Enter your Email Address to subscribe to our newsletters

नैनीतालम्, १७ जुलाईमासः (हि.स.)। नैनीताल-नगरे बाह्य-जनपदेभ्यः आगतानां द्विचक्रवाहनानि प्रति १००-रूप्यक-प्रवेशशुल्कस्य संग्रहणसम्बद्धे निर्णयस्य कार्यान्वयनं नगरपालिकया सम्प्रति स्थगितम्। वर्धमान-विवादस्य तथा विविध-सङ्गठनानां विरोधस्य मध्ये नगरपालिकया अग्रिमादेशपर्यन्तं शुल्कसंग्रहणं स्थगितम् अस्ति।
नगरपालिका-अध्यक्षा डॉ. सरस्वती-खेतवाल तथा अधिशासी-अधिकारी रोहिताश-शर्मा एतद्विषये सूचनाम् अयच्छताम्।
डॉ. खेतवाल: उक्तवती यत् अधुना एतादृशी व्यवस्था निर्मीयते, यस्यान्तर्गतं बाह्य-जनपद-सङ्ख्याङ्कित-द्विचक्रवाहनानि चालयन्तः नैनीतालस्य स्थानीय-निवासिनः परिचयपत्रस्य आधारेण परिचिताः भविष्यन्ति, तथा च नगरे कार्यरतानां बाह्य-जनपद-वाहनस्वामिनां कृते विशेष-श्लेषचित्राणि प्रदास्यन्ते। एतेषां श्लेषचित्राणां माध्यमेन तादृशानि वाहनानि शुल्कं विना नगरे प्रवेशं कर्तुं शक्नुवन्ति। अन्येषां बाह्य-जनपदानां द्विचक्रवाहनेषु प्रवेशशुल्कं यथावत् प्रवर्तिष्यते।
तया उक्तं यत् लेक-ब्रिज-चुङ्गी-व्यवस्थायाः मूलोद्देश्यं नगरपालिकायाः आयवृद्धिः नास्ति, अपितु नैनीताल-नगरे वाहनानां सम्मर्दं न्यूनीकर्तुम् अस्ति। या जनाः प्रवेशशुल्कं दातुम् न इच्छन्ति, ते नगरात् बहिः निर्धारितेषु वाहन-स्थापन-स्थलेषु स्ववाहनानि स्थापयित्वा अन्यैः साधनैः नगरं प्रवेष्टुं शक्नुवन्ति। अनेन नगरे यातायातस्य प्रभावं न्यूनीकर्तुं साहाय्यं भविष्यति। सा पुनरपि आश्वासनम् अयच्छत् यत् नगरे कार्यरतानां अधिवक्तॄणां सहितं कस्यापि स्थानीय-आवश्यकतायुक्तस्य जनस्य नूतन-व्यवस्थया काप्यसुविधा न भविष्यति।
उल्लेखनीयम् अस्ति यत् अस्य निर्णयस्य विरोधे सत्तारूढेन भारतीयजनतापक्षेण नगरपालिकायाः पुतला-दहनस्य तथा आन्दोलनस्य तीव्रीकरणस्य संचेतना दत्ता आसीत्। अपरतः काङ्ग्रेस-दलेन अपि अस्य व्यवस्थायाः विरोधः कृतः। काङ्ग्रेस-दलस्य पूर्व-नगराध्यक्षः अनुपम-कबड़वाल: प्रश्नम् उत्थापितवान् यत् केवलं यूके-०४ सङ्ख्याङ्कित-वाहनानामेव शुल्क-मुक्तिः पर्याप्ता नास्ति, यतः नैनीताल-जनपदस्य रामनगर-क्षेत्रे पञ्जीकृतानां वाहनानां सङ्ख्याङ्काः यूके-१९ इत्यनेन आरभन्ते, तान्यपि शुल्क-परिधौ आगन्तव्यानि। अस्य विरोधस्य अनन्तरं नगरपालिकया सम्प्रति शुल्कसंग्रहणं स्थगयित्वा नूतन-व्यवस्थायाः विषये विचारः आरब्धः।
Hindusthan Samachar / Divya Ranjan