जयप्रकाश-नारायण-सर्वोदय-विद्यालयेषु ट्रान्जिट-छात्रावासनिर्माणाय १२०.१९ लक्ष-रूप्यकाणि अनुमोदितानि
लखनऊनगरम्, १७ जुलाईमासः (हि.स.)। उत्तरप्रदेश-सर्वकारेण चलित-वित्तीयवर्षे २०२६–२७ तमे जयप्रकाश-नारायण-सर्वोदय-विद्यालयेषु बरेली, बदायूँ तथा अमेठी-जनपदेषु ट्रान्जिट-छात्रावास-निर्माणकार्याय अन्तिम-पर्यायरूपेण १२०.१९ लक्ष-रूप्यकाणि अनुमोदितानि। अस्मि
लोगो


लखनऊनगरम्, १७ जुलाईमासः (हि.स.)। उत्तरप्रदेश-सर्वकारेण चलित-वित्तीयवर्षे २०२६–२७ तमे जयप्रकाश-नारायण-सर्वोदय-विद्यालयेषु बरेली, बदायूँ तथा अमेठी-जनपदेषु ट्रान्जिट-छात्रावास-निर्माणकार्याय अन्तिम-पर्यायरूपेण १२०.१९ लक्ष-रूप्यकाणि अनुमोदितानि।

अस्मिन् विषये निर्गते शासनादेशे उक्तं यत् जयप्रकाश-नारायण-सर्वोदय-विद्यालयाय मनौना, आँवला, बरेली इत्यत्र ३२.१८ लक्ष-रूप्यकाणि, जयप्रकाश-नारायण-सर्वोदय-विद्यालयाय भोजीपुरा, बरेली इत्यत्र ४०.८१ लक्ष-रूप्यकाणि, जयप्रकाश-नारायण-सर्वोदय-विद्यालयाय समरेर, बदायूँ इत्यत्र ३५.३६ लक्ष-रूप्यकाणि, तथा जयप्रकाश-नारायण-सर्वोदय-विद्यालयाय असैदापुर, अमेठी इत्यत्र ११.८४ लक्ष-रूप्यकाणि अनुमोदितानि।

Hindusthan Samachar / Divya Ranjan