संपूर्ण क्रांति आंदोलनस्य हुतात्मच्छात्रेभ्यो दत्तश्श्रद्धांजलिः
पूर्वी सिंहभूमः, 18 जुलाईमासः (हि.स.)।साकचीनगरे १९७४ तमस्य वर्षस्य जुलैमासस्य अष्टादशदिनाङ्के सम्पूर्णक्रान्तिछात्रान्दोलने शहीदतां प्राप्तवन्तः जमशेदपुरनगरस्य त्रयः छात्राः प्रणवमुखर्जी राजीवरञ्जनः मोहम्मदमुसीमश्च तेषां शहादत्दिवसे शनिवासरे भावपूर
संपूर्ण क्रांति आंदोलन के शहीद छात्रों को  श्रद्धांजलि देते संजू आचार्य,चंद्रगुप्त सिंह सहित अन्य


पूर्वी सिंहभूमः, 18 जुलाईमासः (हि.स.)।साकचीनगरे १९७४ तमस्य वर्षस्य जुलैमासस्य अष्टादशदिनाङ्के सम्पूर्णक्रान्तिछात्रान्दोलने शहीदतां प्राप्तवन्तः जमशेदपुरनगरस्य त्रयः छात्राः प्रणवमुखर्जी राजीवरञ्जनः मोहम्मदमुसीमश्च तेषां शहादत्दिवसे शनिवासरे भावपूर्णया श्रद्धया स्मृताः। अस्मिन् अवसरे विविधसामाजिकछात्रजनसङ्गठनानां प्रतिनिधयः शहीदस्मरणार्थम् आयोजिते कार्यक्रमे सहभागित्वा तेषां बलिदानं प्रणेमुः तथा लोकतान्त्रिकमूल्यानां व्यवस्थापरिवर्तनस्य च कृते कृतं तेषां सङ्घर्षं संस्मृतवन्तः।

शहीदस्मारकनिर्माणसमितिः जमशेदपुरम् जेपी युवाछात्रसङ्घर्षमोर्चा झारखण्डक्रान्तिसेना च इत्येतासां संयुक्ततत्त्वावधाने आयोजिते कार्यक्रमे वक्तारः उक्तवन्तः यत् सम्पूर्णक्रान्तिआन्दोलनम् भारतीयलोकतान्त्रिकइतिहासस्य महत्त्वपूर्णः अध्यायः आसीत्। अस्मिन् आन्दोलने स्वप्राणान् समर्पितवन्तां छात्राणां योगदानम् आगामिपीढीनां कृते सर्वदा प्रेरणास्रोतः भविष्यति।

कार्यक्रमम् उद्दिश्य सम्बोधयन् संजीवाचार्यः उक्तवान् यत् युवभिः शहीदानां त्यागात् सङ्घर्षात् राष्ट्रहिते समर्पणभावात् च प्रेरणां गृहीत्वा समाजस्य राष्ट्रस्य च निर्माणे सक्रियभूमिका स्वीकरणीया। तेन शहीदानां स्वप्नानुरूपं श्रेष्ठसमाजनिर्माणस्य सङ्कल्पः पुनरुच्चारितः तथा सर्वेभ्यः तेषाम् आदर्शान् अनुसर्तुम् आह्वानम् अपि कृतम्।

श्रद्धाञ्जलिसभायाम् आजसूदलस्य नेता चन्द्रगुप्तसिंहः सहितः विविधसामाजिकछात्रसङ्गठनानां पदाधिकारी कार्यकर्तारश्च उपस्थिताः आसन्। सर्वे शहीदानां स्मृत्यर्थं पुष्पाणि समर्प्य तेभ्यः विनम्रां श्रद्धाञ्जलिम् अर्पितवन्तः तथा तैः प्रदर्शितमार्गम् अनुसर्तुं सङ्कल्पम् अगृह्णन्।

---------------

Hindusthan Samachar / Dheeraj Maithani