(अद्यतनम्) उत्तराखण्डे विशेषः ‘अग्निवीर-प्रकोष्ठः’ स्थापितः भविष्यति, होमस्टे-योजनायामपि विशेषानुदानं प्रदास्यते : धामी
देहरादूनम्, १७ जुलाईमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह-धामी शुक्रवासरे घोषणाम् अकरोत् यत् उत्तराखण्डः देशस्य प्रथमं राज्यं भविष्यति, यत्र सेवानिवृत्तानाम् अग्निवीराणां पुनर्वासाय तथा विविध-सर्वकारीय-योजनानां लाभप्रदाय विशेषः ‘अग्नि
कुआंवाला स्थित यूथ फाउंडेशन ट्रेनिंग एरिया में आयोजित 'युवा अग्निवीर संवाद' कार्यक्रम को संबोधित करते हुए मुख्यमंत्री पुष्कर सिंह धामी।


देहरादूनम्, १७ जुलाईमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह-धामी शुक्रवासरे घोषणाम् अकरोत् यत् उत्तराखण्डः देशस्य प्रथमं राज्यं भविष्यति, यत्र सेवानिवृत्तानाम् अग्निवीराणां पुनर्वासाय तथा विविध-सर्वकारीय-योजनानां लाभप्रदाय विशेषः ‘अग्निवीर-प्रकोष्ठः’ स्थापितः भविष्यति। सहैव पर्यटन-विभागस्य होमस्टे-योजनायाः अन्तर्गतं पूर्वसैनिकेभ्यः अग्निवीरेभ्यश्च विशेषानुदानमपि प्रदास्यते।

देहरादूनस्य कुआँवाला-स्थिते यूथ-फाउण्डेशन-प्रशिक्षण-परिसरे आयोजितं ‘युवा-अग्निवीर-संवाद’ कार्यक्रमम् सम्बोधयन् मुख्यमन्त्री उक्तवान् यत् सीमावर्ती-ग्रामेषु स्थानीय-निवासिभ्यः, पूर्वसैनिकेभ्यः अग्निवीरेभ्यश्च स्व-रोजगारेण सम्बद्धानां आधारभूत-सुविधानां विकासाय अपि विशेषानुदानं प्रदास्यते। तेन उक्तं यत् सेनायां सेवा प्रदातुं गच्छतः प्रत्येकस्य युवकस्य सम्मानजनकं भविष्यं सुनिश्चितं करणं राज्य-सर्वकारस्य प्राथमिकता अस्ति।

मुख्यमन्त्री उक्तवान् यत् राज्य-सर्वकारेण सेवानिवृत्तेभ्यः अग्निवीरेभ्यः आरक्षक-विभागे, वन-विभागे, आपदा-प्रबन्धन-विभागेन च सह विविधासु सर्वकारीय-सेवासु १० प्रतिशतं क्षैतिज-आरक्षणम्, अधिकतम-वयोसीमायां शिथिलता, नियुक्ति-प्रक्रियासु प्राधान्यं च प्रदत्तम् अस्ति। तेन उक्तं यत् अग्निवीरत्वं केवलं रोजगारः न, अपितु राष्ट्रसेवायाः सर्वोच्चः अवसरः अस्ति।

धामी उक्तवान् यत् बलिदानी-परिवाराणां सैनिक-परिवाराणां च कल्याणार्थं राज्य-सर्वकारः निरन्तरं कार्यं करोति। शहीद-परिवाराणां अनुग्रह-राशिः १० लक्ष-रूप्यकेभ्यः वर्धयित्वा ५० लक्ष-रूप्यकाणि कृता। आश्रितानां सर्वकारीय-सेवायां समायोजनम्, सर्वकारीय-नियुक्त्यर्थम् आवेदनस्य समय-सीमां द्विवर्षेभ्यः पञ्चवर्षपर्यन्तं वर्धनम्, वीरता-पुरस्कार-प्राप्त-सैनिकानां सम्मानस्य वृद्धिः इत्यादयः उपायाः अपि स्वीकृताः। युद्ध-विधवाभ्यः, दिव्याङ्ग-सैनिकेभ्यः तथा पूर्वसैनिकानां सम्मानजनक-अन्त्येष्ट्यर्थम् अपि आर्थिक-सहायतायाः व्यवस्था कृता अस्ति।

मुख्यमन्त्री उक्तवान् यत् सः स्वयम् एकस्य सैनिकस्य पुत्रः अस्ति तथा सैनिकानां अनुशासनं, त्यागं, राष्ट्रसेवा-भावनां च बाल्यकालादेव पश्यन् आगतः। तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे उत्तराखण्डः विकासस्य सुशासनस्य च मार्गे तीव्रतया अग्रे सरति। समान-नागरिक-संहितायाः, कठोर-नकल-विरोधि-विधेः तथा नियुक्ति-प्रक्रियायाः पारदर्शितायाः उल्लेखं कुर्वन् तेन उक्तं यत् गत-पञ्चवर्षेषु राज्ये ३४ सहस्रेभ्यः अधिकेभ्यः युवभ्यः सर्वकारीय-नियुक्तिः प्रदत्ता।

तेन उक्तं यत् उत्तराखण्डे मदरसा-बोर्ड इति समाप्तः कृतः तथा सर्वेभ्यः गुणवत्तापूर्ण-शिक्षायाः मार्गः प्रशस्तः कृतः। राज्य-सर्वकारः कृषि-पर्यटन-रोजगार-स्वरोजगार-प्रवर्धनाय विविधाः योजनाः सञ्चालयति। गत-चतुर्षु वर्षेषु चारधाम-यात्रा, आदि-कैलाश-यात्रा, शीतकालीन-यात्रा च सहिताभिः विविध-पर्यटन-गतिविधिभिः २४ कोटिभ्यः अधिकाः पर्यटकाः उत्तराखण्डम् आगतवन्तः।

अस्मिन् कार्यक्रमे विधायकः बृजभूषण-गैरोला, यूथ-फाउण्डेशनस्य संस्थापकः कर्नल (सेवानिवृत्तः) अजय-कौठियालः, मेजर-जनरल (सेवानिवृत्तः) गुलाबसिंह-रावतः, जनपदाधिकारी डॉ. आशीष-चौहानः, एसएसपी प्रमेन्द्र-डोभालः इत्येतै: च सह अनेके गणमान्यजनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan