नीति तारा' इत्येतदन्तर्गते डिजिटल टूलकिटद्वारा भविष्यति योजनानां तत्कालं निरीक्षणम्
पौड़ीगढ़वालः, 17 जुलाईमासः (हि.स.)। जनपदे विकासयोजनानां निरीक्षणं अधिकं प्रभावकरं, पारदर्शि तथा प्रौद्योगिकीआधारितं कर्तुं शुक्रवासरे विकासभवनस्य सभागारे नीति-आयोगेन विकसितायाः ‘नीति-तारा’ इति डिजिटल-उपकरणपुञ्जस्य विषये एकदिवसीयं प्रशिक्षणकार्यक्रमम
पौड़ी में नीति आयोग द्वारा विकसित नीति तारा डिजिटल टूल किट पर विभागीय अधिकारी के साथ बैठक लेते सीडीओ


पौड़ीगढ़वालः, 17 जुलाईमासः (हि.स.)।

जनपदे विकासयोजनानां निरीक्षणं अधिकं प्रभावकरं, पारदर्शि तथा प्रौद्योगिकीआधारितं कर्तुं शुक्रवासरे विकासभवनस्य सभागारे नीति-आयोगेन विकसितायाः ‘नीति-तारा’ इति डिजिटल-उपकरणपुञ्जस्य विषये एकदिवसीयं प्रशिक्षणकार्यक्रमम् आयोजितम्।

मुख्यविकासाधिकारी अशोकजोशीस्य अध्यक्षतायाम् आयोजिते अस्मिन् प्रशिक्षणकार्यक्रमे जनपदस्तरीयाधिकारिणः विभिन्नविकासखण्डानां विभागीयाधिकारिणश्च ‘नीति-तारा’ उपकरणपुञ्जस्य सञ्चालनम्, दत्तांशप्रबन्धनम्, विकासयोजनानाम् ऑनलाइन-निरीक्षणसम्बद्धा विस्तृता सूचना प्रदत्ता।

मुख्यविकासाधिकारी प्रशिक्षणावसरे ‘नीति-तारा’ इत्यस्य विविधमॉड्यूलानां व्यवहारिकोपयोगस्य च जानकारीं स्वीकृत्य उक्तवान् यत् एषः डिजिटल-उपकरणपुञ्जः विकासयोजनानां वास्तविकसमये निरीक्षणस्य प्रभावी माध्यमम् अस्ति। सः सर्वान् विभागान् निर्देशितवान् यत् उपकरणपुञ्जस्य नियमितः गम्भीरश्च उपयोगः सुनिश्चितः क्रियताम्, येन आकाङ्क्षिविकासखण्डान् सहितं जनपदे सञ्चाल्यमानानां योजनानां सम्यक् क्रियान्वयनं भवेत् तथा निर्धारितविकासलक्ष्याणि समयबद्धरूपेण साधितुं शक्येरन्।

सः अवदत् यत् जनपदे आरभ्यमाणायाः प्रत्येकायाः नवीनायाः विकासयोजनायाः विवरणं सम्बन्धितविभागैः ‘नीति-तारा’ मञ्चे आरोपितं भविष्यति। अनेन योजनासम्बद्धा सूचना त्वरितं शासनस्तरं प्राप्स्यति तथा तासां प्रगतेः ऑनलाइन-माध्यमेन नियमितमनुश्रवणम् अपि सम्भविष्यति। जनपदविकाससम्बद्धाः सर्वे महत्त्वपूर्णदत्तांशाः एकस्मिन् डिजिटलमञ्चे उपलब्धाः भविष्यन्ति, येन शासनस्तरे समीक्षा, निरीक्षणं, निर्णयप्रक्रिया च अधिकं प्रभावकरी सटीका च भविष्यति। विभागानां मध्ये समन्वयः सुदृढः भविष्यति तथा योजनानां क्रियान्वयनेऽपि शीघ्रता भविष्यति।

प्रशिक्षणकार्यक्रमे मुख्यप्रशिक्षकः मिलन्दचौहानः ‘नीति-तारा’ डिजिटल-उपकरणपुञ्जस्य कार्यप्रणालीम्, विविधमॉड्यूलान्, प्रमुखविशेषतान् तथा विकाससूचकाङ्कानाम् निरीक्षणे तस्य उपयोगितां विस्तरेण निरूपितवान्। तेन उक्तं यत् आकाङ्क्षिविकासखण्डकार्यक्रमस्य अन्तर्गतं विभागीयसमन्वयस्य सुदृढीकरणाय, दत्तांशाधारितयोजनानिर्माणस्य प्रोत्साहनाय तथा विकासकार्याणां प्रभाविसमीक्षार्थम् एषः उपकरणपुञ्जः विकसितः।

मुख्यप्रशिक्षकः सौरभवर्मा अवदत् यत् ‘नीति-तारा’ केवलं दत्तांशसङ्कलनस्य माध्यमं नास्ति, अपितु निर्णयप्रक्रियां अधिकां सटीकां पारदर्शिनीं परिणामोन्मुखीं च निर्मातुं समर्थः डिजिटलमञ्चः अस्ति। सः अपि उक्तवान् यत् यदि सर्वे विभागाः नियमितरूपेण गुणवत्तायुक्तान् अद्यतनदत्तांशान् प्रदास्यन्ति, तर्हि योजनानां वास्तविकप्रगतिम् सम्यक् मूल्याङ्कयित्वा श्रेष्ठफलानि प्राप्तुं शक्यन्ते।

अस्मिन् प्रशिक्षणकार्यक्रमे परियोजनानिदेशकः डीआरडीए विवेककुमारोपाध्यायः, जिलाविकासाधिकारी रमेशचन्द्रः, अर्थसंख्याधिकारी रामसलोने, मुख्यपशुचिकित्साधिकारी डॉ. विशालशर्मा, मुख्यशिक्षाधिकारी अत्रेशसयाना, लीडबैङ्काधिकारी किशनरावतः, खण्डविकासाधिकारी बी. डी. रतूड़ी, अपरजिलासमाजकल्याणाधिकारी अनिलसेमवालः तथा अन्ये अधिकारिणः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani