Enter your Email Address to subscribe to our newsletters


डेगाना/जयपुरम्, 18 जुलाईमासः (हि.स.)।मुख्यमन्त्री भजनलालशर्मा शुक्रवासरे रात्रिचौपालस्य अनन्तरं डेगानाक्षेत्रस्य तिलानेशग्रामस्थितस्य शहीदग्रेनेडियरमोडारामखटकडस्य निवासे तस्य परिजनैः सह भोजनं कृतवान्।
अस्मिन् अवसरे तेन वीराङ्गनया हुत्मामनः परिजनैश्च सह आत्मीयभेटिका कृता। तेषां कुशलक्षेमं पृष्ट्वा परिवारेण सह समयमपि व्यतीतवान्।
एतस्मात् पूर्वं मुख्यमन्त्री ग्रामे स्थापितायै शहीदग्रेनेडियरमोडारामखटकडस्य प्रतिमायै श्रद्धापूर्वकं प्रणाममकरोत्। तस्य वीरगाथां संस्मरन् श्रद्धाञ्जलिमपि समर्पितवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani