500 करोड़ रुप्यकेभ्यः अधिकव्ययराशिवत्याः कामाख्याकोरिडोरपरियोजनायाः कार्यं शुभारब्धम्
गुवाहाटी, 18 जुलाईमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डा हिमन्तबिस्वशर्मा शनिवासरे उक्तवान् यत् मातुः कामाख्यायाः आशीर्वादेन पञ्चशतकोटिरूप्यकाधिकव्ययेन निर्मीयमाणायाः महत्त्वाकाङ्क्षिण्याः कामाख्याकोरिडोरपरियोजनायाः कार्यम् आरब्धम् अस्ति। मुख
कामाख्या मंदिर।


गुवाहाटी, 18 जुलाईमासः (हि.स.)।

असमराज्यस्य मुख्यमन्त्री डा हिमन्तबिस्वशर्मा शनिवासरे उक्तवान् यत् मातुः कामाख्यायाः आशीर्वादेन पञ्चशतकोटिरूप्यकाधिकव्ययेन निर्मीयमाणायाः महत्त्वाकाङ्क्षिण्याः कामाख्याकोरिडोरपरियोजनायाः कार्यम् आरब्धम् अस्ति।

मुख्यमन्त्री अद्य सामाजिकसंसूचनामञ्चे एक्स इत्यत्र एकं संदेशं प्रसारयन् उक्तवान् यत् काशीविश्वनाथकोरिडोरपरियोजनायाः सफलतया प्रेरिता एषा परियोजना शक्तिपीठं मातरं कामाख्यां प्रति आगच्छद्भ्यः श्रद्धालुभ्यः पर्यटकेभ्यश्च अधिकाः सुगमाः सुव्यवस्थिताः विश्वस्तरीयाः च सुविधाः प्रदास्यति।

तेन उक्तं यत् अस्याः परियोजनायाः माध्यमेन श्रद्धालूनां दर्शनानुभवः केवलं श्रेष्ठतरः न भविष्यति, अपि तु असमराज्ये आध्यात्मिकपर्यटनम् अपि नूतनां गतिं प्राप्स्यति तथा च राज्यं धार्मिकपर्यटनस्य प्रमुखकेन्द्ररूपेण अधिकं सुदृढं भविष्यति।

----------

Hindusthan Samachar / Dheeraj Maithani