Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 18 जुलाईमासः (हि.स.)।
वर्षस्य २०२४ तमस्य कृते द्विसप्ततितमस्य राष्ट्रियचलच्चित्रपुरस्कारस्य घोषणाः कृताः। एते प्रतिष्ठिताः पुरस्काराः भारतीयचलच्चित्रजगति दीर्घचलच्चित्रेषु लघुचलच्चित्रेषु चलचित्रलेखनक्षेत्रे च उत्कृष्टयोगदानस्य सम्मानार्थं प्रदीयन्ते।
अस्मिन् वर्षे आर्टिकल ३७० नामकचलच्चित्रेण सर्वश्रेष्ठदीर्घचलच्चित्रस्य पुरस्कारः प्राप्तः। अस्य चलच्चित्रस्य निर्मातारौ जियो स्टूडियोज तथा बी६२ स्टूडियोज स्तः। अस्य निर्देशनं आदित्यसुहासजंभाले इत्यनेन कृतम्।
नेशनल मीडिया सेन्टर इत्यत्र आयोजितायां पत्रकारवार्तायां दीर्घचलच्चित्रनिर्णायकसमितेः अध्यक्षः जयराजः अवदत् यत् अभिनयवर्गे मलयालमभाषायाः ब्रमायुगम् नामकचलच्चित्रस्य कृते ममूटी तथा हिन्दीभाषायाः चन्दू चैम्पियन नामकचलच्चित्रस्य कृते कार्तिकार्यन इत्येताभ्यां संयुक्तरूपेण सर्वश्रेष्ठमुख्याभिनेतृपुरस्कारः प्रदत्तः। आर्टिकल ३७० नामकचलच्चित्रे प्रभावपूर्णाभिनयस्य कृते यामी गौतम इत्यस्यै सर्वश्रेष्ठमुख्याभिनेत्रीपुरस्कारः प्रदत्तः।
निर्देशनक्षेत्रे रणदीप हुड्डाद्वारा स्वस्य प्रथमेन निर्देशितेन स्वातन्त्र्य वीर सावरकर नामकचलच्चित्रेण सर्वश्रेष्ठनवोदितनिर्देशकपुरस्कारः प्राप्तः। तमिलभाषायाः अमरन् नामकचलच्चित्रस्य कृते राजकुमार पेरियासामी सर्वश्रेष्ठनिर्देशकत्वेन चयनितः।
मनोरञ्जनतथा तन्त्रज्ञानसम्बद्धासु श्रेणीषु अपि अनेकानि चर्चितचलच्चित्राणि पुरस्कृतानि। कल्कि २८९८ एडी इति चलच्चित्रं सम्पूर्णमनोरञ्जनप्रदायि सर्वश्रेष्ठलोकप्रियचलच्चित्रत्वेन सम्मानितम्। तदेव चलच्चित्रं सर्वश्रेष्ठनिर्माणरचनापुरस्कारमपि प्राप्तवत्। पुष्पा द रूल पार्ट २ इत्यस्मै सर्वश्रेष्ठमौलिकपटकथापुरस्कारः तथा सर्वश्रेष्ठवेशभूषारचनापुरस्कारः प्रदत्तः। भूल भुलैया ३ इत्यस्मै सर्वश्रेष्ठध्वनिरचनापुरस्कारः, स्त्री २ इत्यस्य आज की रात इति गीतस्य कृते सर्वश्रेष्ठनृत्यरचनापुरस्कारः, महाराजा इत्यस्मै सर्वश्रेष्ठयुद्धदृश्यनिर्देशनपुरस्कारः च प्रदत्तः। अन्येषु प्रमुखपुरस्कारेषु कैप्टन मिलर राष्ट्रीयसामाजिकपर्यावरणीयमूल्यप्रवर्धकसर्वश्रेष्ठदीर्घचलच्चित्रत्वेन सम्मानितम्। ३५ चिन्ना कथा काडु सर्वश्रेष्ठबालचलच्चित्रत्वेन चयनितम्।
सहायकाभिनयवर्गे भक्षक नामकचलच्चित्रस्य कृते संजय मिश्र सर्वश्रेष्ठसहायकाभिनेतृपुरस्कारम् अलभत। महाराजा नामकचलच्चित्रस्य सचाना नामीदास तथा मिथ्या नामकचलच्चित्रस्य रूपाश्री वारकडी इत्येते संयुक्तरूपेण सर्वश्रेष्ठसहायकाभिनेत्रीपुरस्कारस्य भागिन्यौ अभवताम्। मिथ्या, ३५ चिन्ना कथा काडु, ओन्को की कठिन इत्येषु चलच्चित्रेषु अभिनयं कृतवन्तः बालकलाकाराः सर्वश्रेष्ठबालकलाकारपुरस्कारैः सम्मानिताः।
