Enter your Email Address to subscribe to our newsletters


प्रयागराजनगरम्, १७ जुलाईमासः (हि.स.)। उत्तरप्रदेश-राजर्षि-टण्डन-मुक्त-विश्वविद्यालयस्य एकविंशतितमे दीक्षान्त-समारोहे १८ मेधावी-विद्यार्थिभ्यः स्वर्ण-पदकानि प्रदत्तानि। अस्मिन् अवसरे उत्तरप्रदेशस्य राज्यपालः कुलाधिपतिश्च आनन्दीबेन-पटेल: अवदत् यत् शिक्षायाः वास्तविकम् उद्देश्यम् केवलं उपाधि-प्राप्तिः न, अपितु समाजे मानवता, संवेदनशीलता तथा समानतायाः मूल्यानां प्रतिष्ठापनम् अस्ति।
शुक्रवासरे आयोजिते अस्मिन् दीक्षान्त-समारोहे राज्यपाल: अवदत्— “अद्य वयं बहु शिक्षिताः स्मः, तथापि जाति-भेदात् बहिः निर्गन्तुं न समर्थाः अभवाम।” सा विद्यार्थिनः आहूतवती यत् ते भेदभावम् अतिक्रम्य मानवतायै सर्वोच्चं स्थानं दद्युः तथा स्वज्ञानस्य उपयोगं समाजस्य सकारात्मक-परिवर्तनाय कुर्वन्तु।
स्वसम्बोधने राज्यपाला प्रेरणादायकां घटनामेकां वर्णितवती। तया उक्तं यत् एकः निर्धनः शाक-विक्रेता झाटिकासु परित्यक्तां नवजात-कन्यां जाति-धर्म-विचारं विना स्वीकृत्य तस्याः पालन-पोषणम् अकरोत्, शिक्षितवांश्च, अन्ते ताम् अधिकारिणीं च अकारयत्। तया उक्तं यत् एतादृशानि उदाहरणानि समाजाय एतं सन्देशं ददति यत् मानवतैव सर्वोच्च: धर्मः अस्ति, सर्वैश्च एतस्याः भावनायाः अनुसरणं करणीयम्।
आनन्दीबेन-पटेल: अवदत् यत् उत्तरप्रदेशस्य सौभाग्यम् अस्ति यत् अत्र अधिकांश-विश्वविद्यालयानां नामानि देशस्य महतां व्यक्तित्वानां, विदुषां राष्ट्रनिर्मातॄणां च नामभिः स्थापितानि सन्ति। तया सर्वेभ्यः विश्वविद्यालयेभ्यः निर्देशः प्रदत्तः यत् येषां महापुरुषाणां नाम्ना संस्थानानि सन्ति, तेषां जीवन-विचार-विषयेषु व्याख्यान-निबन्ध-चित्रकला-संवाद-प्रतियोगिताश्च आयोजनीयाः, येन विद्यार्थिनः तेषाम् आदर्शान् आत्मसात् कर्तुं शक्नुयुः। तया सूचितं यत् एतासां प्रतियोगितानां विजेतॄणाम् अन्तिम-प्रतियोगिता राजभवने आयोजिता भविष्यति।
दीक्षान्त-समारोहे राज्यपालया १८ मेधावी-विद्यार्थिभ्यः स्वर्ण-पदकानि प्रदत्तानि, येषु १२ छात्र्यः तथा ६ छात्राः आसन्। तथा च ३०,८८६ उपाधयः डिजिलॉकर-माध्यमेन आरोप्य विद्यार्थिभ्यः डिजिटल-रूपेण उपलब्धाः कृताः। तया सर्वेभ्यः विद्यार्थिभ्यः उज्ज्वल-भविष्यस्य शुभकामनाः प्रदाय राष्ट्र-निर्माणे सक्रिय-योगदानाय प्रेरणा दत्ता।
समारोहस्य मुख्यातिथिः पद्मश्री-पुरस्कार-प्राप्ता लोकगायिका मालिनी-अवस्थी भारतीय-भाषाणां, संस्कृतेः परम्पराणां च संरक्षणस्य महत्त्वम् उद्घाट्य विद्यार्थिभ्यः स्वमातृभाषायाः सांस्कृतिक-धरोहरस्य च गौरवं धारयितुं सन्देशम् अयच्छत्। कार्यक्रमे छात्रीभिः मनोहराः सांस्कृतिक-प्रस्तुतयः प्रदर्शिताः, याः राज्यपालया प्रशंसिताः; तया तासां प्रोत्साहनार्थं चॉकलेह: अपि प्रदत्ता:। कथा-लेखन-भाषण-प्रतियोगितयोः प्रथम-स्थानं प्राप्तवत्यौ प्राथमिक-विद्यालयस्य छात्र्यौ आराध्या-साहू तथा परी-सिंह: सम्मानिते अभवताम्।
अस्मिन् अवसरे उच्च-शिक्षा-मन्त्री योगेन्द्र-उपाध्यायः, उच्च-शिक्षा-राज्यमन्त्री रजनी-तिवारी, मन्त्रिमण्डल-मन्त्री नन्दगोपाल-गुप्तः ‘नन्दी’, विश्व-विद्यालयस्य कुलपतिः प्रो. सत्यकामः, शिक्षकाः, अधिकारिणः तथा बहुसंख्यकाः छात्र-छात्र्यश्च उपस्थिताः आसन्। राजर्षि-टण्डन-मुक्त-विश्वविद्यालयस्य एक-विंशतितमः दीक्षान्त-समारोहः शिक्षा, संस्कार:, डिजिटल-नवाचारः तथा सामाजिक-समरसता इत्येषां सन्देशेन प्रेरणादायक-वातावरणे सम्पन्नः।
Hindusthan Samachar / Divya Ranjan