पीएम-ई-ड्राइव-योजनायाः अन्तर्गतं देहलीनगराय २,८०० विद्युत्-चालित-यानानि प्रदास्यन्ते
नवदेहली, १८ जुलाईमासः (हि.स.)। देहली-सर्वकारेण पीएम-ई-ड्राइव-योजनायाः प्रथम-चरणस्य अन्तर्गतं राजधानी-क्षेत्रे २,८०० नवीनाः वातानुकूलितानि निम्न-तल-विद्युत्-चालित-यानानि समावेशयितुं निर्णयः कृतः। एतानि यानानि अग्रिम-वर्षात् मार्गेषु सञ्चरितुं प्रारभ
Electric bus


नवदेहली, १८ जुलाईमासः (हि.स.)। देहली-सर्वकारेण पीएम-ई-ड्राइव-योजनायाः प्रथम-चरणस्य अन्तर्गतं राजधानी-क्षेत्रे २,८०० नवीनाः वातानुकूलितानि निम्न-तल-विद्युत्-चालित-यानानि समावेशयितुं निर्णयः कृतः। एतानि यानानि अग्रिम-वर्षात् मार्गेषु सञ्चरितुं प्रारभिष्यन्ते।

देहली-सर्वकारस्य लक्ष्यं २०२८–२९ तमवर्षपर्यन्तं देहली-परिवहन-निगमस्य यान-वाहिन्यां बसयानानां संख्यां वर्धयित्वा प्रायः १४,००० पर्यन्तं नेतुम् अस्ति।

Hindusthan Samachar / Divya Ranjan