहाविद्यालयं, रावतुलाराम-चिकित्सालयं (नारनौल-नगरम्) च राष्ट्राय समर्पयिष्यति। एतेन राज्ये चिकित्साशिक्षा, एम.बी.बी.एस. आसनानां संख्या, विशेषज्ञवैद्यसेवा च वर्धिष्यते।

तदनन्तरं प्रधानमन्त्री कुरुक्षेत्रे सिक्ख-सङ्ग्रहालयस्य शिलान्यासं करिष्यति। अस्मिन् आधुनिकप्रौद्योगिक्या सिक्ख-धर्मस्य इतिहासः, गुरूणां शिक्षाः, तेषां शौर्यं, बलिदानानि तथा भारतस्य संस्कृतौ सिक्खसमुदायस्य अमूल्ययोगदानं प्रदर्श्यते।

चण्डीगढकार्यक्रमः

प्रधानमन्त्री चण्डीगढे स्वास्थ्यसेवा-शिक्षा-सड़काधारभूतसंरचनासम्बद्धानां ४,७०० कोटिरूप्यकाधिकमूल्यानां परियोजनानाम् उद्घाटनं शिलान्यासं च करिष्यति। सः पी.जी.आई.एम.ई.आर. संस्थायाम् उन्नत-मातृ-शिशुकेन्द्रस्य तथा उन्नत-स्नायुविज्ञानकेन्द्रस्य उद्घाटनं करिष्यति। एते केन्द्रे उच्चसमस्यात्मक-गर्भधारणानां, गम्भीर-रोगग्रस्त-नवजातशिशूनां, विशेष-चिकित्सायाः अपेक्षायुक्तबालानां च समग्रचिकित्सां प्रदास्यतः।

प्रधानमन्त्री प्रधानमन्त्री-आयुष्मान-भारत-स्वास्थ्य-अवसंरचनाभियानस्य अन्तर्गतं १५०-शय्यायुक्तस्य अत्याधुनिक-गम्भीरचिकित्साकेन्द्रस्य शिलान्यासं करिष्यति। तदनन्तरं पञ्जाब-अभियान्त्रिकी-महाविद्यालये छात्रावासयोः, भोजनालयस्य तथा अनुसन्धातृ-छात्रावासस्य शिलान्यासं करिष्यति।

सः मोहाली-जनपदे आई.टी.-नगरात् कुरालीपर्यन्तं षट्मार्गीय-ग्रीनफील्ड-राजमार्गस्य उद्घाटनं करिष्यति। अम्बाला-चण्डीगढ-ग्रीनफील्ड-राजमार्गस्य १०.३ किलोमीटरदीर्घस्य पी.आर.-७ स्पर-मार्गस्य अपि शिलान्यासः करिष्यते।

जालन्धरकार्यक्रमः

प्रधानमन्त्री नरेन्द्रमोदी ५,४७० कोटिरूप्यकाधिकमूल्यानां रेलमार्ग-सड़काधारभूतसंरचनापरियोजनानाम् उद्घाटनं शिलान्यासं च करिष्यति। एताभिः सम्पर्कव्यवस्था, यात्रिसुविधा, आर्थिक-विकासश्च सुदृढः भविष्यति।

सः अमृतभारत-स्थानक-योजनायाः अन्तर्गतं जालन्धर-कैन्ट्-स्थानकेन सह विंशतिराज्येषु स्थितानां ७५ पुनर्विकसित-रेलस्थानकानाम् उद्घाटनं करिष्यति। प्रायः १,५७० कोटिरूप्यकव्ययेन एतानि स्थानकानि आधुनिकयात्रिमैत्री-सुविधाभिः समन्वितानि निर्मितानि सन्ति। एतेषु स्थानकेषु स्थानीयसंस्कृतेः, धरोहरस्य, वास्तुकलायाश्च दर्शनं भवति।प्रधानमन्त्री नाङ्गल-बन्ध-तलवारा-मुकेरियन्-नवरेलमार्गपरियोजनायाः अन्तर्गतं दौलतपुर-चौक-करतोली-नवरेलमार्गस्य उद्घाटनं करिष्यति। अनेन पञ्जाब-हिमाचलप्रदेशयोः रेलसम्पर्कः सुदृढो भविष्यति तथा श्रीआनन्दपुरसाहिब-मा-चिन्तपूर्णी-देवीमन्दिरयोः सम्पर्कः अपि सुलभो भविष्यति।

सः करतोली-अम्बाला-रेलसेवां तथा अमृतसर-वाराणसी-रेलसेवां ध्वज-प्रदर्शनेन प्रवर्तयिष्यति। अनेन भारतस्य द्वयोः प्रमुखयोः आध्यात्मिक-सांस्कृतिककेन्द्रयोः मध्ये प्रत्यक्षरेल-सम्पर्कः स्थापितो भविष्यति।

प्रधानमन्त्री पञ्जाबराज्ये ३,०७० कोटिरूप्यकाधिकमूल्यानां राष्ट्रीयराज-मार्गपरियोजनानाम् उद्घाटनं शिलान्यासं च करिष्यति। सः नूतनस्य दिल्ली-अमृतसर-कटरा-द्रुतमार्गस्य ३०.९ किलोमीटरदीर्घस्य षष्ठपुटस्य उद्घाटनं करिष्यति। तदनन्तरं २५.२ किलोमीटरदीर्घस्य षट्मार्गीय-दक्षिण-लुधियाना-ग्रीनफील्ड-बाइपास-परियोजनायाः अपि शिलान्यासं करिष्यति। एषा परियोजना लुधियाना-बठिण्डयोः यात्रासमयं दूरीं च न्यूनीकर्तुं प्रमुखैः आर्थिककेन्द्रैः सह उत्तमसम्पर्कं च प्रदास्यति।

Hindusthan Samachar / Divya Ranjan