Enter your Email Address to subscribe to our newsletters



— द्वितीयदिने श्वेत-रक्तवर्णीय-पुष्पैः विशेष-श्रृङ्गारः, छौङ्कीकृत-मुद्गः, चणकः, खाण्डसारी-जम्बीर-तुलसीयुक्त-शीतपेयस्य नैवेद्यं समर्पितम्।
वाराणसी, १७ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिक-नगरे वाराणस्यां आयोजिते २२४-वर्ष-प्राचीने विश्वविख्याते त्रिदिवसीये लक्खा-रथयात्रा-मेलापके द्वितीयदिने शुक्रवासरे श्रद्धा-भक्त्योः उत्साहस्य च अद्भुतः संगमः दृष्टः। मेघाच्छन्न-आकाशे, उष्ण-आर्द्र-वातावरणे मध्ये मध्ये तीव्र-सूर्यप्रकाशस्य उपस्थितावपि सहस्रशः श्रद्धालवः भगवन्तं जगन्नाथं, ज्येष्ठभ्रातरं बलभद्रं भगिनीं सुभद्रां च द्रष्टुं दिनं यावत् समागच्छन्। प्रातःकालादेव श्रद्धालुभिः भगवत: जगन्नाथस्य विशालस्य अष्टकोणात्मक-रथस्य प्रदक्षिणा कृता, तस्य चक्राणि स्पृष्ट्वा रथस्य प्रतीकात्मकतया पञ्च-पदानि आकर्षणस्य परम्परा निर्वुढा।
लोकविश्वासानुसारम् एवं कृत्वा कुले सुख-समृद्धि-मङ्गलानां प्राप्तिः भवति। सम्पूर्णे मेलापक-प्राङ्गणे जय जगन्नाथ तथा हर-हर महादेव इति घोषाः निरन्तरं प्रतिध्वनिताः। प्रभाते पूजारी राधेश्याम-पाण्डेयस्य नेतृत्वे भगवत: जगन्नाथस्य, बलभद्रस्य, सुभद्रायाश्च मङ्गलारार्तिकी सम्पन्ना। ततः त्रिभ्यः काष्ठ-विग्रहेभ्यः रक्तवर्णीय-वस्त्राणि धारितानि, श्वेत-रक्तवर्णीय-पुष्पैश्च विशेष-श्रृङ्गारः कृतः। गुलाब-पुष्पाणां सुगन्धे प्रसृते भगवते छौङ्कीकृत-मुद्गः, चणकः, पेडा, गुडः तथा खाण्डसारी-जम्बीर-तुलसीयुक्तं शीतपेयं नैवेद्यरूपेण समर्पितम्।
मङ्गलारार्तिक्या: अनन्तरं दर्शन-पूजनस्य क्रमः आरब्धः, यः रात्रौ शयनारार्तिपर्यन्तं प्रवर्तते। श्रद्धालवः हस्तेषु तुलसीमालां नानखटाई च धारयन्तः पङ्क्तिबद्धाः सन्तः प्रभोः दर्शनम् अकुर्वन्। अस्मिन् अवसरे भजनमण्डलीभिः जगन्नाथस्वामिनः स्तुतौ भक्तिगीतानि प्रस्तुतानि, येन सम्पूर्णः परिसरः भक्तिरसेन परिपूर्णः अभवत्।
दर्शनानन्तरं श्रद्धालुभिः मेलापके चाट्, गोलगप्पा, चाउमीन इत्यादीनां विविध-भोजनानां स्वादः आस्वादितः। नानखटाई, क्रीडनकानि तथा गृह-उपयोगि-वस्तूनां क्रयणमपि कृतम्। बालकैः गुब्बारैः, क्रीडनकैः तथा दोलासु सम्यक् आनन्दः अनुभूतः। मेलापके अतिविशाल-जनसमागमस्य कारणात् रथयात्रा, सिगरा, कमच्छा तथा लक्सा-क्षेत्रेषु आदिवसं यातायातः प्रभावितः आसीत्।
— पूर्वकाशी-नरेशस्य वंशजेन दर्शनं कृतम्
मेलापकस्य द्वितीयदिने पूर्वकाशी-नरेशस्य वंशजः डॉ. अनन्तनारायणसिंहः स्वपुत्राभ्यां सह भगवत: जगन्नाथस्य दर्शनार्थम् आगतः। तेन परम्परानुसारम् सामान्य-श्रद्धालुवत् अष्टकोणात्मक-रथस्य चक्रं स्पृष्टम्। जगन्नाथ-न्यासस्य पदाधिकारिभिः तस्य स्वागतं कृत्वा प्रभवे मालां प्रसादं च समर्पितम्।
— भैरवतडागेऽपि श्रद्धालूनां महान् सम्मर्द:
वाराणस्याः ग्रामीण-प्रदेशे राजातडाग-स्थिते भैरवतडागे आयोजितस्य द्विदिवसीय-रथयात्रा-मेलापकस्य अन्तिमदिनेऽपि श्रद्धालूनां महान् सम्मर्द: अभवत्। भगवत: जगन्नाथस्य दर्शन-पूजनेन सह बालकैः महिलाभिश्च दोला, सर्कस तथा मायाविनः क्रीडानां सम्यक् आनन्दः अनुभूतः। गुब्बार-विक्रय-स्थानेषु, क्रीडनक-विक्रय-स्थानेषु, मिष्टान्न-विक्रय-स्थानेषु, आम्र-फल-विक्रय-स्थानेषु तथा नानखटाई-विक्रय-स्थानेषु आदिवसं क्रेतॄणां बहुल: सम्मर्द: आसीत्।
रथयात्रा-मेलापक-सुरक्षा-समितेः स्वयंसेवकैः सह राजातडाग:, रोहनिया, जंसा, कपसेठी तथा मिर्जामुराद-स्थानकानां आरक्षकबलं सुरक्षा-व्यवस्थायां सज्जम् आसीत्। अग्निशमन-दलस्य तथा पीएसी-बलस्य सैनिका: अपि सम्पूर्णे मेलापक-परिसरे नियुक्ताः आसन्। उल्लेखनीयम् अस्ति यत् मेलापकस्य प्रथमदिने पूर्वकाशी-नरेशस्य वंशजः महाराज-कुँवर-अनन्तनारायणसिंहः राजातडागस्थिते रानी-विपणे भगवत: जगन्नाथस्य पूजनं कृत्वा रथयात्रायाः शुभारम्भम् अकरोत्। ततः श्रद्धालुभिः रज्जुभिः भगवत: रथम् आकृष्य राजातडाग, कचनार तथा ओदर-मार्गेण भैरवतडाग-स्थितं मेलापक-प्राङ्गणं प्राप्तः।
Hindusthan Samachar / Divya Ranjan