सङ्गीतवर्गे आर्टिकल ३७० इत्यस्य कृते शाश्वत सचदेव सर्वश्रेष्ठगीतसङ्गीतनिर्देशनपुरस्कारम् अलभत। अमरन् इत्यस्य कृते जी वी प्रकाश कुमार सर्वश्रेष्ठपार्श्वसङ्गीतनिर्देशनपुरस्कारम् अलभत। मैदान इत्यस्य जाने दो इति गीतस्य कृते मनोज मुंतशिर सर्वश्रेष्ठगीतकारत्वेन चयनितः।
लघुचलच्चित्रवर्गे भंगार सर्वश्रेष्ठलघुचलच्चित्रपुरस्कारम् अलभत। राम नामी सर्वश्रेष्ठवृत्तचित्रपुरस्कारम्, अंगेन सर्वश्रेष्ठनवोदितनिर्देशकपुरस्कारम्, स्टैच्यू ऑफ यूनिटी एकता का प्रतीक इत्यस्य कृते आनन्द एल राय सर्वश्रेष्ठनिर्देशकपुरस्कारम् अलभत।
चलच्चित्रलेखनवर्गे नानिरुवुदे निमगागी नाडिरुवुदे ननगागी कन्नड़ सिनेमा का दर्शन और राजनीति इति ग्रन्थः सर्वश्रेष्ठग्रन्थपुरस्कारम् अलभत। संजीव श्रीवास्तव सर्वश्रेष्ठचलच्चित्रसमीक्षकत्वेन चयनितः।
पुरस्काराणां घोषणां दीर्घचलच्चित्रनिर्णायकसमितेः अध्यक्षः जयराजः, लघुचलच्चित्रनिर्णायकसमितेः अध्यक्षः असीम सिन्हा तथा चलचित्रलेखननिर्णायकसमितेः अध्यक्षः ए चन्द्रशेखरः नवीदिल्लीनगरे अकुर्वन्। अस्मिन्नवसरे संयुक्तसचिवः डा अजय नागभूषण एम एन तथा प्रेस सूचना ब्यूरो इत्यस्य प्रधानमहानिदेशकः धीरेंद्र ओझा अपि उपस्थितौ आस्ताम्।
द्विसप्ततितमाः राष्ट्रियचलच्चित्रपुरस्काराः २०२४
दीर्घचलच्चित्रवर्गे विजेतारः
सर्वश्रेष्ठदीर्घचलच्चित्रम् – आर्टिकल ३७० (निर्देशकः आदित्य सुहास जंभाले)
सर्वश्रेष्ठप्रथमचलच्चित्रनिर्देशकः – स्वातन्त्र्य वीर सावरकर (निर्देशकः रणदीप हुड्डा)
सम्पूर्णमनोरञ्जनप्रदायि सर्वश्रेष्ठलोकप्रियचलच्चित्रम् – कल्कि २८९८ एडी (निर्देशकः नाग अश्विन्)
राष्ट्रीयसामाजिकपर्यावरणीयमूल्यप्रवर्धकं सर्वश्रेष्ठदीर्घचलच्चित्रम् – कैप्टन मिलर (निर्देशकः अरुण माथेश्वरन्)
सर्वश्रेष्ठबालचलच्चित्रम् – ३५ चिन्ना कथा काडु (निर्देशकः नन्दा किशोर इमानी)
सर्वश्रेष्ठनिर्देशनम् – अमरन् (राजकुमार पेरियासामी)
सर्वश्रेष्ठमुख्याभिनेता – ममूटी (ब्रमायुगम्) तथा कार्तिकार्यन (चन्दू चैम्पियन)
सर्वश्रेष्ठमुख्याभिनेत्री – यामी गौतम (आर्टिकल ३७०)
सर्वश्रेष्ठसहायकाभिनेता – संजय मिश्र (भक्षक)
सर्वश्रेष्ठसहायकाभिनेत्री – सचाना नामीदास (महाराजा) तथा रूपाश्री वारकडी (मिथ्या)
सर्वश्रेष्ठबालकलाकाराः – अथिष एस शेट्टी (मिथ्या), अरुन्देव पोथुला (३५ चिन्ना कथा काडु), ऋद्धिमान बनर्जी (ओन्को की कठिन)
सर्वश्रेष्ठपुरुषपार्श्वगायकः – अभय जोधपुरकर (घरात गणपति, गीतम् नवसाची गौरी माझी)
सर्वश्रेष्ठमहिलापार्श्वगायिका – वैकोम विजयलक्ष्मी (ए आर एम, गीतम् अंगु वाना कोनिलु)
सर्वश्रेष्ठछायाङ्कनम् – शेहनाद जलाल (ब्रमायुगम्)
सर्वश्रेष्ठमौलिकपटकथा – बंद्रेड्डी सुकुमार (पुष्पा द रूल पार्ट २)
सर्वश्रेष्ठरूपान्तरितपटकथा – योगेश देशपांडे (स्वर्गंधर्व सुधीर फड़के)
सर्वश्रेष्ठसंवादः – वेंकी अटलुरी (लकी भास्कर)
सर्वश्रेष्ठध्वनिरचना – मानस चौधरी (भूल भुलैया ३)
सर्वश्रेष्ठसम्पादनम् – आर कलैवन्नन् (अमरन्)
