Enter your Email Address to subscribe to our newsletters

जयपुरम्, 18 जुलाईमासः (हि.स.)।
मुख्यमन्त्री भजनलालशर्मा डेगाना उपखण्डस्य तिलानेशग्रामपञ्चायत्यां ग्रामविकासचौपालकार्यक्रमस्य रात्रिविश्रामस्य च अनन्तरं शनिवासरे प्रातः ग्रामस्य भ्रमणं कृत्वा ग्रामवासिभिः सह प्रत्यक्षसंवादम् अकरोत्। अस्मिन् अवसरे सः क्षेत्रेषु कार्यरताभिः महिलाभिः सह कृषिविषयकसूचनां प्राप्तवान्, ग्रामवासिनां समस्याः अशृणोत्, सम्बन्धिताधिकारिणः च तत्क्षणमेव समाधानाय निर्देशान् अददात्। मुख्यमन्त्रिणः सहजः आत्मीयश्च व्यवहारः दृष्ट्वा ग्रामवासिषु विशेषोत्साहस्य वातावरणम् अभवत्।
ग्रामभ्रमणस्य समये मुख्यमन्त्री क्षेत्रे निराईकार्यं कुर्वतीनां महिलानां समीपम् अगच्छत् तथा ताभिः सह कृषिजीवनसम्बद्धान् अनुभवान् अपि विनिमितवान्। महिलाभिः उक्तं यत् ग्रामे ताः सामूहिकरूपेण परस्परस्य क्षेत्रेषु कार्यं कुर्वन्ति। एकस्मिन् दिने सर्वाः महिलाः मिलित्वा एकस्याः महिलायाः क्षेत्रे निराईकार्यं कुर्वन्ति, अपरस्मिन् दिने पुनः अन्यस्याः महिलायाः क्षेत्रे तत् कार्यं सम्पादयन्ति। अनेन कार्यं शीघ्रं सम्पन्नं भवति, ग्रामे च परस्परसहयोगस्य भ्रातृभावस्य च भावना दृढा भवति। मुख्यमन्त्री महिलानां अस्याः सामूहिककार्यसंस्कृतेः प्रशंसां कृत्वा एतत् ग्रामीणैक्यस्य प्रेरणादायकम् उदाहरणम् इति उक्तवान्।
भ्रमणस्य समये एका महिला मुख्यमन्त्रिणम् अवदत् यत् ग्रामस्य दूषितं जलं तस्याः गृहस्य पुरतः सञ्चीयते, येन तस्याः महती असुविधा जायते। मुख्यमन्त्री समस्यायाः कारणम् अपृच्छत्। ग्रामवासिभिः उक्तं यत् जलनिर्गमनस्य समुचितः मार्गः नास्ति, अतः एषा स्थितिः उत्पन्ना। तदनन्तरं मुख्यमन्त्री सम्बन्धिताधिकारिभ्यः त्वरितसमाधानस्य निर्देशान् दत्त्वा शीघ्रमेव समस्यायाḥ निराकरणस्य आश्वासनम् अददात्। महिला मुख्यमन्त्रिणः प्रति कृतज्ञतां प्रकटयन्ती अवदत् यत् तेन तस्याः वचनं गम्भीरतया श्रुतम्।
एतस्मिन्नेव समये एकः वृद्धः ग्रामवासी अपि मुख्यमन्त्रिणः समक्षं स्वपीडां निवेदितवान्। सः अवदत् यत् तस्य पुत्रस्य भार्यायाश्च निधनं जातम्, अधुना सः एकाकी जीवनं यापयति। मुख्यमन्त्री सम्बन्धिताधिकारिभ्यः निर्देशान् अददात् यत् तस्मै वृद्धाय कस्यापि प्रकारस्य असुविधा न भवेत् तथा च तस्मै सर्वप्रकारा राजकीयसहायता प्रदीयताम्। संवादस्य समये वृद्धः भावुकः भूत्वा अवदत् यत् गतसायं तस्मै विद्यालयपरिसरे प्रवेशः न प्रदत्तः। तदा सः उपस्थितजनान् उक्तवान् आसीत्— “श्वः मम गृहम् आगच्छत, मुख्यमन्त्री स्वयमेव मां द्रष्टुम् आगमिष्यति।” ततः सः भावविह्वलः भूत्वा मुख्यमन्त्रिणम् अवदत्— “वयं तु भवतः कपोताः स्मः।” अस्य उत्तररूपेण मुख्यमन्त्री स्मितपूर्वकम् अवदत्— “अहं भवतां दर्शनार्थम् आगतः अस्मि।” मुख्यमन्त्रिणः अस्य आत्मीयवचनस्य श्रवणेन तत्र उपस्थितानां ग्रामवासिनां मुखानि प्रफुल्लितानि अभवन्, समग्रं वातावरणं च भावुकतया अपनत्वभावेन च परिपूर्णम् अभवत्।
उल्लेखनीयं यत् मुख्यमन्त्री भजनलालशर्मा ग्रामविकासचौपालकार्यक्रमस्य अनन्तरं तिलानेशग्रामे एव रात्रिविश्रामम् अकरोत्। सायंकालपर्यन्तं सः ग्रामवासिभिः सह मिलित्वा तेषां समस्याः अशृणोत् तथा सम्बन्धिताधिकारिभ्यः आवश्यककार्यवाह्याः कृते निर्देशान् अददात्।
---------------
Hindusthan Samachar / Dheeraj Maithani