सपा-काङ्ग्रेस-दले जिन्नाया: उपासके स्त: : योगी-आदित्यनाथः
शामली, १७ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः शुक्रवासरे शामली-जनपदस्य प्रवासे आगतः। तेन ५८१-कोटि-रूप्यक-मूल्यानां ८९ विकास-परियोजनानां लोकार्पणं शिलान्यासं च कृतम्। अस्मिन् अवसरे स्वसम्बोधने सः समाजवादी-पक्षं काङ्ग्रेस-द
कार्यक्रम को संबोधित करते हुए मुख्यमंत्री योगी आदित्यनाथ


शामली, १७ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः शुक्रवासरे शामली-जनपदस्य प्रवासे आगतः। तेन ५८१-कोटि-रूप्यक-मूल्यानां ८९ विकास-परियोजनानां लोकार्पणं शिलान्यासं च कृतम्। अस्मिन् अवसरे स्वसम्बोधने सः समाजवादी-पक्षं काङ्ग्रेस-दलं जिन्ना-उपासक-दले इति अभिहितवान्।

मुख्यमन्त्री योगी-आदित्यनाथः अवदत् यत् २०१७ वर्षात् पूर्वं राज्ये सुप्तवत् कार्यं कुर्वन् सर्वकारः आसीत्। सा स्वकर्तव्येषु प्रमत्ता आसीत्। प्रदेशस्य जनसांख्यिक-स्वरूपं परिवर्तयितुं प्रयासाः क्रियमाणाः आसन्। कांवड-यात्रायाः आयोजनं बाधितम् आसीत्, कृष्ण-जन्माष्टमी-उत्सवस्य आयोजनमपि निरुद्धम् आसीत्। अधुना उत्तरप्रदेशः पूर्णतया परिवर्तितः अस्ति।

तेन उक्तं यत् शामली-जनपदः इक्षोः माधुर्येण प्रसिद्धः अस्ति। दशवर्षेभ्यः पूर्वं जनाः पृच्छन्ति स्म— “शामली-जनपदः कुत्र अस्ति, यत्र एतादृशी भीतिः व्याप्ता अस्ति?” तदा पलायनं भवति स्म, सर्वत्र दुष्टजनानां अत्याचारः आसीत्, कश्चिदपि सुरक्षितः नासीत्। षड्यन्त्रपूर्वकं प्रदेशस्य जनसांख्यिक-स्वरूपं परिवर्तयितुं प्रयत्नाः भवन्ति स्म। विकासकार्याणि स्थगितानि आसन्। युवानः निराशाः आसन्, कृषकाः आत्महत्यां कर्तुं विवशाः आसन्, भगिन्यः कन्याश्च गृहात् बहिर्गन्तुं बिभ्यति स्म। उद्योगाः विनष्टाः आसन्, मार्गाः गर्तपूर्णाः अभवन्, विद्युत्सेवापि सम्यक् नासीत्।

अधुना कैराना-शामली-प्रदेशयोः विकासं दृष्ट्वा मम अन्तःकरणे महान् हर्षः जायते। यथा प्रयागराजः गङ्गा-यमुना-सरस्वती-त्रिवेण्याः संगमेन प्रसिद्धः अस्ति, तथैव पश्चिमोत्तरप्रदेशे शामली अधुना दिल्ली-देहरादून-एक्सप्रेस-वे, शामली-अम्बाला-एक्सप्रेस-वे तथा गोरखपुर-शामली-एक्सप्रेस-वे इत्येषां संगम-प्रदेशः अभवत्। एतादृशं आधारभूत-संरचनात्मक-विकासः भविष्ये शामली-जनपदं राष्ट्रीय-राजधानी-प्रदेशस्य समृद्धतमेषु जनपदेषु स्थापयिष्यति।

जनैः सह प्रत्यक्ष-संवादं कुर्वन् सः अवदत् यत् दशवर्षेभ्यः पूर्वं जनाः विद्युत्-आपूर्तये प्रतीक्षमाणाः आसन्। अधुना शामली-जनपदात् ४०० केवी-विद्युत्केन्द्रस्य माध्यमेन पश्चिमोत्तरप्रदेशे विद्युत्-आपूर्तिः क्रियते। तस्मिन् काले चिकित्सासुविधाः अत्यल्पाः आसन्। अस्माकं सर्वकारस्य प्रथमेषु त्रिषु वर्षेषु (२०१७–२०२०) कृतस्य विकासस्य फलरूपेण कोरोना-महामारी-समये (२०२०–२०२१) दिल्ली-प्रदेशात् समीपवर्ती-जनपदेभ्यश्च जनाः उपचारार्थं अत्र आगच्छन्। एषः द्वि-इञ्जिन-सर्वकारस्य विकास-आदर्शः अस्ति।

मुख्यमन्त्री योगी-आदित्यनाथः स्वसर्वकारस्य उपलब्धीः गणयन् अवदत् यत् केन्द्र-राज्य-सर्वकारौ संयुक्तरूपेण शामली-जनपदस्य प्रगतिं साधयतः। सः अवदत् यत् स्वतन्त्र-भारतस्य इतिहासे चौधरी-चरणसिंहस्य अनन्तरं यदि कश्चन इक्षु-निर्ज्ञाणीनां हिताय कार्यम् अकरोत्, तर्हि पूर्वमन्त्री सुरेश-राणा एव। अधुना राज्ये १२२ इक्षु-शर्करा-निर्माणानि सञ्चलन्ति। इक्षुमूल्यं वर्धयित्वा ४०० रूप्यकाणि प्रति कुन्तलं निर्धारितम् अस्ति। २००७ तः २०१७ पर्यन्तं समाजवादी-पक्ष-बहुजन-समाज-पक्ष-सर्वकारयोः काले २९ शर्करा-निर्माणानि पिहितानि आसन्। तानि पुनः आरभ्य सञ्चालितानि सन्ति। अधुना शर्करा-उत्पादने तथा एथनाल-उत्पादने उत्तरप्रदेशः देशे प्रथमस्थानम् अधिगतवान्।

अन्ते सः अवदत्— “समाजवादी-पक्षः काङ्ग्रेस-दलं च जिन्ना-उपासक-दले स्तः। तयोः शासनकाले पलायनं भवति स्म। वयं तु इक्षु-कृषकाणाम् उपासकाः स्मः। जिन्ना-उपासकाः केवलं समाजस्य विभाजनमेव करिष्यन्ति।”

Hindusthan Samachar / Divya Ranjan