Enter your Email Address to subscribe to our newsletters

नवदेहली, १८ जुलाईमासः (हि.स.)। केन्द्रीय-सर्वकारेण डाक-विभागस्य आधिकारिक-शुभङ्करस्य निर्माणार्थं देशव्यापिनः नागरिकेभ्यः प्रविष्टयः आमन्त्रिताः। एतदर्थम् ‘इनोवेट्-इण्डिया-मायगव’ इति मञ्चे शुभङ्कर-अभिकल्पना-स्पर्धा प्रारब्धा अस्ति। अस्य प्रयत्नस्य उद्देश्यं तादृशं ब्राण्ड-दूतं निर्मातुम् अस्ति, यः भारतीय-डाकविभागस्य विश्वसनीय-सेवां, जनसम्पर्कं, डिजिटल-नवोन्मेषं च प्रभावी-रीत्या प्रदर्शयितुं समर्थः भवेत्।
केन्द्रीय-सञ्चार-मन्त्रालयस्य अनुसारम् एषा स्पर्धा १५ जुलाईमासत: १५ अगस्तमासपर्यन्तं २०२६ तमे वर्षे आयोजिता भविष्यति। अस्यां स्पर्धायां कश्चन भारतीय-नागरिकः भागं ग्रहीतुं शक्नोति। प्रतिभागिभिः स्वस्य मौलिकः शुभङ्कर-अभिकल्पः, तस्य उपयुक्तं नाम, तद्विषयकः संक्षिप्तः अवधारणा-लेखः च ‘इनोवेट्-इण्डिया-मायगव’ इति पटले अन्तर्जाल-माध्यमेन समर्पणीयः।
स्पर्धायां श्रेष्ठ-त्रयाणां शुभङ्कर-अभिकल्पानां कृते क्रमशः ७५ सहस्रं ५० सहस्रं २५ सहस्र-रूप्यकाणां नगद-पुरस्काराः निर्धारिताः सन्ति। तथा श्रेष्ठ-त्रयाणां नामनिर्देशानां कृते क्रमशः २५ सहस्रं १५ सहस्रं १० सहस्र-रूप्यकाणां पुरस्काराः प्रदास्यन्ते। सर्वेभ्यः विजेतृभ्यः प्रमाणपत्राण्यपि प्रदास्यन्ते। मन्त्रालयेन स्पष्टीकृतं यत् शुभङ्कर-अभिकल्पनायाः नामकरणस्य च पुरस्काराः पृथक् पृथक्-श्रेणीषु प्रदास्यन्ते।
अस्याः स्पर्धायाः माध्यमेन चयनितः शुभङ्करः भारतीय-डाकविभागस्य आधिकारिकः ब्राण्ड-दूतः भविष्यति। तस्य उपयोगः विभागस्य प्रचार-प्रसार-अभियानेषु, डाक-पत्रकेषु, जन-जागरूकता-कार्यक्रमेषु, प्रदर्शिनीषु, सामाजिक-माध्यम-अभियानेषु, अन्येषु आधिकारिक-सञ्चार-माध्यमेषु च भविष्यति।
डाक-विभागेन छात्रान्, अभिकल्पकान्, कलाकारान्, सृजनात्मक-क्षेत्रे कार्यरतांश्च सर्वान् अस्यां स्पर्धायां उत्साहेन भागं ग्रहीतुं आह्वानं कृतम्। विभागेन उक्तं यत् एषा पहलः केवलम् भारतीय-डाकविभाडस्य नूतन-दृश्य-परिचयस्य विकासस्य अवसरः न, अपितु देशस्य सृजनात्मक-प्रतिभानां राष्ट्रिय-स्तरे स्व-परिचयं स्थापयितुं महत्त्वपूर्णं मञ्चमपि प्रदास्यति।
Hindusthan Samachar / Divya Ranjan