विश्वस्य सर्वतो महतो दध्युत्पादन संयंत्रस्य 19 जुलाई तमे दिनांके कोलकातायां भविष्यति भूमिपूजनम्, अमित शाहः करिष्यति बह्वीनां सहकारी परियोजनानां शुभारंभम्
कोलकाता, 18 जुलाईमासः (हि.स.)। केन्द्रीयगृहसहकारितामन्त्री अमितशाहः जुलैमासस्य १९ तमे दिनाङ्के कोलकातानगरस्य न्यूटाउन कन्वेन्शनसेन्टर इत्यत्र अमूलबङ्गालदुग्धपरियोजनायाः अन्तर्गतं विश्वस्य बृहत्तमस्य दधिउत्पादनसंयन्त्रस्य भूमिपूजनं करिष्यति। प्रायः
शुभेंदु अधिकारी और अमित शाह


कोलकाता, 18 जुलाईमासः (हि.स.)। केन्द्रीयगृहसहकारितामन्त्री अमितशाहः जुलैमासस्य १९ तमे दिनाङ्के कोलकातानगरस्य न्यूटाउन कन्वेन्शनसेन्टर इत्यत्र अमूलबङ्गालदुग्धपरियोजनायाः अन्तर्गतं विश्वस्य बृहत्तमस्य दधिउत्पादनसंयन्त्रस्य भूमिपूजनं करिष्यति। प्रायः सप्तशतकोटिरूप्यकाणां मूल्ययुक्तया एतया परियोजनया पश्चिमबङ्गाले दुग्धसहकारितायाः नूतनगत्यै कृषकाणां च आयवृद्धये महत्त्वपूर्णं पदक्षेपं भविष्यति। अस्मिन् कार्यक्रमे पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेन्दुअधिकारी सहकारिक्षेत्रस्य बहवः प्रतिनिधयः अन्ये च गणमान्यजनाः उपस्थिताः भविष्यन्ति।

हावडाफूडपार्क इत्यत्र निर्मीयमाणायां अस्यां दुग्धपरियोजनायां सम्पन्नायां प्रतिदिनं त्रिंशल्लक्षलीटरपरिमितस्य दुग्धस्य प्रसंस्करणं कर्तुं शक्यते। अस्मिन् संयन्त्रे प्रतिदिनं दशलक्षकिलोग्रामपरिमितं दधि अन्ये च संस्कारितदुग्धोत्पादाः निर्मास्यन्ते। तदतिरिक्तं प्रतिदिनं दशलक्षलीटरपरिमितं पुटीकृतदुग्धम् द्विलक्षलीटरपरिमितं यूएचटीदुग्धम् एकलक्षलीटरपरिमिता हिमशर्करिका विंशतिमीट्रिकटनपरिमितं पनीरम् दशमीट्रिकटनपरिमितं घृतम् दशमीट्रिकटनपरिमिताः मिष्टान्नोत्पादाः तथा प्रायः द्विलक्षपञ्चाशत्सहस्रपुटीकृताः स्वादयुक्तदुग्धपात्राणि उत्पादयितुं क्षमता भविष्यति।

अस्याः परियोजनायाः माध्यमेन पश्चिमबङ्गालस्य सपादलक्षाधिकदुग्धोत्पादककृषकाणां लाभः भविष्यतीति अपेक्ष्यते। एतेषु त्रिंशत्सहस्राधिकाः महिला दुग्धोत्पादिकाः अपि सन्ति। अधुना अमूलसहकारिजालस्य माध्यमेन राज्ये प्रतिदिनं प्रायः नवलक्षलीटरपरिमितस्य दुग्धस्य सङ्ग्रहणं क्रियते। नूतनपरियोजनया आधुनिकप्रसंस्करणस्य मूल्यवर्धनस्य विपणनसुविधानां च विस्तारः भविष्यति। तेन कृषकेभ्यः श्रेष्ठबाजारव्यवस्था आयवृद्धेः नवानि अवसराणि च प्राप्स्यन्ते।

कार्यक्रमस्य अवसरे अमितशाहः पश्चिमबङ्गाले श्वेतक्रान्ति २.० योजनायाः अन्तर्गतं नवगठितानां द्विशताधिकानां दुग्धसहकारिसमितीनाम् मध्ये एकस्याः समितेः पञ्जीकरणप्रमाणपत्रं प्रदास्यति। तथैव नवपञ्जीकृतानां एकादश बहुउद्देशीयग्रामीणसहकारिसमितीनाम् मध्ये एकस्याः प्रतिनिधिसमितेः प्रमाणपत्रमपि प्रदास्यति।

अस्मिन् अवसरे सहकारिसमितीनां पञ्जीयककार्यालयस्य सङ्गणकीकरणपरियोजनायाः अन्तर्गतं विकसितस्य ईआरसीएसपोर्टल इत्यस्य शुभारम्भः अपि भविष्यति। अयं पोर्टलः सहकारिसमितीनां पञ्जीकरणं तथा अन्याः प्रशासनिकप्रक्रियाः डिजिटलरूपेण पारदर्शकरूपेण अधिकसरलरूपेण च सम्पादयितुं साहाय्यं करिष्यति।

अमितशाहः विश्वस्य बृहत्तमायाः अन्नभण्डारणयोजनायाः अन्तर्गतं पश्चिमबङ्गालस्य दशजिलेषु प्रायः पञ्चकोट्यष्टानवतिलक्षरूप्यकव्ययेन निर्मीयमाणानां चतुर्दशभण्डारगृहाणां शिलान्यासमपि करिष्यति। एतेषां भण्डारगृहाणां समग्रभण्डारणक्षमता चतुर्दशशतमीट्रिकटनपरिमिता भविष्यति। तदतिरिक्तं दक्षिणचतुर्विंशतिपरगणा तथा कूचबिहार इत्यत्र त्रिसप्ततिकोट्येकषष्टिलक्षरूप्यकव्ययेन निर्मितयोः शतमीट्रिकटनक्षमयोः द्वयोः भण्डारगृहयोः उद्घाटनमपि भविष्यति।

कार्यक्रमस्य अवसरे भारतटैक्सी तथा पश्चिमबङ्गालसर्वकारस्य सूचनाप्रौद्योगिकीविद्युत्प्रौद्योगिकीविभागयोः मध्ये राज्ये गमनागमनसेवानां विस्तारार्थं एकस्य समझौतास्मारकपत्रस्य आदानप्रदानमपि भविष्यति।

केन्द्रसर्वकारस्य कथनानुसारम् एताभिः पहलाभिः पश्चिमबङ्गाले दुग्धसहकारिता ग्रामीणभण्डारणम् डिजिटलसहकारीप्रशासनम् सदस्याधारितगमनागमनसेवाश्च प्रवर्धिष्यन्ते। तथा च कृषकाणां दुग्धोत्पादकानां ग्रामीणसहकारिसंस्थानां च कृते आर्थिकावसराणां विस्तारः भविष्यति तथा राज्ये श्वेतक्रान्तेः नूतनः अध्यायः प्रारभ्यते।

---------------------

Hindusthan Samachar / Dheeraj Maithani