Enter your Email Address to subscribe to our newsletters

चण्डीगढम्, १७ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे चण्डीगढ-नगरे ४७००-कोटि-रूप्यकाधिक-मूल्यानां विविध-विकास-परियोजनानां लोकार्पण-शिलान्यास-कार्यक्रमे अवदत् यत् विकसित-भारतस्य निर्माणाय भावि-प्रौद्योगिकी, नवाचारः तथा आधुनिक-स्वास्थ्य-सेवासु केन्द्रित-दृष्ट्या अग्रे गन्तव्यम्। तेन उक्तं यत् कोरोना-महामारी-काले भारतं विश्वात् सहायता याचमानः देशः नासीत्, अपितु विश्वाय साहाय्यं प्रदातुं समर्थः राष्ट्ररूपेण उदितम्।
प्रधानमन्त्री अवदत् यत् चण्डीगढ-नगरं केवलं नगरं न, अपितु सुनियोजित-विकासस्य, उत्तम-जीवनशैल्याः आधुनिक-चिकित्सा-सुविधानां च आदर्शः अस्ति। हरियाणा, पञ्जाब, हिमाचलप्रदेशः जम्मू-कश्मीरश्च एतेषां प्रदेशानां जनानां कृते चण्डीगढनगरं स्वास्थ्य-सेवानां प्रमुखं केन्द्रम् अस्ति तथा च एनडीए-सर्वकारः तस्य विकासं निरन्तरं प्राधान्येन प्रवर्तयति।
तेन उक्तं यत् गत-द्वादश-वर्षेषु देशस्य स्वास्थ्य-आधारभूत-संरचनायाः अभूतपूर्वः विस्तारः अभवत्। वर्षे २०१४ अनन्तरं १५ नूतनानाम् एम्स-संस्थानानां अनुमोदनं कृतम्, शतानि नूतन-चिकित्सा-महाविद्यालयानि स्थापितानि, कर्कट-रोगादीनां गम्भीर-रोगाणाम् उपचारार्थं विशेष-चिकित्सालयानां विस्तारश्च कृतः। अधुना देशे चिकित्सा-महाविद्यालयानां संख्या प्रायः द्विगुणिता अभवत् तथा एमबीबीएस-स्नातकोत्तर-वैद्यकीय-आसनानां संख्यायाम् अभिलेखीय-वृद्धिः अभवत्। तेन घोषणा कृता यत् पीजीआई-चण्डीगढ-संस्थाने एमबीबीएस-महाविद्यालयस्य अनुमोदनम् अपि प्राप्तम् अस्ति तथा शीघ्रमेव प्रवेश-प्रक्रिया आरभ्यते।
प्रधानमन्त्री अवदत् यत् आयुष्मान-भारत-स्वास्थ्य-आधारभूत-संरचना-अभियानस्य अन्तर्गतं देशव्यापि प्रायः १.७५ लक्षाणि आयुष्मान-आरोग्य-मन्दिराणि सञ्चलन्ति, यत्र उपचारेण सह द्वादशविधा: स्वास्थ्य-सेवा: प्रदीयन्ते। तेन सूचितं यत् ई-सञ्जीवनी-दूरचिकित्सा-सेवायाः माध्यमेन अधुना यावत् ४८-कोट्यधिकाः अन्तर्जाल-चिकित्सकीय-परामर्शाः प्रदत्ताः, येन दूरस्थ-प्रदेशेषु निवसन्तोऽपि जनाः विशेषज्ञ-वैद्यानां सेवां प्राप्नुवन्ति।
तेन उक्तं यत् सर्वकारः क्षयरोग-मुक्त-भारत-अभियानम् अपि तीव्रगत्या अग्रे नयति। समये परीक्षणेन उपचारेण च क्षयरोग-चिकित्सायाः व्याप्तिः ९० प्रतिशताधिकं प्राप्तवती। विश्व-स्वास्थ्य-सङ्गठनस्य प्रतिवेदनानुसारं गत-दशके भारते क्षयरोग-सङ्क्रमणे २१ प्रतिशतस्य न्यूनता अभिलिखिता।
प्रधानमन्त्री अवदत् यत् कदाचित् विश्वं भारतस्य स्वास्थ्य-व्यवस्थां प्रति चिन्तितम् आसीत्, किन्तु कोरोना-महामारी-काले भारतेन सम्पूर्णस्य विश्वस्य दृष्टिकोणं परिवर्तितम्। तेन उक्तम्— “कोरोना-महामारी-समये भारतदेश: सहायता न याचते स्म, अपितु विश्वस्य विभिन्न-देशेभ्यः औषधानि साहाय्यं च प्रेषयति स्म।” अधुना विश्वस्य विविध-देशेभ्यः जनाः उपचारार्थं भारतम् आगच्छन्ति। एतत् गत-द्वादश-वर्षेषु स्वास्थ्य-क्षेत्रे कृतानां सुधाराणां फलम् अस्ति।
तेन उक्तं यत् चण्डीगढ-नगरे शिक्षा, अभियांत्रिकी, चिकित्साविज्ञानम् अनुसंधानं च सम्बद्धानि प्रतिष्ठित-संस्थानानि सन्ति, ये भविष्ये नूतन-प्रौद्योगिकी, स्वास्थ्य-सेवा, नवोद्यम: तथा नवाचारस्य प्रमुख-केन्द्राणि भवितुं समर्थानि सन्ति। विकसित-भारतस्य यात्रायां भावि-प्रौद्योगिकी-स्वास्थ्य-सेवासु विशेष-ध्यानं दातुं कालस्य आवश्यकता अस्ति।
प्रधानमन्त्री हरियाणा-प्रवासस्य उल्लेखं कुर्वन् अवदत् यत् जीन्द-सोनीपत-रेलखण्डे देशस्य प्रथमस्य हाइड्रोजन-ईन्धन-सञ्चालित-रेलयानस्य शुभारम्भः देशस्य प्रौद्योगिक-प्रगतेः प्रतीकः अस्ति तथा स्वच्छ-ऊर्जा-आधारित-परिवहनस्य दिशि महत्त्वपूर्णः पदक्षेपः।
अस्मिन् अवसरे प्रधानमन्त्रिणा ४७००-कोटि-रूप्यकाधिक-मूल्यानां विकास-परियोजनानां लोकार्पणं शिलान्यासश्च कृतः। एतासु पीजीआईएमईआर-संस्थाने उन्नत-मातृ-शिशु-केन्द्रस्य, उन्नत-तन्त्रिका-विज्ञान-केन्द्रस्य च लोकार्पणम्, १५०-शय्यायुक्तस्य गम्भीर-चिकित्सा-खण्डस्य शिलान्यासः, पञ्जाब-अभियांत्रिकी-महाविद्यालयस्य, सर्वकारीय-महाविद्यालय-सेक्टर-४६ छात्रावास-परियोजनाः, आईटी-सिटी-कुराली षट्पथ-हरित-राजमार्गः, जीरकपुर-हरित-परिहार-मार्गः तथा पीआर-७ स्पर-मार्गिका इत्यादयः प्रमुखाः मार्ग-आधारभूत-संरचना-परियोजनाः समाविष्टाः।
Hindusthan Samachar / Divya Ranjan