प्रधानमंत्री देशस्य प्रथमाय हाइड्रोजनट्रेनयानाय दर्शितो हरितध्वजः, बोले- जींदेन सह योक्ष्यते भारतस्य रेलवेविभागीयस्य इतिहासस्य नूतनः अध्यायः
जींदः, 17 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे हरियाणाराज्यस्य जीन्द रेलस्थानकात् देशस्य प्रथमं हाइड्रोजनचालितं रेलयानं हरितध्वजप्रदर्शनेन प्रस्थापितवान्। तेन उक्तं यत् जीन्द, सोनीपत तथा हरियाणाराज्यस्य नाम अधुना भारतीयरेलस्य इत
प्रधानमंत्री नरेन्द्र मोदी शुक्रवार को जींद में हाइड्रोजन ट्रेन को हरी झंडी दिखाकर रवाना करने के बाद सभा को संबोधित करते हुए


जींदः, 17 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे हरियाणाराज्यस्य जीन्द रेलस्थानकात् देशस्य प्रथमं हाइड्रोजनचालितं रेलयानं हरितध्वजप्रदर्शनेन प्रस्थापितवान्। तेन उक्तं यत् जीन्द, सोनीपत तथा हरियाणाराज्यस्य नाम अधुना भारतीयरेलस्य इतिहासे तथैव अभिलेखितं भविष्यति यथा प्रथमरेलयानस्य कारणेन मुम्बई तथा ठाणे इत्येतयोः नाम अभिलेखितम् अस्ति। तेन उक्तं यत् भारतस्य एतत् हाइड्रोजनचालितं रेलयानं विश्वस्य शक्तिशालिनीतमेषु तथा दीर्घतमेषु हाइड्रोजनचालितयात्रिरेलयानेषु अन्यतमम् अस्ति तथा च एतत् मेक इन इंडिया अभियानस्य सफलम् उदाहरणम् अस्ति।

जीन्दनगरस्य एकलव्यक्रीडाङ्गणे प्रायः चतुर्दशसहस्रसप्तशतकोटिरूप्यकपरिमितानां विविधविकासपरियोजनानां शिलान्यासलोकार्पणसमारोहे सम्बोधनं कुर्वन् प्रधानमन्त्री उक्तवान् यत् एकोनविंशतितमशताब्द्याः परिचयः वाष्पयन्त्रेण आसीत्, विंशतितमशताब्द्याः परिचयः डीजलविद्युत्चालितरेलयानैः आसीत्, किन्तु एकविंशतितमशताब्द्याः परिचयः हाइड्रोजनचालितरेलयानं भविष्यति। तेन उक्तं यत् सम्प्रति विश्वस्य केवलं त्रयाणां चतुर्णां वा राष्ट्राणां समीपे हाइड्रोजनचालितरेलयानसञ्चालनस्य क्षमता अस्ति तथा भारतम् अपि अधुना अस्मिन् विशिष्टसमूहे समाविष्टम् अस्ति।

तेन उक्तं यत् जीन्दतः सञ्चरदेतत् दशयानकोष्ठयुक्तं रेलयानं त्रिसहस्रद्विशत अश्वशक्तियुक्तेन प्रोपल्शनप्रणाल्या समन्वितम् अस्ति तथा च विश्वस्य शक्तिशालिनीतमेषु हाइड्रोजनचालितरेलयानेषु अन्यतमम् अस्ति। हाइड्रोजन ईन्धनकोषप्रौद्योगिक्याधारितम् एतत् रेलयानं हाइड्रोजनं विद्युत्शक्तौ परिवर्त्य सञ्चरति तथा अस्य सञ्चालनकाले केवलं जलवाष्पः निर्गच्छति, येन कार्बनउत्सर्जनं न भवति।

