Enter your Email Address to subscribe to our newsletters

रायपुरम्, 18 जुलाईमासः (हि.स.)।छत्तीसगढविधानसभायां विष्णुदेवसायस्य नेतृत्वे वर्तमाना भारतीयजनतापक्षसर्वकारस्य विरुद्धं काङ्ग्रेसदलस्य सदस्यैः शुक्रवासरे षट्त्रिंशदधिकशतबिन्दुभिः युक्तः अविश्वासप्रस्तावः प्रस्तुतः। सः ध्वनिमतेन गतार्धरात्रौ अस्वीकृतः अभवत्। ततः अनन्तरं विधानसभाध्यक्षः डा रमनसिंहः सदनस्य कार्यवाहीम् अनिश्चितकालपर्यन्तं स्थगिताम् अघोषयत्। तेन उक्तं यत् दिसम्बरमासस्य अन्तिमसप्ताहे शीतकालीनम् अधिवेशनम् आहूयिष्यते।
अविश्वासप्रस्तावः शुक्रवासरे मध्याह्ने प्रायः द्वादशवादनस्य दशमिनिटसमये चर्चार्थं प्रस्तुतः आसीत्। अस्मिन् प्रस्तावे सदने चतुर्दशघण्टाः षड्विंशतिमिनिटपर्यन्तं पक्षविपक्षयोः मध्ये तीव्रा वाक्प्रतिवाक्प्रक्रिया अभवत्। कोलाहलस्य कारणेन एकवारं कार्यवाही अपि स्थगिता। अन्ततः रात्रौ प्रायः द्विवादनस्य षट्त्रिंशन्मिनिटसमये अविश्वासप्रस्तावः अस्वीकृतः।
चर्चायाः आरम्भे प्रतिपक्षनेता डा चरणदासमहन्तः सर्वकारस्य षट्त्रिंशदधिकशतसप्ताहात्मकं कार्यकालं जनविरोधी इति वर्णयन् षट्त्रिंशदधिकशतबिन्दूनां विस्तृतम् आरोपपत्रं प्रस्तुतवान्। तस्य तर्कः आसीत् यत् सायसर्वकारः स्वकार्यकालस्य षट्त्रिंशदधिकशततमसप्ताहे प्रविष्टः अस्ति, अतः षट्त्रिंशदधिकशतविफलताः निरूपिताः। तेन आरोपितं यत् स्वकार्यकाले सर्वकारेण आदिवासिनां महिलानां कृषकाणां युवानां च विरुद्धं कार्याणि कृतानि। काङ्ग्रेसपक्षेण अवैधरॆतखननम् भूमिदस्यवः महिलासुरक्षा विविधघोटालाश्च प्रमुखतया उत्थापिताः। पूर्वमुख्यमन्त्री भूपेशबघेलः बस्तरप्रदेशे खनिजसम्पदां दोहनम् तथा विधिव्यवस्थायाः स्थितिं प्रति प्रश्नान् उत्थापितवान्।
हसदेवअरण्यप्रकरणम् विधिव्यवस्थायाः अवनतिः अबूझमाडप्रदेशे कथितवृक्षच्छेदनम् बस्तरप्रदेशे भूमिदस्यूनां सक्रियता इत्यादयः विषयाः अपि उत्थापिताः। तेन आरोपितं यत् महतारीवन्दनयोजनातः प्रायः एकलक्षपञ्चपञ्चाशत्सहस्रलाभार्थिनां नामानि अपसारितानि, प्रतिज्ञानुसारं च सायसर्वकारः पञ्चशतरूप्यकेन एलपीजी इन्धननलिकां अपि न प्रददाति।
काङ्ग्रेसपक्षस्य आरोपाणां प्रत्युत्तरे मुख्यमन्त्री विष्णुदेवसायः अन्ये मन्त्रिणश्च सर्वान् आरोपान् निराकृतवन्तः। भारतीयजनतापक्षस्य वरिष्ठविधायकः अजयचन्द्राकरः उक्तवान् यत् काङ्ग्रेससर्वकारस्य समये एव अत्यधिका लुण्ठना अभवत्। तेन प्रतिपक्षः आत्मनिरीक्षणं कर्तुम् उपदिष्टः। उपमुख्यमन्त्री विजयशर्मा वरिष्ठविधायकः अजयचन्द्राकरश्च पूर्वकाङ्ग्रेससर्वकारस्य काले जातान् आबकारीकोयलासीजीपीएससी नियुक्तिघोटालान् अधिकृत्य काङ्ग्रेसपक्षम् आक्षिप्तवन्तौ। भारतीयजनतापक्षस्य विधायकैः प्रधानमन्त्रिआवासयोजनायाः अन्तर्गतं गृहनिर्माणम् रेलाधारसंरचनायाः विस्तारः धर्मान्तरणविरोधे कठोरविधाननिर्माणम् इत्यादीनि स्वसफलतानि इति निर्दिष्टानि।
उपमुख्यमन्त्री विजयशर्मा माओवादी हिड्मा इत्यनेन सह राहुलगान्धिनः नाम उल्लिखितवान्, येन सदने कोलाहलः अभवत्। भिलाइनगरस्य काङ्ग्रेसविधायकः देवेन्द्रयादवः हिड्मासमर्थनयुक्तस्य संदेशस्य राहुलगान्धिना पुनःप्रसारणस्य प्रमाणम् अयाचत्। अस्मिन् विषये सत्तापक्षेण देवेन्द्रस्य आचरणभङ्ग्याः विषये आपत्तिः प्रकटिता। कोलाहलस्य कारणेन सदनस्य कार्यवाही पञ्चमिनिटपर्यन्तं स्थगिता।
मुख्यमन्त्री एतं प्रस्तावं केवलं राजनैतिकौपचारिकता इति वर्णयन् उक्तवान् यत् काङ्ग्रेसपक्षस्य गतः पञ्चवर्षीयः कार्यकालः केवलं शासनासनरक्षणस्य क्रीडायामेव व्यतीतः। तेन उक्तं यत् काङ्ग्रेसपक्षस्य पञ्चवर्षीयः कार्यकालः केवलं राजा महाराजयोः परस्परसंघर्षे शासनासनरक्षणप्राप्त्योः क्रीडायां च व्यतीतः। तेन उक्तं यत् काङ्ग्रेसपक्षः महिलाभ्यः पञ्चशतरूप्यकप्रदानस्य प्रतिज्ञां कृतवान्, किन्तु सा कदापि न पूर्णा। घोषणापत्रस्य षट्त्रिंशत् प्रतिज्ञाः अपूर्णाः एव अभवन्। अस्य विपरीतं वर्तमानसर्वकारः महतारीवन्दनयोजनायां महिलाभ्यः प्रतिमासं सहस्ररूप्यकाणि प्रददाति। तेन व्यङ्ग्यरूपेण उक्तं यत् यदि भ्रष्टाचारे पीएचडी उपाधिः स्यात्, तर्हि प्रतिपक्षः विशेषज्ञः अभविष्यत्। अन्ते सः स्वसर्वकारस्य उपलब्धीः गणयन् अग्रिमनिर्वाचने वयं सप्ततिः स्थानानि प्राप्स्यामः इति दावम् अकरोत्।
छत्तीसगढराज्यस्य गठनानन्तरम् एषः विधानसभायां प्रस्तुतः दशमः अविश्वासप्रस्तावः आसीत्। इतिहासवत् अस्मिन्नपि अवसरे अविश्वासप्रस्तावस्य माध्यमेन सर्वकारपतनं कारयितुं प्रतिपक्षः असफलः अभवत्।
Hindusthan Samachar / Dheeraj Maithani