Enter your Email Address to subscribe to our newsletters

बीकानेरम्, 18 जुलाईमासः (हि.स.)।राजकीयडूङ्गरमहाविद्यालये राजस्थानसर्वकारस्य भारतसर्वकारस्य च संयुक्तप्रयत्नरूपस्य राजस्थानफिनिशिङ्गस्कूलपरियोजनायाः अन्तर्गतं सूचनासञ्चारप्रौद्योगिकीप्रयोगशालायाः उद्घाटनं शनिवासरे बीकानेरपश्चिमक्षेत्रस्य विधायकः जेठानन्दव्यासः अकरोत्। अस्मिन्नवसरे विधायकेन व्यासेन रेडियेशनबायोलॉजीसोसाइटी इत्यस्याः आधिकारिकजालपुटस्य अपि लोकार्पणं कृतम्। विदितमेव यत् अस्याः सोसाइट्याः राष्ट्रियाध्यक्षः प्रोफेसरः आर्. के. पुरोहितः सन्ति। विधायकेन जालपुटस्य माध्यमेन सोसाइट्याः विविधाः शैक्षणिकाः अनुसन्धानसम्बद्धाश्च गतिविधयः अवलोक्य तस्याः प्रशंसा कृता। महाविद्यालयस्य प्राचार्यः प्रोफेसरः आर्. के. पुरोहितः अवदत् यत् अस्मिन्नवसरे रोजगारोन्मुखप्रशिक्षणकार्यक्रमस्य अपि आयोजनं कृतम्।
अस्मिन्नवसरे विद्यार्थिनां कौशलविकासस्य रोजगारक्षमतायाश्च वर्धनस्य उद्देशेन चत्वारः रोजगारोन्मुखाः पाठ्यक्रमाः प्रारब्धाः। एतेषां पाठ्यक्रमाणां सञ्चालनं मोज़ैककम्पनीद्वारा भविष्यति। सर्वे पाठ्यक्रमाः सर्वकारेण मान्यताप्राप्ताः सन्ति तथा न्यूनतमशुल्केन उपलब्धाः भविष्यन्ति। पाठ्यक्रमसमापनानन्तरं प्रायः सप्ततिप्रतिशतविद्यार्थिभ्यः रोजगारप्रदानस्य लक्ष्यं निर्धारितम्। कार्यक्रमस्य मुख्यातिथिः बीकानेरपश्चिमक्षेत्रस्य विधायकः जेठानन्दव्यासः महाविद्यालयस्य सूचनासञ्चारप्रौद्योगिकीप्रयोगशालां अधिकसुदृढां कर्तुं सङ्गणकक्रयार्थं पञ्चलक्षरूप्यकाणां वित्तसहाय्यस्य घोषणामकरोत्। तेन उक्तं यत् वर्तमानकाले उच्चशिक्षायाः उद्योगानामावश्यकताभिः सह सम्बन्धस्थापनम् अत्यावश्यकम्। राजस्थानफिनिशिङ्गस्कूल इयं योजना विद्यार्थिभ्यः तकनीकीदक्षतां, व्यावहारिककौशलं तथा रोजगारस्य उत्तमानवसरान् प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
कार्यक्रमस्य अध्यक्षतां महाविद्यालयस्य प्राचार्यः प्रोफेसरः आर्. के. पुरोहितः अकरोत्। मोज़ैककम्पन्याः प्रतिनिधिः सञ्जयगौडः राजस्थानफिनिशिङ्गस्कूलपरियोजनायाः अवधारणां, सञ्चाल्यमानानां चतुर्णां पाठ्यक्रमाणां स्वरूपं तथा तेषां माध्यमेन उपलब्धानां रोजगारावसराणां विस्तृतसूचनां प्रदाय विद्यार्थिनः एतेषां पाठ्यक्रमाणां अधिकतमं लाभं ग्रहीतुं प्रोत्साहितवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani