Enter your Email Address to subscribe to our newsletters

बलिया, १७ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य बलिया-जनपदे स्थिते सनबीम-विद्यालये शुक्रवासरे पठन-महोत्सवस्य आयोजनम् अभवत्। अस्मिन् अवसरे विद्यालये उपस्थितस्य प्रत्येकं विद्यार्थिनः हस्ते पुस्तकं दृष्टम्। सनबीम-विद्यालये प्रतिवर्षं १३ जुलाईमासतः २५ जुलाईमासपर्यन्तं विद्यार्थिषु पठनरुचिं जनयितुं तथा पठनस्य महत्त्वेन परिचयं कारयितुं पठन-महोत्सवस्य आयोजनं क्रियते।
अस्य कार्यक्रमस्य एक-होरायाः अवधि निर्धारितासीत्। अस्मिन् काले सर्वैः स्वस्व-रुच्यनुसारं कथा, कविता इत्यादीनां पठनं कृतम्। सत्रस्य समापनानन्तरम् आयोजिते प्रश्नोत्तर-सत्रे बालकैः पठितानां कथानां तेषां पात्राणां च विषये अत्यन्तं सम्यक् उत्तराणि प्रदत्तानि।
विद्यालयस्य निदेशकः डॉ. कुँवर-अरुणसिंहः विद्यार्थिनः सम्बोधयन् अवदत् यत् पुस्तक-पठनेन यत् नेत्रयोः सुखं मानसिक-शान्तिश्च प्राप्यते, तत् कस्यापि डिजिटल-पटलस्य माध्यमेन प्राप्तुं न शक्यते।
अस्मिन् अवसरे विद्यालयस्य सचिवः श्रीवत्ससिंहः, उपप्रधानाचार्यः पङ्कजसिंहः, वैश्विक-समन्वयिका सहर-बानो, प्रधानाध्यापिका नीतू-पाण्डेय:, समन्वयकः जयप्रकाश-यादवः, प्रशान्त-उपाध्यायः इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan