Enter your Email Address to subscribe to our newsletters


जौनपुरम्, 18 जुलाईमासः (हि. स.)। उत्तरप्रदेशस्य जौनपुरे सन्तरविदासस्य तपःस्थल्या छेराहटा अमृतसरतः तस्य जन्मस्थली वाराणसीपर्यन्तं सञ्चालिता सन्तरविदास अमृतभारत एक्स्प्रेस १४६२३ १४६२४ इति रेलयानस्य शनिवासरे जौनपुरसिटी रेलस्थानके भव्यस्वागतं कृतम्। अस्मिन् अवसरे प्रथमवारं कस्यचित् राजनैतिकप्रतिनिधेः स्थाने सन्तरविदासपन्थस्य अनुयायिभिः पारम्परिकरीत्या रेलयानस्य स्वागतं कृत्वा नूतना परम्परा प्रारब्धा।
रेलयानं निर्धारितसमयात् प्रायः विंशतिनिमेषपूर्वं प्रातः प्रायः एकादशवादने जौनपुरसिटी रेलस्थानकं प्राप्तम्। वरिष्ठसमाजसेवकयोः रमेशबौद्धस्य रमेशचन्द्रगौतमस्य च नेतृत्वे सन्तरविदासीयसमाजस्य बहुसंख्यकाः श्रद्धालवः लोकोपायलटं गार्डं च माल्यार्पणेन सम्मानितवन्तः। श्रद्धालुभिः रेलयाने समुपविष्टाः सन्तरविदासपन्थस्य अनुयायिनः अपि सस्नेहं स्वागतीकृताः।
अस्मिन् समये भाजपाजनपदाध्यक्षः अजीतप्रजापतिः जनपदमहामन्त्री पीयूषगुप्तस्य नेतृत्वे उपस्थितैः भाजपाकार्यकर्तृभिः रेलयाने यात्रां कुर्वत्सु सन्तेषु श्रद्धालुषु च पुष्पवृष्टिः कृता। सम्पूर्णे रेलस्थानकपरिसरे श्रद्धाया उत्साहस्य भक्तेः च वातावरणं दृष्टिगोचरम्।
समाजसेवकः पलटूरामः एतां रेलसेवां शासनस्य महत्त्वपूर्णोपलब्धिरिति वर्णयन् अवदत् यत् सन्तरविदासस्य नाम्ना प्रारब्धा एषा रेलसेवा दीर्घकालात् समाजस्य अपेक्षा आसीत्। तेन उक्तं यत् अस्याः सेवायाः लाभः श्रद्धालुभ्यः सामान्ययात्रिकेभ्यः च भविष्यति तथा सामाजिकाध्यात्मिकसम्बन्धाः अधिकं सुदृढाः भविष्यन्ति।
रेलप्रशासनस्य पक्षतः कार्यक्रमस्य संयोजकः नोडलाधिकारी अनुरागतिवारी रेलस्थानकं प्राप्तान् सर्वान् सन्तरविदासपन्थिनः अतिथींश्च स्वागतीकृतवान् तथा कार्यक्रमस्य सफलसञ्चालनार्थं सर्वासां व्यवस्थापनक्रियाणां समन्वयं कृतवान्। सुरक्षाव्यवस्थायाः दृष्ट्या आरपीएफचौकीप्रभारी विजयशङ्करपाण्डेयः जीआरपीप्रभारी रविन्द्रपटेलः च स्वस्वदलैः सह सम्पूर्णसमयं सज्जौ अवस्थितवन्तौ।
Hindusthan Samachar / Dheeraj Maithani