Enter your Email Address to subscribe to our newsletters


— ‘हरे-कृष्ण’ इति जयघोषैः वर्षायाश्च मध्ये श्रद्धायाः महाप्रवाहः समुत्थितः
भोपालनगरम्, १८ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपालनगरे शनिवासरे सायंकाले मन्दवृष्टेः मध्ये भगवतः जगन्नाथस्य, भ्रातुः बलरामस्य, भगिन्याः सुभद्रायाश्च भव्य-रथयात्रा श्रद्धया उल्लासेन च निर्गता। अस्मिन् आध्यात्मिक-समागमे देशस्य विभिन्न-प्रदेशेभ्यः एव न, अपितु रूस-अमेरिका-देशाभ्यां समागताः विदेशीय-श्रद्धालवः अपि सनातन-संस्कृतेः रङ्गे रञ्जिताः दृष्टाः।
राजधान्याः हमीदिया-मार्गात् शनिवासरे सायंकाले यदा भगवतः जगन्नाथस्य रथः अग्रे प्रस्थितः, तदा सम्पूर्णः परिसरः ‘हरे कृष्ण, हरे कृष्ण’ इति महामन्त्रेण पारम्परिक-भक्ति-गीतैश्च गुञ्जायमानः अभवत्। अस्याः रथयात्रायाः प्रमुखम् आकर्षणम् ओडिशा-राज्यस्य पुरीनगरे स्थितस्य प्रसिद्धस्य नन्दिघोष-रथस्य आदर्शे निर्मितः विशेष-रथः आसीत्। अस्य रथस्य उन्नतिः प्रायः २७ पादाः, विस्तारः १३ पादाः, दीर्घता च १७.५ पादाः आसीत्। अस्य भव्यस्य सुसज्जितस्य रथस्य आकर्षणार्थं वर्षायामपि सहस्रशः श्रद्धालवः समागत्य रथम् आकृष्यन्त।
झाञ्झ-मञ्जीर-वादनस्य तालैः स्थाने स्थाने नृत्यम्
पारम्परिक-वेषभूषाभिः अलङ्कृताः महिलाः, पुरुषाः, बालकाः च झाञ्झ-मञ्जीर-वादनस्य तालैः स्थाने स्थाने नृत्यं कुर्वन्तः भगवतः दर्शनं कृतवन्तः। अस्मिन् पावन-अवसरे इस्कॉन-रूस-संस्थायाः वरिष्ठ-प्रचारकः द्विजमणि-प्रभुः अपि विशेषरूपेण उपस्थितः आसीत्। तेन उपस्थित-जनसमूहाय आध्यात्मिकः सन्देशः प्रदत्तः। रूस-अमेरिका-देशाभ्यां समागताः कृष्ण-भक्ताः अपि भारतीय-वेषभूषां धारयन्तः सङ्कीर्तनस्य आनन्दम् अनुभवन्तः सामान्य-भक्तैः सह नृत्यन्तः दृष्टाः।
जनप्रतिनिधिभिः आरार्तिकी कृता
धार्मिक-उल्लासेन परिपूर्णा एषा रथयात्रा भोपाल-टॉकीजतः प्रारभ्य हमीदिया-मार्गेण, भारत-टॉकीज, रोशनपुरा-चतुष्पथेन, रङ्गमहल-प्रदेशेन, न्यू-मार्केट् इत्यादिभिः नगरस्य प्रमुख-मार्गैः गत्वा माता-मन्दिर-स्थितं प्लेटिनम्-प्लाजां प्रति प्रस्थितवती। यात्रायाः शुभारम्भ-अवसरे भोपाल-नगरस्य महापौरा मालती-राय: भगवतः जगन्नाथस्य मङ्गल-आरार्तिकीं कृत्वा देशस्य प्रदेशस्य च सुख-समृद्धये प्रार्थनाम् अकरोत्। अनन्तरं मार्गमध्ये आयोजितायां राजभोग-आरार्तिक्यां मध्यप्रदेश-सर्वकारस्य राज्यमन्त्रिणी कृष्णा-गौर: सहभागिनी अभवत्। यात्रायाः समापन-अवसरे मन्त्रिमण्डल-मन्त्री विश्वास-सारङ्गः भगवतः महा-आरार्तिकीं करिष्यति तथा श्रद्धालून् सम्बोधयिष्यति। प्लेटिनम्-प्लाजायां यात्रा-समापनानन्तरं भव्य-धार्मिक-कार्यक्रमाः आयोज्यन्ते।
४०० किलोग्राम-परिमितं खाजा तथा कुंतल-परिमितः लप्सिका महाप्रसादरूपेण वितरिता
आयोजन-समित्याः पक्षतः रथयात्रायां सहभागिनां श्रद्धालूनां कृते महाप्रसादस्य व्यापक-व्यवस्था कृता। सम्पूर्ण-यात्रा-मार्गे पुरीनगरे प्रसिद्धः ४०० किलोग्राम-परिमितः खाजा-महाप्रसादः भक्तेषु वितीर्यते। समापन-स्थले प्लेटिनम्-प्लाजायां पञ्चसहस्रात् सप्तसहस्र-पर्यन्तं श्रद्धालूनां कृते शुद्ध-देशीय-घृतेन निर्मितस्या: लप्सिकाया: महाप्रसादस्य विशेष-व्यवस्था कृता। विशाल-जनसमूहम् नगरस्य विशिष्ट-मार्गांश्च दृष्ट्वा आरक्षक-विभागेन प्रशासन-तन्त्रेण च सुदृढाः सुरक्षा-व्यवस्थाः कृताः। हमीदिया-मार्गे, न्यू-मार्केट्-प्रदेशे तथा सम्पूर्ण-यात्रा-मार्गे बहवः आरक्षकाः यातायात-आरक्षकाः च नियुक्ताः सन्ति, ये सुचारु-यातायातस्य विधि-व्यवस्थायाश्च पालनार्थं निरन्तरं स्थितिं निरीक्षन्ते।
Hindusthan Samachar / Divya Ranjan