Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १८ जुलाईमासः (हि.स.)। असमस्य मुख्यमन्त्री डाॅ. हिमन्त-बिस्व-सरमा भारतस्य प्रथमस्य निजी-ऑर्बिटल-प्रक्षेपण-यानस्य विक्रम-१ इत्यस्य सफलतायै स्काईरूट-एयरोस्पेस-निर्माण्याः सम्पूर्ण-दलाय हार्दिकाः शुभकामना: प्रदत्तवान्।
मुख्यमन्त्री सामाजिक-माध्यम-मञ्चे एक्स इत्यत्र उक्तवान् यत् विक्रम-१ इत्यस्य प्रक्षेपणं भारतस्य अन्तरिक्ष-उद्योगस्य उद्यमशीलतायाश्च सम्भावनानां नूतन-उन्नतेः प्रतीकम् अस्ति। तेन उक्तं यत् एषा उपलब्धिः भारतस्य प्रथमस्य निजी-ऑर्बिटल-प्रक्षेपणस्य रूपेण देशस्य अन्तरिक्ष-क्षेत्रे ऐतिहासिकं मील-प्रस्तरम् अस्ति।
डाॅ. सरमा उक्तवान् यत् एषा सफलता नव-भारतस्य तस्याः सामर्थ्यस्य पुनः प्रमाणं ददाति, यत्र नवोन्मेषः, प्रौद्योगिकी, उद्यमशीलता च देशं नूतन-उन्नतिं प्रति नयन्ति।
Hindusthan Samachar / Divya Ranjan