Enter your Email Address to subscribe to our newsletters

चेन्नईमासः, 17 जुलाईमासः (हि.स.)।राष्ट्रियपात्रताप्रवेशपरीक्षायां नीट इति प्रसिद्धायां तमिलनाडुराज्यस्य वेङ्कटपति वेलायुधम् इत्यनेन उल्लेखनीया सफलता प्राप्ता। पुनर्परीक्षाफलप्रकाशने सः ९९.९९९१५ प्रतिशताङ्कान् प्राप्य अखिलभारतीयस्तरे द्वादशं स्थानं प्राप्तवान्।
अखिलभारतीयस्तरे उत्कृष्टप्रदर्शनकर्तॄणां सूच्यां श्रीनिका, सुदर, वनिशा सतीश इत्यादिभिः सह तमिलनाडुराज्यस्य द्वादश छात्राः छात्र्यश्च स्थानं प्राप्य राज्यस्य यशः प्रवर्धितवन्तः। नीट स्नातकचिकित्सापाठ्यक्रमप्रवेशपुनर्परीक्षायाः परिणामाः प्रकाशिताः। प्रश्नपत्रस्य प्रसारणविवादानन्तरम् आयोजितायां पुनर्परीक्षायां तमिलनाडुराज्यस्य छात्राः स्वामसाधारणां प्रतिभां प्रदर्श्य राष्ट्रियस्तरे स्वस्य विशिष्टां छापां स्थापितवन्तः।
राष्ट्रियपरीक्षासंस्थया प्रत्येकराज्यात् एकस्य श्रेष्ठविद्यार्थिनः आधारेण प्रकाशितायां चतुश्चत्वारिंशत् प्रमुखश्रेष्ठविद्यार्थिनां सूच्यां तमिलनाडुराज्यस्य वेङ्कटपति वेलायुधम् उल्लेखनीयाम् उपलब्धिं प्राप्तवान्। सामान्यवर्गसम्बद्धः अयं छात्रः ९९.९९९१५ प्रतिशताङ्कान् प्राप्य राज्यस्तरे प्रथमं स्थानं प्राप्तवान्।
तमिलनाडुराज्यस्य समीपस्थात् केन्द्रशासितप्रदेशात् पुदुचेरीतः कृष्णन्थ अभिनवः पुदुचेरीस्तरे प्रथमं स्थानं प्राप्तवान्। अन्यपिछडावर्गसम्बद्धः अयं छात्रः ९९.९७२१ प्रतिशताङ्कान् प्राप्य अखिलभारतीयक्रमाङ्कसूच्यां पञ्चशतत्रिपञ्चाशदुत्तरपञ्चशततमं स्थानं प्राप्तवान्।
देशव्यापिनां उच्चाङ्कप्राप्तानां अष्टत्रिंशदधिकशतं श्रेष्ठविद्यार्थिनां सूच्यां तमिलनाडुराज्यस्य द्वादश छात्राः छात्र्यश्च स्थानं प्राप्तवन्तः। ते सर्वे एते सन्ति वेङ्कटपति वेलायुधम्, श्रीनिका, सुदर, वनिशा सतीश, सबरी, जयकृष्णा, सम्विधा, नवित्तना, निखिलः, शिवानन्दम्, जननी श्वेता तथा रोहित मैथ्यू। अस्यां परीक्षायां देशव्यापिनः द्वाविंशतिलक्षाधिकाः विद्यार्थी परीक्षायाम् उपविष्टाः।
---------------
Hindusthan Samachar / Dheeraj Maithani