प्रधानमन्त्री उक्तवान् यत् भारतीयरेलक्षेत्रे गतद्वादशवर्षेषु सम्पन्नस्य परिवर्तनस्य महान् लाभः देशाय ऊर्जासुरक्षारूपेण प्राप्तः। पश्चिमएशियाक्षेत्रे विशेषतः होर्मुज जलडमरूमध्ये, ईराने तथा उपसागरप्रदेशे प्रवर्तमानस्य संघर्षस्य अपि भारतस्य रेलसेवाः न प्रभाविताः। तेन उक्तं यत् वर्षे द्विसहस्रचतुर्दशात् पूर्वं रेलव्यवस्थायाः महत् अंशः डीजल ईन्धने अवलम्बितः आसीत्, किन्तु गतद्वादशवर्षेषु देशस्य प्रायः नवतिनवप्रतिशतं रेलजालं विद्युतीकृतम् अस्ति, हरियाणाराज्ये तु रेलजालस्य शतप्रतिशतं विद्युतीकरणं सम्पन्नम् अस्ति। अत एव तैलसंकटस्य अपि देशस्य विकासयात्रा न निरुद्धा।

प्रधानमन्त्री उक्तवान् यत् हाइड्रोजनचालितं रेलयानं न केवलं पर्यावरणानुकूलम् अस्ति, अपितु मेक इन इंडिया अभियानस्य सफलतायाः प्रतीकमपि अस्ति। भविष्ये हाइड्रोजनचालितरेलयानानां सम्बन्धिनः आधारसंरचनायाः विकासः भविष्यति तथा नूतनाः निर्माणशालाः स्थापयिष्यन्ते, येन हरियाणाराज्यस्य युवभ्यः रोजगारस्य नूतनाः अवसराः उत्पत्स्यन्ते।

तेन उक्तं यत् जीन्द तथा हरियाणाराज्यं विकासस्य नूतनां गतिं प्राप्तवन्तौ तथा अद्यतनः दिवसः राज्यस्य इतिहासे सुवर्णाक्षरैः अभिलेखितः भविष्यति। तेन जनान् स्वच्छतां जीवनस्य संस्काररूपेण स्वीकर्तुमपि आहूतवान्।

अस्मिन् अवसरे प्रधानमन्त्री प्रायः चतुर्दशसहस्रसप्तशतकोटिरूप्यकपरिमितानां विकासपरियोजनानां शिलान्यासं लोकार्पणं च अकरोत्। तासु द्वादशसहस्रचतुःशतसप्ततकोटिरूप्यकाधिकमूल्यानां राष्ट्रियराजमार्गपरियोजनाः समाविष्टाः। तेन दिल्ली अमृतसर कटरा द्रुतमार्गस्य हरियाणाखण्डः, अम्बाला काला अम्ब चतुर्पथराजमार्गः तथा जीन्द गोहाना हरितक्षेत्रराष्ट्रीयराजमार्गः राष्ट्राय समर्पितः तथा हांसी बरवाला ब्राउनफील्ड राजमार्गपरियोजनायाः आधारशिला स्थापिता।

एतदतिरिक्तं प्रधानमन्त्री कुरुक्षेत्रे उच्चस्थितरेलमार्गस्य उद्घाटनम् अकरोत्, भिवानीस्थं पण्डित नेकी राम शर्मा राजकीयचिकित्सामहाविद्यालयम्, नारनौलस्थितं महर्षि च्यवन चिकित्सामहाविद्यालयं राव तुलाराम चिकित्सालयं च लोकार्पितवान् तथा कुरुक्षेत्रे सिखसंग्रहालयस्य आधारशिलामपि स्थापितवान्।

प्रधानमन्त्री स्वस्य अद्यतनस्य इण्डोनेशिया, ऑस्ट्रेलिया तथा न्यूजीलैण्डदेशयात्रायाः उल्लेखं कुर्वन् उक्तवान् यत् एतेषां राष्ट्राणां सह क्रीडोद्योगे, क्रीडकप्रशिक्षणे तथा क्रीडाधारसंरचनाक्षेत्रे सहयोगविस्ताराय सहमतिः जाता। तेन उक्तं यत् नूतनराष्ट्रियक्रीडानीत्या तथा खेलो इंडिया अभियानेन देशे क्रीडाप्रतिभाभ्यः अधिकाः उत्तमाः अवसराः प्रदीयन्ते।।

------------

Hindusthan Samachar / Dheeraj Maithani