विद्यालये अग्निहोत्रम् कार्यक्रमः आयोजितः
भागलपुरम्, 18 जुलाईमासः (हि.स.)। सैनिकस्कूल गणपतराय सलारपुरिया सरस्वतीविद्यामन्दिरस्य प्राथमिकखण्डे पूरनमल सावित्रीदेवी बाजोरिया सरस्वतीशिशुमन्दिरे नरगाकोठी चम्पानगर भागलपुरविद्यालये शनिवासरे शिशुवाटिकाखण्डस्य अरुण उदय प्रभात इति कक्षाणां भ्रातृभ
कार्यक्रम में शामिल बच्चे और शिक्षक


भागलपुरम्, 18 जुलाईमासः (हि.स.)।

सैनिकस्कूल गणपतराय सलारपुरिया सरस्वतीविद्यामन्दिरस्य प्राथमिकखण्डे पूरनमल सावित्रीदेवी बाजोरिया सरस्वतीशिशुमन्दिरे नरगाकोठी चम्पानगर भागलपुरविद्यालये शनिवासरे शिशुवाटिकाखण्डस्य अरुण उदय प्रभात इति कक्षाणां भ्रातृभगिनिभिः तेषाम् अभिभावकैः च अग्निहोत्रकार्यक्रमः आयोजितः।

कार्यक्रमस्य प्रारम्भः प्रधानाचार्येण अमरेशकुमारेण प्रभाऱ्या ममताजायसवालया शशिभूषणमिश्रेण शिशुवाटिकाप्रमुखया साक्षीकुमार्या प्रान्तीयपूर्वछात्रसंयोजकेन अनुरागमहाराणेन अभिभाविकाभ्यां गीताकुमार्या सिंटूकुमार्या च सह अरुण उदय प्रभात कक्षाणां अष्टपञ्चाशत् भ्रातृभगिनिभिः वैदिकमन्त्रोच्चारणपूर्वकं हवनकर्मणा कृतः।

अस्मिन् अवसरे प्रधानाचार्यः अमरेशकुमारः अवदत् यत् हवनसामग्र्याः घृतस्य च दहनेन निष्पन्नः धूमः ऊर्जा च परितः विद्यमानान् हानिकारकजीवाणून् नाशयतः वायुमण्डलं च शुद्धं कुरुतः। एतस्मात् कारणात् विद्याभारत्या शिशुवाटिकाखण्डस्य भ्रातृभगिनीभ्यः अग्निहोत्रकार्यक्रमस्य आयोजनस्य निर्णयः कृतः।

अनेन विधिना मन्त्रोच्चारणं वह्नेः अवलोकनं च छात्राणां ध्यानवृद्धिं करोति तनावं न्यूनीकरोति सकारात्मकशक्तेः सञ्चारं च जनयति। ममताजायसवाला अवदत् यत् एतादृशैः कार्यक्रमैः भ्रातृभगिनीनां भारतीयज्ञानपरम्परया सह सम्बन्धः सुदृढः भवति तथा ते प्रकृतेः प्रति प्रेम सम्मानं च अधिगच्छन्ति।

अस्मिन् अवसरे मनोजकुमारतिवारी आभाषकुमारः अमरज्योतिः ऋषिदेवाशीषः शुभमकुमारः सुबोधठाकुरः शशिकान्तगुप्तः सुजीतकुमारः च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani