Enter your Email Address to subscribe to our newsletters

बेंगलुरुः, 18 जुलाईमासः (हि.स.)। भारतस्य पूर्वप्रधानमन्त्री जनता दल सेक्युलर दलस्य संरक्षकः एच. डी. देवेगौडस्य पत्नी चेन्नम्मा पञ्चाशीतिवर्षीया शनिवासरे बेङ्गलूरुनगरस्थिते मणिपालचिकित्सालये दिवङ्गता। सा कतिपयकालात् श्वाससम्बद्धसमस्यया पीडिता आसीत् तथा जुलैमासस्य पञ्चदशदिनाङ्कात् आरभ्य चिकित्सालयस्य सघनचिकित्साविभागे प्रविष्टा आसीत्। उपचारकाले सा अन्तिमश्वासम् अत्यक्षिपत्। तस्याः निधनात् राजनैतिकसामाजिकक्षेत्रयोः शोकलहरी व्याप्ता।
देवेगौडस्य जामाता सांसदः डॉ. सी. एन. मञ्जूनाथः माध्यमप्रतिनिधिभ्यः अवदत् यत् चेन्नम्मायाः अन्त्येष्टिः सोमवासरे हासनजनपदस्य होलेनरसिपुरे भविष्यति।
चेन्नम्मायाः पार्थिवशरीरस्य अन्तिमदर्शनार्थं विभिन्नराजनैतिकदलानां नेतारः, परिजनाः, समर्थकाः, जनता दल सेक्युलर दलस्य कार्यकर्तारश्च चिकित्सालयम् आगच्छन्ति। बहुसंख्यकजनसमागमस्य सम्भावनां दृष्ट्वा चिकित्सालयपरिसरे तदुपकण्ठे च सुरक्षाव्यवस्था सुदृढा कृता। बेङ्गलूरुनगरस्य पुलिसआयुक्तः सीमन्तकुमारसिंहः अपि चिकित्सालयम् आगत्य सुरक्षाव्यवस्थानां निरीक्षणम् अकरोत्।
चेन्नम्मायाः जन्म हासनजनपदस्य मुथिगेहिरेहल्लीग्रामे अभवत्। तस्याः विवाहः जुलैमासस्य पञ्चविंशतितमे दिनाङ्के उन्नविंशाधिकनवशतचतुःपञ्चाशत्तमे वर्षे एच. डी. देवेगौडेन सह अभवत्। तस्याः परिवारे केन्द्रीयमन्त्री एच. डी. कुमारस्वामी सहिताः चत्वारः पुत्राः द्वे पुत्र्यौ च सन्ति। देवेगौडस्य दीर्घसार्वजनिकराजनैतिकजीवनकाले चेन्नम्मा पारिवारिकदायित्वानां सम्यग्निर्वहणं कृत्वा सर्वदा तस्य साहाय्यम् अकरोत्। सा सरलजीवनाय, पारिवारिकमूल्येभ्यः, अतिथिसत्काराय च प्रसिद्धा आसीत्।
चेन्नम्मायाः निधनप्रसङ्गे विभिन्नराजनैतिकदलानां नेतारः गाढं शोकम् अभिव्यक्तवन्तः। तस्याः पौत्रः निखिलकुमारस्वामी सामाजिकमाध्यममञ्चे एक्स इत्यत्र भावपूर्णं सन्देशं प्रकाशितवान्। तेन लिखितं यत् तस्याः पितामही परिवारस्य आधारशिला आसीत्। तेन उक्तं यत् तस्याः स्नेहः, सरलता, आत्मीयभावश्च परिवारस्य कृते सर्वदा प्रेरणास्रोतः भविष्यति तथा तस्याः निधनम् अपूरणीया क्षतिः अस्ति।
कर्नाटकविधानसभायाः प्रतिपक्षनेता आर. अशोकः शोकम् अभिव्यक्तवान्। तेन उक्तं यत् चेन्नम्मायाः निधनवार्ता अत्यन्तं दुःखदा अस्ति। तेन पूर्वप्रधानमन्त्री एच. डी. देवेगौडाय, केन्द्रीयमन्त्रिणे एच. डी. कुमारस्वामिने, समग्राय शोकसन्तप्तपरिवाराय च संवेदनाः प्रकट्य दिवङ्गतात्मनः शान्त्यर्थं प्रार्थना कृता।
पूर्वमुख्यमन्त्री सिद्धरमैया अपि गाढं शोकम् अभिव्यक्तवान्। तेन उक्तं यत् जनता परिवारस्य समयात् आरभ्य देवेगौडपरिवारेण सह तस्य घनिष्ठः सम्बन्धः आसीत् तथा सः चेन्नम्मां व्यक्तिगतया जानाति स्म। सिद्धरमैयेन उक्तं यत् चेन्नम्मा जीवने बह्व्यः कठिनपरिस्थितीः धैर्येण साहसेन च सम्मुखीचकार तथा देवेगौडस्य राजनैतिकजीवनकाले समग्रपरिवारस्य उत्तरदायित्वं वहन्ती आदर्शगृहिणी सरलस्वभावा जीवनसंगिनी च इति स्वकीयां विशिष्टां परिचितिं निर्मितवती।
विभिन्नराजनैतिकदलानां नेतारः चेन्नम्मायाः निधनं सार्वजनिकजीवने सक्रियस्य परिवारस्य कृते महान् व्यक्तिगतहानिरिति वर्णयन्तः शोकसन्तप्तपरिवाराय अस्मिन् कठिनकाले धैर्यबलप्राप्त्यर्थं प्रार्थनाम् अकुर्वन्।-------------
Hindusthan Samachar / Dheeraj Maithani