गुरुकुल कांगड़िनः विकासस्य कार्ययोजना केंद्रीय शिक्षा मंत्रिणः समक्षम् उपस्थास्यते : मदन कौशिकः
हरिद्वारम्, 17 जुलाईमासः (हि.स.)।गुरुकुलकाङ्गडीसमविश्वविद्यालछात्राणां सुविधाविस्ताराय विश्वविद्यालयस्य समग्रविकासाय च विस्तृतकार्ययोजनायाः निर्माणप्रक्रिया तीव्रगत्या प्रवर्तते। उत्तराखण्डसर्वकारस्य मन्त्रिपरिषद्सदस्यः मदनकौशिकः अवदत् यत् विश्ववि
यज्ञ में आहूति डालते हुए


हरिद्वारम्, 17 जुलाईमासः (हि.स.)।गुरुकुलकाङ्गडीसमविश्वविद्यालछात्राणां सुविधाविस्ताराय विश्वविद्यालयस्य समग्रविकासाय च विस्तृतकार्ययोजनायाः निर्माणप्रक्रिया तीव्रगत्या प्रवर्तते। उत्तराखण्डसर्वकारस्य मन्त्रिपरिषद्सदस्यः मदनकौशिकः अवदत् यत् विश्वविद्यालयप्रशासनेन निर्मीयमाणा विकासयोजना शीघ्रमेव केन्द्रीयशिक्षामन्त्रिणः धर्मेन्द्रप्रधानस्य पुरतः प्रस्तूयते, येन आवश्यकपरियोजनानां स्वीकृतिः प्राप्तुं शक्येत।

शुक्रवासरे नूतनशैक्षणिकसत्रस्य शुभारम्भावसरे आयोजिते सायंयज्ञे सहभागीभूत्वा मदनकौशिकः कुलपतिना प्रो. प्रतिभामेहतालूथरा इत्यनया सह विश्वविद्यालयस्य विकासयोजनानां विषये विस्तृतं विचारविमर्शम् अकरोत्। सः अवदत् यत् गुरुकुलकाङ्गडी तस्य मातृशिक्षणसंस्था अस्ति, एषः विश्वविद्यालयः च गतचतुर्विंशत्यधिकशतवर्षेभ्यः भारतीयसंस्कृतेः, वैदिकपरम्परायाः तथा राष्ट्रियशिक्षामूल्यानां संरक्षणसंवर्धनयोः महत्त्वपूर्णं योगदानं ददाति।

सः उक्तवान् यत् छात्रेभ्यः उत्तमाः शैक्षणिकसुविधाः प्रदातुं विश्वविद्यालयस्य आधारभूतसंरचनां सुदृढां कर्तुं च व्यापककार्ययोजना निर्मीयते। एतदर्थं विश्वविद्यालयस्य प्रतिनिधिमण्डलं शीघ्रमेव केन्द्रीयशिक्षामन्त्रिणा सह भेंटं करिष्यति।

कार्यक्रमस्य अध्यक्षतां कुर्वती कुलपतिः प्रो. प्रतिभामेहतालूथरा विश्वविद्यालयस्य वर्तमानावश्यकतानां, भाविविकासयोजनानां तथा संसाधनविस्तारस्य रूपरेखां प्रस्तुतवती। सा अवदत् यत् गुणवत्तायुक्तशिक्षायाः, अनुसन्धानस्य तथा आधुनिकसुविधानां विकासाय सर्वेषां स्तराणां सहयोगः अत्यावश्यकः अस्ति।

**अस्मिन्नवसरे आईक्यूएसी-निदेशकः प्रो. पङ्कजमदानः, परीक्षानियन्त्रकः प्रो. एल. पी. पुरोहितः, वित्ताधिकारी प्रो. वी. के. सिंहः, प्रो. देवेन्द्रकुमारगुप्तः, उपकुलसचिवः डॉ. श्वेताङ्कआर्यः, डॉ. दीनदयालः, डॉ. अङ्कितकुमारः, जनसम्पर्काधिकारी डॉ. शिवकुमारचौहानः, कुलभूषणशर्मा तथा विश्वविद्यालयस्य शिक्षकाः, अधिकारिणः, कर्मचारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani