Enter your Email Address to subscribe to our newsletters

श्रीहरिकोटानगरम् (आन्ध्रप्रदेशः), १८ जुलाईमासः (हि.स.)। देशे प्रथमवारं निजी-निर्माणी स्काईरूट-एयरोस्पेस इत्याख्यस्य अद्य स्वदेशीय-उपग्रहस्य प्रक्षेपणं करिष्यति। एषा हैदराबादनगरस्थिती निर्माणी अस्ति। निर्माण्या अस्य अभियानस्य नाम ‘मिशन-आगमन-विक्रम-१’ इति स्थापितम्। अस्य प्रक्षेपणम् अद्य प्रातः ११:३० वादने श्रीहरिकोटास्थितात् सतीशधवन-अन्तरिक्षकेन्द्रात् करिष्यते।
स्काईरूट-एयरोस्पेस स्वकीयेन ऑर्बिटल-रॉकेट-इत्यनेन उपग्रहान् पृथिव्याः कक्षायां स्थापयितुं प्रयतिष्यते। भारते एतत् प्रथमवारं भविष्यति यत् काचित् निजी-निर्माणी स्वयमेव विकसितेन प्रक्षेपण-यानेन उपग्रहं पृथिव्याः कक्षायां स्थापयितुं प्रयतते। ‘विक्रम-१’ इति रॉकेट-इत्यस्य नाम भारतस्य अन्तरिक्ष-कार्यक्रमस्य जनकस्य डाॅ. विक्रम-साराभायस्य सम्मानार्थं स्थापितम्।
विक्रम-१ इति २४ मीटर-दीर्घं ऑर्बिटल-श्रेणीयरॉकेटम् अस्ति। एतत् लघु-उपग्रहाणां प्रक्षेपणार्थं विशेषरूपेण विकसितम्। सम्पूर्णं रॉकेट लघु-कार्बन-संयुक्त-संरचनया निर्मितम् अस्ति। अनेन तस्य भारः न्यूनः, वहन-क्षमता च अधिका भवति। निर्माण्या उक्तं यत् कार्बन-तन्तुः दृढतम-इस्पातस्य अपेक्षया प्रायः पञ्चगुणं लघुतरः भवति। अनेन रॉकेट-इय्यस्य कार्यदक्षता वर्धते। अस्मिन् त्रयः दृढ-प्रणोदन-चरणाः सन्ति। उपरिभागे ऑर्बिटल-समायोजन-नमूनाम् अपि स्थापितम् अस्ति।
निर्माण्या उक्तं यत् एतदेव नमूनाम् अस्य अभियानस्य बहून् उपग्रहान् पृथक् पृथक् कक्षासु स्थापयितुं साहाय्यं करिष्यति। विक्रम-१ ४५० किलोमीटर-उच्चायां निम्न-पृथिवी-कक्षायां ३५० किलोग्राम-पर्यन्तं पेलोडं नेतुं विनिर्मितम् अस्ति। अस्मिन् रॉकेट-इत्यस्मिन् अनेकाः महत्त्वपूर्णाः नवीन-प्रौद्योगिक्यः प्रयुक्ताः, यासां भारते प्रथमवारम् उपयोगः क्रियते।
रॉकेटस्य सर्वे द्रव-इञ्जिनाः धातुनिर्मिताः त्रि-आयामीय-मुद्रित-इञ्जिन इत्यादय: सन्ति। एतया प्रौद्योगिक्या पूर्वं शताधिकैः अवयवैः निर्मीयमाणाः इञ्जिन-इत्यादय: अधुना एकेनैव मुद्रित-इञ्जिन-इत्यनेन निर्मातुं शक्यन्ते। अनेन निर्माण-समयः अपि पर्याप्तरूपेण न्यूनीभवति। अपरं च निर्माण्या स्वकीयं न्यूमेटिक-चरण-वियोजन-तन्त्रम् अपि विकसितम्, यत् परीक्षितुं योग्यः अस्ति।
अभियान-आगमन इत्यस्मिन् बहवः पेलोड-इत्यादय: प्रेषिताः भविष्यन्ति। तेषु डायमण्ड-लोटस अपि समाविष्टः अस्ति। अयं बेङ्गलूरुनगरस्थितया कॉसमॉस-डायमण्ड्स-निर्माण्या प्रयोगशालायां निर्मितः।
स्काईरूट-एयरोस्पेस इत्यस्य कथनानुसारम्, अजयकुमार-मट्टेवाडा इत्यनेन निर्मिता सूक्ष्मकला अपि विक्रम-१ अभियानेन सह अन्तरिक्षं प्रेष्यते। अस्याम् अष्टादश-कैरेट्-सुवर्णनिर्मितं लघु-रॉकेट-इति अस्ति। तस्य अन्तः सर सी.वी. रमणः, डाॅ. विक्रम-साराभाई, तथा डाॅ. ए.पी.जे. अब्दुल-कलामः इत्येषां त्रयाणां महतां वैज्ञानिकानां अतीव सूक्ष्माः प्रतिमाः निर्मिताः सन्ति। एताः प्रतिमाः तावत् सूक्ष्माः सन्ति यत् ताः तण्डुलस्य एकस्मादपि कणात् लघुतराः सन्ति। अस्य अभियानस्य सह प्रधानमन्त्रिणः नरेन्द्रमोदिनः हस्तलिखितं पोस्टकार्ड इति अपि अन्तरिक्षं प्रेष्यते, यस्मिन् ‘वन्दे मातरम्’ इति लिखितम् अस्ति।
अद्यपर्यन्तं भारते उपग्रहाणां पृथिव्याः कक्षायां स्थापनस्य कार्यम् मुख्यतया इसरो-संस्थायाः रॉकेट-इत्येतै: एव सम्पन्नम्। स्काईरूट-एयरोस्पेस-निर्माण्याः स्थापना २०१८ तमे वर्षे अभवत्। निर्माण्या १८ नवम्बर २०२२ तमे दिने विक्रम-एस इत्याख्यस्य प्रथमस्य निजी-उपकक्षीय-रॉकेट-इत्यस्य सफलं परीक्षणम् अकरोत्। एषः रॉकेट प्रायः ८८.८ किलोमीटर-उच्चतां प्राप्तवान्, निर्धारितम् अभियान-रूपरेखां सफलतया सम्पूर्य बंगाल-उपसागरे अवतीर्णः। निर्माण्या उक्तं यत् सम्प्रति तस्याः प्रमुखं लक्ष्यं विक्रम-१ इत्यस्य सफलस्य विश्वसनीयस्य च प्रक्षेपण-यानस्य रूपेण स्थापनमेव अस्ति।
भारतस्य अन्तरिक्ष-नीतिः २०२३ इत्यनेन निजी-निर्माणीभ्यः अन्तरिक्ष-क्षेत्रस्य द्वाराणि उद्घाटितानि, तासां सहभागिता च प्रवर्धिता। तदर्थम् इन-स्पेस-सीड-फण्ड-योजना घोषिताभूत्। एषा योजना नवीनेभ्यः अन्तरिक्ष-आरम्भ-उद्यमेभ्यः प्रारम्भिक-वित्तीय-साहाय्यं प्रदातुं प्रवर्तिता। अनन्तरं २०२४ तमे वर्षे निजी-निर्माणीभ्यः अन्तरिक्ष-क्रियाकलापानाम् अनुमोदन-प्रक्रिया अधिक-पारदर्शिनी सरला च कृता। अन्तरिक्ष-आरम्भ-उद्यमेभ्यः निवेश-सुविधार्थं १०००-कोटि-रूप्यकाणां वेंचर-कैपिटल-निधिः अपि स्थापितः।
केन्द्र-सर्वकारस्य अनुसारं २०१४ तमे वर्षे भारते केवलम् एकः पञ्जीकृतः अन्तरिक्ष-आरम्भ-उद्यमः आसीत्। २०२६ तस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं तेषां संख्या ४०० अधिका अभवत्। भारतीय-अन्तरिक्ष-आरम्भ-उद्यमेषु अद्यावधि ५०-कोटि-डॉलराधिकः निवेशः जातः, तेषु केवलं २०२५ तमे वर्षे एव प्रायः १५-कोटि-डॉलर-निवेशः प्राप्तः। पिक्सेल, ध्रुव-स्पेस, स्काईरूट-एयरोस्पेस, अग्निकुल-कॉसमॉस, तथा बेलाट्रिक्स-एयरोस्पेस इत्यादयः निर्माण्यः भारतस्य नवीन-अन्तरिक्ष-युगस्य अग्रणी-निर्माण्यः इति रूपेण उदिताः।
Hindusthan Samachar / Divya Ranjan