Enter your Email Address to subscribe to our newsletters

नवदेहली, १७ जुलाईमासः (हि.स.)। देहली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता भारतस्य प्रथमस्य स्वदेशी-हाइड्रोजन-रेलयानस्य शुभारम्भावसरे समस्त-हरियाणावासिभ्यः शुभकामना: प्रदत्तवती। तया उक्तं यत् एषा ऐतिहासिकी उपलब्धिः केवलं हरियाणा-राज्यस्य न, अपितु समग्रस्य देशस्य कृते गौरवस्य, अभिमानस्य आत्मविश्वासस्य च क्षणः अस्ति।
मुख्यमन्त्री रेखा-गुप्ता शुक्रवासरे एक्स सामाजिक-माध्यमे प्रकाशिते स्वसन्देशे उक्तवती यत् अद्यतनः दिवसः तस्याः कृते विशेष-भावनात्मक-महत्त्वयुक्तः अस्ति, यतः तस्याः बाल्यकालः हरियाणा-राज्यस्य जीन्द-नगरे व्यतीतः, तस्मादेव प्रदेशात् अद्य भारतस्य भविष्यस्य नूतना यात्रा आरब्धा अस्ति। तया उक्तं यत् जीन्द-नगरात् प्रस्थितं हाइड्रोजन-रेलयानं विकसित-भारतस्य गतिः, सङ्कल्पः सामर्थ्यं च प्रतीकयति।
रेखा-गुप्ता उक्तवती यत् प्रधानमन्त्री नरेन्द्रमोदिनः दूरदर्शी-नेतृत्वे भारतं नवाचारस्य, आत्मनिर्भरत्वस्य हरित-ऊर्जायाश्च नूतनयुगस्य नेतृत्वं करोति। तया उक्तं यत् हाइड्रोजन-रेलयानस्य शुभारम्भः देशस्य स्वच्छ-स्थायि-परिवहनस्य दिशि महत्त्वपूर्णः पदक्षेपः अस्ति।
मुख्यमन्त्री उक्तवती यत् देहली-सर्वकारः अपि प्रधानमन्त्रिणः नेतृत्वे मेट्रो-विस्तारम्, विद्युत्-बसयान-सेवाः, ईवी-आधारभूत-संरचनायाः विकासम् तथा स्वच्छ-सार्वजनिक-परिवहनस्य संवर्धनं कृत्वा विकसित-भारतस्य सङ्कल्पं सुदृढं करोति।
Hindusthan Samachar / Divya Ranjan