Enter your Email Address to subscribe to our newsletters

लखनऊ, १७ जुलाईमासः (हि.स.)। मुख्यमन्त्रिणः योगी-आदित्यनाथस्य हस्तनिर्मितं चित्रम् आदाय एकः युवकः शामली-जनसभां प्राप्तवान्। सः मण्डपे स्थित्वा तत् चित्रं मञ्चाभिमुखं प्रदर्शयन् आसीत्। सम्बोधनस्य समाप्तेः अनन्तरं मुख्यमन्त्रिणः योगी-आदित्यनाथस्य दृष्टिः तस्मिन् युवके पतिता। ततः तेन सुरक्षाकर्मचारिणः आदेशं दत्त्वा तं युवकं मञ्चम् आह्वापितवान्। युवकः मञ्चम् आगत्य मुख्यमन्त्रिणे योगी-आदित्यनाथाय तत् चित्रम् उपायनरूपेण समर्पितवान्। मुख्यमन्त्री तेन सह संवादमपि अकरोत्। यदा युवकः मुख्यमन्त्रिणः पादौ अस्पृशत् तदा मुख्यमन्त्री तस्मै आशीर्वदन् तस्य पृष्ठम् अपि सस्नेहं अताडयत्।
कार्यक्रमात् पूर्वं मुख्यमन्त्री योगी-आदित्यनाथः कैराना-क्षेत्रे निर्माणाधीनस्य पीएसी-परिसरस्य निरीक्षणमपि अकरोत्। तत्र प्रचलमान-कार्याणां विस्तृतां सूचनाम् अलभत। ततः प्रशासनिक-अधिकारिभ्यः निर्माण-कार्यं कुर्वत्यै संस्थायै च निर्धारित-समयसीमायाः अन्तर्गतं गुणवत्तापूर्णं कार्यं सम्पन्नं कर्तुम् निर्देशान् अददात्।
मुख्यमन्त्री जनसभा-स्थले चयनिताभ्यः आङ्गनबाडी-कार्यकर्तृभ्यः नियुक्तिपत्राणि प्रदत्तवान्। तेन विविध-जनकल्याण-योजनानां लाभार्थिभ्यः स्वीकृतिपत्राणि, कुञ्चिकाः, धनादेशाः इत्यादयः अपि वितरिताः।
मुख्यमन्त्रिणः योगी-आदित्यनाथस्य करकमलाभ्यां सम्मानिताः लाभार्थिनः—
रूबी — आङ्गनबाडी-कार्यकर्त्री, नियुक्तिपत्रम्।
निगम: — आङ्गनबाडी-कार्यकर्त्री, नियुक्तिपत्रम्।
जयसिंहः — कृषि-यन्त्र-योजनान्तर्गतं ट्रैक्टरस्य कुञ्चिका।
राजपालः — प्रधानमन्त्री-आवास-योजना (नगरीया) इत्यन्तर्गतं स्वीकृतिपत्रम्।
सुनीता — प्रधानमन्त्री-आवास-योजना (नगरीया) इत्यन्तर्गतं स्वीकृतिपत्रम्।
ब्रजेशः — प्रधानमन्त्री-आवास-योजना (ग्रामीण) इत्यन्तर्गतं गृहस्य कुञ्चिका।
गीता — ग्रामीण-आजीविका-अभियानान्तर्गतं ५.८३ कोटि-रूप्यकेभ्यः अधिकमूल्यस्य धनादेशः।
सरिता तथा अनिता — ई-त्रिचक्रिकायानस्य कुञ्चिका।
निशान्त-जैनः — मुख्यमन्त्री-युवा-स्वरोजगार-योजनान्तर्गतं २५ लक्ष-रूप्यकाणां धनादेशः।
नाजिमः — मुख्यमन्त्री-युवा-उद्यमी-विकास-अभियानान्तर्गतं ३.३१ लक्ष-रूप्यकाणां धनादेशः।
नौशिदा — निराश्रित-महिला-पेन्शन-योजनान्तर्गतं स्वीकृतिपत्रम्।
अक्षिता-जैनः — मुख्यमन्त्री-बाल-सेवा-योजनान्तर्गतं स्वीकृतिपत्रम्।
निकिता-चौधरी — मुख्यमन्त्री-बाल-सेवा-योजनान्तर्गतं स्वीकृतिपत्रम्।
Hindusthan Samachar / Divya Ranjan