बीटीआर-क्षेत्रे धार्मिक-सांस्कृतिक-विकासे विशेषं बलम्, इस्कॉन-जगन्नाथ-मन्दिरेण सह बहूनां परियोजनानां घोषणा
कोकराझाडः (असमप्रदेश:), १७ जुलाईमासः (हि.स.)। बोडोलैण्ड-प्रादेशिक-परिषदः प्रमुखः हग्रामा-मोहिलारी बोडोलैण्ड-प्रादेशिक-क्षेत्रे धार्मिक-सांस्कृतिक-आधारभूत-विकासस्य संवर्धनार्थं बह्व्यः महत्त्वपूर्णाः परियोजनाः उद्घोषितवान्। तेन उक्तं यत् परिषद् सर्व
BTC Symbolic image. बीटीसी सांकेतिक छवि।


कोकराझाडः (असमप्रदेश:), १७ जुलाईमासः (हि.स.)। बोडोलैण्ड-प्रादेशिक-परिषदः प्रमुखः हग्रामा-मोहिलारी बोडोलैण्ड-प्रादेशिक-क्षेत्रे धार्मिक-सांस्कृतिक-आधारभूत-विकासस्य संवर्धनार्थं बह्व्यः महत्त्वपूर्णाः परियोजनाः उद्घोषितवान्। तेन उक्तं यत् परिषद् सर्वेषां धर्माणां समुदायानां च समान-सम्मानस्य नीतिम् अनुसरति। अस्यैव भावनायाः आधारेण विविध-धार्मिक-सांस्कृतिक-स्थलानां विकासार्थं महत् निवेशः क्रियते।

शुक्रवासरे कार्यक्रमे सहभागित्वा पत्रकारैः सह संवादं कुर्वन् मोहिलारी अवदत् यत् बीटीआर-क्षेत्रे प्रायः ३०-कोटि-रूप्यक-व्ययेन इस्कॉन-जगन्नाथ-मन्दिरस्य निर्माणं भविष्यति। एषा परियोजना न केवलं धार्मिक-श्रद्धायाः केन्द्रं भविष्यति, अपितु क्षेत्रस्य पर्यटनं सांस्कृतिक-गतिविधीश्च अपि प्रोत्साहयिष्यति।

तेन उक्तं यत् ब्रह्मधर्मस्य अनुयायिनां कृते प्रायः १०-कोटि-रूप्यक-व्ययेन विशेष-विकास-परियोजना आरभ्यते। अस्याः योजनायाः अन्तर्गतं धार्मिक-सामुदायिक-सुविधानां विस्तारः भविष्यति, येन अनुयायिनः उत्तमाः आधारभूत-सुविधाः प्राप्नुयुः।

मोहिलारी अवदत् यत् क्षेत्रस्य मनोरञ्जन-सार्वजनिक-सुविधानां सुदृढीकरणार्थं १०-कोटि-रूप्यक-व्ययेन जुबीन-पार्कस्य निर्माणमपि भविष्यति। तदतिरिक्तं सूफी-सन्तस्य अजान-फकीरस्य सम्बन्धित-स्थलानां संरक्षण-विकासार्थम् अपि १०-कोटि-रूप्यक-परियोजना अनुमोदिता अस्ति। तेन उक्तं यत् एतेषां स्थलानां विकासः सांस्कृतिक-धरोहरस्य संरक्षणे धार्मिक-सौहार्दस्य सुदृढीकरणे च महत्त्वपूर्णं पादक्षेपं भविष्यति।

बीटीसी-प्रमुखः अवदत् यत् एताः विकास-योजनाः केवलम् एकस्मिन् वर्गे सीमिताः न भविष्यन्ति, अपितु सर्वेषां समुदायानां धार्मिक-सांस्कृतिक-सामाजिक-आवश्यकतानां विचारं कृत्वा कार्यान्विताः भविष्यन्ति। तेन सूचितं यत् एताभ्यः परियोजनाभ्यः अतिरिक्तम् अपि बीटीआर-क्षेत्रस्य विविधेषु भागेषु बह्व्यः विकास-योजनाः चरणबद्ध-रीत्या कार्यान्विताः भविष्यन्ति। तासां प्रमुखोद्देश्यम् आधारभूत-संरचनायाः सुदृढीकरणम्, सांस्कृतिक-धरोहरस्य संरक्षणम्, सामाजिक-सौहार्दस्य संवर्धनम् तथा क्षेत्रस्य समग्र-विकासाय नूतनां गतिं प्रदातुम् अस्ति।

Hindusthan Samachar / Divya Ranjan