मुख्यमंत्री योगी ललितागौतमप्रकरणे दृढः, विवेचनायां शैथिल्ये कार्यवाही निर्दिष्टा
गाजियाबादम्, 18 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे मेरठनगरस्य दिवङ्गतायाः छात्रायाः ललितागौतमस्याः परिजनैः सह गाजियाबादस्थिते लोकनिर्माणविभागस्य अतिथिगृहे समागत्य घटनां प्रति गहनं शोकम् अभिव्यक्तवान्। सः शोकसन्तप्तं परिवारं
ललिता के परिजनों से मुलाकात करते उत्तर प्रदेश के मुख्यमंत्री


गाजियाबादम्, 18 जुलाईमासः (हि.स.)।

मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे मेरठनगरस्य दिवङ्गतायाः छात्रायाः ललितागौतमस्याः परिजनैः सह गाजियाबादस्थिते लोकनिर्माणविभागस्य अतिथिगृहे समागत्य घटनां प्रति गहनं शोकम् अभिव्यक्तवान्। सः शोकसन्तप्तं परिवारं सान्त्वयन् आश्वासनम् अददात् यत् अस्य जघन्यापराधस्य प्रत्येकस्य दोषिणः विरुद्धं विधानानुसारं कठोरतमा कार्यवाही सुनिश्चितीक्रियते तथा पीडितपरिवारस्य न्यायप्राप्तौ कापि न्यूनता न भविष्यति।

मुख्यमन्त्री प्रकरणस्य विवेचनायां कस्मिन्नपि स्तरे प्रमादं कृतवन्तः अधिकारिणः कर्मचारीणश्च विरुद्धं कठोरकार्यवाहीं कर्तुं निर्देशान् अददात्। तेन पुलिसाधिकारिभ्यः अभियोजनस्य प्रभाविपैरवीं सुनिश्चितीकृत्य दोषिभ्यः कठोरतमदण्डप्रदानार्थं सर्वाणि आवश्यकानि वैधानिकपदानि स्वीकर्तुं निर्देशाः अपि प्रदत्ताः।

मुख्यमन्त्री योगी आदित्यनाथः पीडितपरिवाराय तात्कालिकराहतरूपेण मुख्यमन्त्रिविवेकाधीनकोशात् पञ्चलक्षरूप्यकाणां आर्थिकसहायतां प्रदातुम् आदेशम् अददात्। तेन सह मृतायाः पितुः परिवारस्य च अन्यस्मै पात्रसदस्याय मुख्यमन्त्रीआवासयोजनायाः अन्तर्गतं आवासप्रदानस्य अपि निर्देशाः प्रदत्ताः।

मुख्यमन्त्री अधिकारिणः आदेशयन् उक्तवान् यत् पीडितपरिवाराय आयुष्मानभारत्योजनायाः राशनकार्डस्य च सहितं सर्वासां पात्रलाभार्थिसरकारीयोजनानां लाभः प्राथमिकतया प्रदीयताम्, येन परिवाराय सर्वथा आवश्यकः सहयोगः उपलब्धः भवेत्।

अस्मिन् अवसरे समाजकल्याणमन्त्री मेरठनगरस्य जिलाप्रभारीमन्त्री असीमअरुणः वरिष्ठप्रशासनिकाधिकारिणः पुलिसाधिकारिणश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani