Enter your Email Address to subscribe to our newsletters

— २२ जुलाईमासे जनपदस्य त्रिषु विधानसभासु बूथ-सम्मेलनानि भविष्यन्ति।
औरैयानगरम्, १७ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य औरैया-जनपदे भारतीय-जनता-पक्षस्य जनपद-इकाई अग्रिम-विधानसभा-निर्वाचनस्य सिद्धतां तीव्रीकर्तुं शुक्रवासरे तुर्कीपुर-स्थिते जनपद-कार्यालये जनपद-पदाधिकरिणां, मण्डलाध्यक्षानां महामन्त्रिणां च सभाम् आयोजितवती। अस्याः सभायाः अध्यक्षतां जनपदाध्यक्षः सर्वेश-कठेरिया अकरोत्, मुख्यातिथिरूपेण च क्षेत्रीय-उपाध्यक्षः जनपद-प्रभारी आनन्दसिंहः उपस्थितः आसीत्।
सभायां २२ जुलाईमासे जनपदस्य त्रिषु विधानसभा-क्षेत्रेषु आयोज्यमानानां बूथ-सम्मेलनानां सफलतार्थं विस्तृता रणनीतिः निर्मिता। अस्मिन् अवसरे बूथ-स्तरपर्यन्तं संघटनस्य सुदृढीकरणाय सम्मेलनस्य सफल-सञ्चालनाय च विस्तरेण चर्चा अभवत्।
मुख्यातिथिः आनन्दसिंहः अवदत् यत् विधानसभा-निर्वाचने विजयस्य आधारशिला बूथ-स्तरे सुदृढ-संगठनमेव अस्ति। सः कार्यकर्तृभ्यः “बूथं जयत, निर्वाचनं जयत” इति मन्त्रं दत्त्वा बूथ-समितीनां समीक्षां कृतवान् तथा तासां सक्रियतायां वृद्धिं कर्तुं विशेषं बलम् अददात्।
जनपदाध्यक्षः सर्वेश-कठेरिया अवदत् यत् विधानसभा-निर्वाचने विजयस्य सुनिश्चित्यर्थं पक्षः किमपि न्यूनं न करिष्यति। तेन सूचितं यत् २२ जुलाईमासे जनपदस्य तिसृषु विधानसभासु एकस्मिन्नेव काले बूथ-सम्मेलनानि आयोज्यन्ते। सः सर्वान् मण्डलाध्यक्षान् प्रति प्रत्येकस्मिन् बूथ-इत्यत्र सभा: आयोज्य सम्मेलनस्य सफलतार्थं कार्यकर्तॄन् सक्रियान् कर्तुम् आहूतवान्।
तेन उक्तं यत् प्रधानमन्त्रीण: नरेन्द्रमोदिनः तथा मुख्यमन्त्रीण: योगी-आदित्यनाथस्य जनकल्याणकारी-योजनाभिः जनाः लाभान्विताः भवन्ति तथा प्रदेशे पुनरेकवारं भारतीय-जनता-पक्षस्य सर्वकार-गठनस्य अनुकूलं वातावरणं विद्यते।
सभायाः सञ्चालनं जनपद-महामन्त्री यशवीर-सिकरवारः अकरोत्। अस्मिन् अवसरे जनपद-महामन्त्री विशाल-शुक्लः, मनु-राजपूतः, योगेन्द्र-कैथवारः, भूरे-चौबे, इन्द्रपाल-पालः, मञ्जू-चौहानः, प्रतीक-सिंहः, आशीष-दुबे, आदर्श-ठाकुरः, मोनू-सेंगरः, वासुदेव-प्रजापतिः, सुनील-वाल्मीकिः, कुँवर-सिंह-बाथमः, कौशलेन्द्र-कुशवाहः, रामजी-वाजपेयी, सर्वेन्द्र-भदौरियः, शिवेन्द्र-राजपूतः, अवध-चतुर्वेदी, दीपक-कश्यपः, सन्दीप-शाक्यः, राजवर्धन-सिंहः, हरपाल-सिंहः, आशीष-कठेरिया, सौरभ-राजपूतः, जगमोहन-सिंह-चौहानः, श्याम-महेश-मिश्रः, स्वदेश-पालः तथा सर्वे मण्डलाध्यक्षाः महामन्त्रिणश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan