अश्विनी-वैष्णवस्य जन्मदिने मुख्यमन्त्रिणा शुभकामनाः प्रदत्ताः
गुवाहाटीनगरम्, १८ जुलाईमासः (हि.स.)। असमस्य मुख्यमन्त्री डाॅ. हिमन्त-बिस्व-सरमा शनिवासरे केन्द्रीय-रेलमन्त्रिणः अश्विनी-वैष्णवस्य जन्मदिने असमवासिनां पक्षतः हार्दिकाः शुभकामनाः प्रदत्तवान्। मुख्यमन्त्री सामाजिक-माध्यमे प्रकाशिते सन्देशे उक्तवान् य
Assam CM Dr Himanta Biswa with Union Minister for Railways.


गुवाहाटीनगरम्, १८ जुलाईमासः (हि.स.)। असमस्य मुख्यमन्त्री डाॅ. हिमन्त-बिस्व-सरमा शनिवासरे केन्द्रीय-रेलमन्त्रिणः अश्विनी-वैष्णवस्य जन्मदिने असमवासिनां पक्षतः हार्दिकाः शुभकामनाः प्रदत्तवान्।

मुख्यमन्त्री सामाजिक-माध्यमे प्रकाशिते सन्देशे उक्तवान् यत् अश्विनी-वैष्णवस्य सशक्त-नेतृत्वे भारतीय-रेलस्य आधुनिकी-करणं, सूचना-प्रौद्योगिक्याः तथा इलेक्ट्रॉनिक्स-विनिर्माणस्य माध्यमेन देशस्य डिजिटल-रूपान्तरणं, सूचना-प्रसारण-क्षेत्रस्य च अभूतपूर्वा प्रगतिः अभवत्।

डाॅ. सरमा उक्तवान् यत् अश्विनी-वैष्णवः प्रत्येकस्मिन् आवश्यक-काले असमस्य जनै: सह स्थितवान्। सः माता-कामाख्यायाः तथा श्रीमत्-शङ्करदेवस्य चरणयोः केन्द्रीय-मन्त्रिणः उत्तम-स्वास्थ्यं, सुख-समृद्धिं, उज्ज्वलं भविष्यं च प्रार्थितवान्।

Hindusthan Samachar / Divya Ranjan