सर्वश्रेष्ठनिर्माणरचना – नितिन जिहानी चौधरी (कल्कि २८९८ एडी)
सर्वश्रेष्ठवेशभूषारचना – दीपाली नूर तथा शीतल शर्मा (पुष्पा द रूल पार्ट २)
सर्वश्रेष्ठश्रृङ्गाररचना – पी रवि कुमार (कमेटी कुर्रोल्लु)
सर्वश्रेष्ठगीतसङ्गीतनिर्देशनम् – शाश्वत सचदेव (आर्टिकल ३७०)
सर्वश्रेष्ठपार्श्वसङ्गीतनिर्देशनम् – जी वी प्रकाश कुमार (अमरन्)
सर्वश्रेष्ठगीतम् – मनोज मुंतशिर (मैदान, गीतम् जाने दो)
सर्वश्रेष्ठनृत्यरचना – विजय गांगुली (स्त्री २, गीतम् आज की रात)
सर्वश्रेष्ठयुद्धदृश्यनिर्देशनम् – अनल अरासु (महाराजा)
भाषानुसारं सर्वश्रेष्ठदीर्घचलच्चित्राणि
असमिया – जुईफूल (जदुमोनी दत्ता)
बाङ्ग्ला – चलचित्र एखोन (अञ्जन दत्त)
गुजराती – मारण (अभिषेक जैन)
हिन्दी – श्रीकान्त (तुषार हीरानन्दानी)
कन्नड – मिथ्या (सुमन्त भट)
कोंकणी – मोग आसुम (राधेश्याम पिपलवा तथा एग्नेलो एंजेलो ब्रागांज़ा)
मलयालम् – फेमिनिची फातिमा (फासिल मुहम्मद)
मणिपुरी – सुनीता (युमनाम अजीत सिंह)
मराठी – मुक्काम पोस्ट बॉम्बिलवाड़ी (परेश मोकाशी)
ओड़िया – लहरी (अमर्त्य भट्टाचार्य)
तमिल – रायन (धनुष)
तेलुगु – कमेटी कुर्रोल्लु (यदु वामसी)
अनुसूची अष्टमात् बहिर्भाषासु सर्वश्रेष्ठचलच्चित्राणि
गढ़वाली – ढोली (दिनेश पी भोंसले)
तुलु – इम्बु (शिवध्वज शेट्टी)
विशेषसम्मानः
विशेषसम्मानः – धनुष (कैप्टन मिलर)
विशेषसम्मानः – सुरेन जी (मेयाझगन, ध्वनिमिश्रण अभियन्ता)
लघुचलच्चित्रवर्गे विजेतारः
सर्वश्रेष्ठलघुचलच्चित्रम् – भंगार (निर्देशकः सुमिरा रायः)
सर्वश्रेष्ठप्रथमचलच्चित्रनिर्देशकः – अंगेन (रवि राज मुर्मू)
सर्वश्रेष्ठजीवनी ऐतिहासिकपुनर्निर्माण सङ्कलनचलच्चित्रम् – काकोरी (कमलेश के मिश्रा)
सर्वश्रेष्ठकलासंस्कृतिचलच्चित्रम् – मैं निदा (अतुल पाण्डेय)
सर्वश्रेष्ठवृत्तचित्रम् – राम नामी (भारतबाला गणपति)
सामाजिकपर्यावरणीयमूल्यप्रवर्धकं सर्वश्रेष्ठलघुचलच्चित्रम् – पिपलन्त्री ए टेल ऑफ इको फेमिनिज्म (सूरज कुमार)
सर्वश्रेष्ठसञ्चलनचित्रम् – टच्ड ऐज वाटर (जोशी बेनेडिक्ट)
त्रिंशन्मिनिटपर्यन्तं सर्वश्रेष्ठलघुचलच्चित्रम् – हमसफर (अभिजीत अरविन्द दलवी)
सर्वश्रेष्ठनिर्देशनम् – स्टैच्यू ऑफ यूनिटी एकता का प्रतीक (आनन्द एल राय)
सर्वश्रेष्ठछायाङ्कनम् – एडमंड रैनसन (लाइफ इन लूम)
सर्वश्रेष्ठध्वनिरचना – टी एस हरि हरा सुधन (ब्लू)
सर्वश्रेष्ठसम्पादनम् – मनवीर जसरोटिया (एन डी ए)
सर्वश्रेष्ठसङ्गीतनिर्देशनम् – शिवपाल सिंह कांग (परत ४१च्या मागावर ऑन द ट्रेल ऑफ ४१)
सर्वश्रेष्ठवाचनम् – सौन्दर्या जयचन्द्रन् (लिटिल प्लैनेट ए टेल ऑफ फ्रॉग्स)सर्वश्रेष्ठपटकथा – फराज अली (ओबुर)
विशेषसम्मानः
भद्रकाली नाटकम् (आनन्द ज्योति तथा जोस एण्टनी)चोला डोरा और सुई (जयमिन मोदी तथा लोकेश घई)
---------------------
Hindusthan Samachar / Dheeraj Maithani